भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 300, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 300

वोपादीयते । अत एव 'ॐमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानम् । भूतं भवद्भ- विष्यदिति सर्वमोङ्कार एव । यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव । सर्वं ह्येतद्ब्रह्मे'ति माण्डूक्येऽपि श्रूयते । नामसृष्टौ तु नाद एव प्रणवद्वारोपादीयते । अत एव द्वादशस्कन्धे ॐङ्कारमुपक्रम्य 'खधाम्नो ब्रह्मणः साक्षाद्वाचकः परमात्मनः । स सर्वमन्त्रोपनिषद्वेदबीजं सनातन'मित्युक्तम् । 'स एष जीव' इत्यादि च । तेन वेदपुराणाद्यात्मकसृष्टेः प्रणव एवो- पादानम् । एवञ्च, 'मनः पूर्वो वागुत्तर' इत्यादिश्रुत्या वाचो मनःपूर्वकत्वश्रवणात्, 'वचसा वेदमार्गं ही'त्यत्राथर्भादेव मनःपूर्वकत्वसिद्धिः । तथाच मनस्समाधिपूर्वकं वचसा वेदमार्गं सृष्टवान् । हि युक्तश्चायमर्थः । तेन मार्गेण भगवान् प्राप्यत इति । यतो हरिः सर्वदुः- खहर्त्ता । तथाच वेदमार्गं विना जीवानां दुःखनिवृत्तिर्न स्यादतस्तथा कृतवानित्यर्थः । एतदेव 'तेने ब्रह्म हृदे'त्यनेनोच्यते । अत एव 'जन्माद्यस्य यतः शास्त्रयोनित्वा'दिति सूत्रकारोऽपि रूपसृष्टेर्नामसृष्टेर्भेदं क्रमेणाह । तथा 'रूपप्रपञ्चकरणादासक्तस्वांशवारणे । श्रुतिमात्मप्रसादाय चकारात्मानमेव स' इत्याचार्यैर्निबन्धे निरूपितम् । इदमत्राकूतम् । 'स वै नैव रेमे' इति श्रौते सन्दर्भे रमणार्थमेव प्रपञ्चरूपेणाविर्भाव उच्यते । तथाच रमणं वैचित्र्यं विना न सम्भवतीति सर्वेषामविद्यया स्वशक्त्या तत्तदासक्तिरूपं बन्धं सम्पादितवान् । पश्चात्सर्वे एते दुःखिता एव भविष्यन्तीति करुणया वेदमार्गकरणं दुःखनिवर्तकम् । अतो मनस्समाधिपूर्वकत्वमुच्यते । तथाच येषां वेदमार्गेण मुक्तिस्ते दैवजीवाः । येषां बन्ध एव ते आसुराः । 'दैवी सम्प'दिति वाक्यात् । पुष्टिं तु कायेन । 'कस्य रूपमभूद्द्वेधा तत्कायमभिचक्षत' इति कायपदनिर्वचनात् । 'स इममेवात्मानं द्वेधापातयत्ततः पतिश्च पत्नी चाभवता' मिति पुरुषविधब्राह्मणे श्रावणात्स्वरूपस्यैवानेकधा भवनम्, स्वरूपं चानन्द एवेत्यानन्देनेत्यर्थः । तत्रापि निश्चयः नितरां चय एकीभावो यस्य तादृशोऽतिसावधानः । तेन मनोवचःपूर्वकत्वमर्थादेव सिद्धम् । गोवर्धनोद्धरणप्रसङ्गे तथात्वं स्पष्टम् । तस्यानन्दांशादेर्न तिरोभावः । एतद्यथा तथा विद्वन्मण्डने निबन्धे च स्पष्टम् । यद्यपि पूर्वत्र समवायित्वं भगवत एवेति तस्यापि कायेनैव सृष्टिरायाति, तथापि तत्र समवायित्वे सच्चितोरेव प्राधान्यम्, अत्र तु केवलानन्दस्येति भेदः । अथवा । मर्यादायाः समवाय्यप्यक्षरमेव । 'मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः' 'अव्यक्तोऽक्षर इत्युक्तः' 'अव्यक्ताद्व्यक्तयः सर्वा' इत्यादिवाक्यैर्मर्यादासृष्टावुपादानकारणत्वेनाक्षरं ब्रह्म निरूपयित्वा, 'परस्तस्मात्तु भावोऽन्य' इत्यादिना तस्य क्षरात्परत्वमुक्त्वा, तस्य स्वधामत्वं चोक्त्वा, अग्रे 'पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यये'ति स्वस्य ततो भिन्नत्वं भणितवान् भगवान् । अत एव 'एकांशेन स्थितो जग'दिति स्पष्टमेव सङ्गच्छते । अत्र 'एकांशेने'ति कथनाद्भगवदंशस्याक्षरस्य मर्या- दासमवायित्वमवगम्यते । कालपक्षेऽपि तस्याभिन्नत्वादविरोधः । अत एव बृहद्वामनपुराणे ब्रह्मवाक्यं 'अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तम'मिति । अत एव 'द्विरूपं तद्धि सर्व