षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 299, कुल 408 में से
संदर्भ में पढ़ेंपुष्टिप्रवाहमर्यादा । ४१
निमित्तम् । तेन हेतुना मनआदिभिः स्वस्य रूपैः समवायिभिः प्रवाहादीन् सृष्टवान् । तत्र मनसा प्रवाहसृष्टिरेकादशस्कन्धे 'पुरुषः प्रकृतिश्चेति विकल्पः पुरुषर्षभ । एष वैका- रिकः सर्गो गुणव्यतिकरात्मक' इत्यनेनोक्तेति ज्ञायते । विकल्पत्वकथनात् । श्रुतौ च 'अस- तोऽधि मनोऽसृज्यत, मनः प्रजापतिमसृजत, प्रजापतिः प्रजा असृजत, तद्वा इदं मनस्येव परमं प्रतिष्ठितमि'ति जाग्रति बहिः सृष्टिरुच्यते । तथा 'य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान् रथयोगान् पथः सृजत' इति स्वप्ने उच्यते । यत्र मनसा बहिः सृजति, तत्र मायापि सहोपादीयते । अत एव नृसिंहतापनीयश्रुतौ वटबीजदृष्टान्तमुक्त्वा 'तथेयमपि स्वाव्यतिरिक्तानि क्षेत्राणि दर्शयित्वा जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवती'त्याद्युच्यते । अत एव 'यदिदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि मायाम- नोमय'मिति भगवतापि उभयमयत्वमुच्यते । अत एवासुराः सृष्टिकर्तृत्वं ब्रह्मलक्षणमस्यां दृष्ट्वा मायामेवोपासते । तदपि श्रावितं मण्डलब्राह्मणे 'मायेत्यसुरा' इति । इयमेव सृष्टि- न्तरमन्यदित्यादिशब्दैर्व्यवह्रियते श्रुतौ—'यद्युष्माकमन्तरं बभूवे'ति । 'मायया ह्यन्यदि- वे'ति। मायावादिनश्चैतामेवावलम्ब्य ब्रह्मवादिभिः प्रत्यवतिष्ठन्ते । इयं च सत्यसृष्टिमुपधाय तदुत्तरं च जन्यते । अत एव नृसिंहतापनीये योनित्वमात्मन एवोच्यते । अनुमानं च, विमतः प्रपञ्चः सत्यसृष्ट्युत्तरकालीनः । मायामनोमयत्वात् । स्वाप्निकैन्द्रजालिकवत् । व्यतिरेके, तत्तन्मतस्थसत्यप्रपञ्चवत् । एतेनैवार्थदेव सत्यसृष्टिसिद्धिरपि । इयमेव निबन्धे 'महेन्द्रजालवत्सर्वं कदाचिन्माययासृजदि'त्यनेन सङ्गृहीता । तथाच व्यामोहिका स्वतः सत्कार्याक्षमा सदुपधानेन तत्तत्क्षमा सृष्टिः प्रवाहसर्ग इति सिद्धम् । तथाच मनसा व्यामोहबहुलं प्रवाहं सृष्टवानित्यर्थः । वचसा सृष्टिश्च 'एत इति वै प्रजापतिर्देवानसृजता- सृग्रमिति मनुष्यान्रिन्दव इति पितॄन् तिरःपवित्रमिति ग्रहानाश्व इति शस्त्रं विश्वानीति स्तोत्रमभिसौभगेत्यन्याः प्रजा इति, स मनसा वाचं मिथुनं समभवदिति, स भूरिति व्याहरन् भूमिमसृजते'त्यादिश्रुतिषु, 'सर्वेषां स तु नामानि रूपाणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । नाम रूपं च भूतानां कर्मणां च प्रवर्तनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वर'इत्यादिस्मृतिषु च स्फुटा । न चात्र तृतीयाप्र- योगात्करणत्वमेव, नोपादानत्वमिति वाच्यम् । 'मृदा घटं निर्मिमीत' इत्यादावपि तथा प्रयोगात् । न चैवं ब्रह्मोपादानत्वश्रुतिव्याकोपः । 'वाचाऽविरूपनित्यया' 'वेदो नारायणः साक्षादि'त्यादिभिर्भगवद्रूपताबोधनेन तन्निवृत्तेः । न च शब्दस्यार्थोत्पादकत्वमसङ्गतमिति वाच्यम् । शब्दतन्मात्रादाकाशोत्पत्तेः स्मृतिशतसिद्धत्वात् । तथा वर्णात्मकादपि तदुत्पत्तौ बाधकाभावात् । वस्तुतस्तु 'वेदा यथा मूर्तिधरास्त्रिपृष्ठ'इति वाक्याद्वेदाभिमानिदेवर्तै-
१. तै. ब्रा. २-२-९-५९. ६ पु. प्र. म.