भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 33, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 33

श्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । १९ कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ भवति । इयं तु तादृशं श्रीव्रजशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीति भावः सूचितः ॥ ४ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । र्धश्चाऽपि वैराग्ये हरेरपि हरिर्यदी'त्यत्रोक्तं वैराग्यं निरूपितमित्यर्थः । एवं षड्भिर्विशेषणैः षड् धर्मान्निरूप्य धर्मिस्वरूपं निरूपयन्ति कृपाजलधिसंश्रित इति । प्रभुविशेषणपक्षे निरवधिकृपायुक्तत्वेन स्वरूपमेवाऽभिहितं न धर्मः । करुणा- र्यास्तु नित्याविर्भूतधर्मत्वेन स्वरूपमध्यपातात् । अन्ये धर्मा नित्या अपि लीलोप- योगिनस्तत्तल्लीलायां प्रकटीक्रियन्ते नाऽन्यदा । करुणा तु सर्वदाऽऽविर्भूतैव स्वरूप इति सदा तद्युक्तत्वात्स्वरूपमेव सेति भावः । श्रीमद्यमुनापक्षे कृपाजलधिरपारकरुणो भगवांस्तं सम्यगविच्छेदेन श्रितेति मुख्यस्वामिनीवर्द्धनारीनरवद्वा तत्स्वरूपमेवो- क्तमिति भावः । मम मनस्सुखं भावयेति । पूर्वोक्तधर्मवति हरौ मम मनस्सुखं भावेनाऽनुभूयमानानन्दस्तं भावय विचारय, कथं स भविष्यतीति । तद्विषयिणीं चिन्तां कुर्वित्यर्थः । अनेन त्वच्चिन्तयैवाऽयमानन्दः प्राप्यो नाऽन्यसाधनैरिति भावो निरूपितः । सम्बुद्धिपक्षे मम मनसि भगवत्स्वरूपानुभवजन्यं यत्सुखं तत् त्वं भावय स्वमनस्यानयेत्यर्थः । अनेन त्वच्चेतसि समागतावेव तत्सुखं सर्वदाऽनुभवविषयो श्रीपुरुषोत्तमप्रणीता विवृतिः । 'भू व्याप्तौ' । क्रियाफलस्य कर्तृगामित्वाभावान्नाऽऽत्मनेपदम् । मनसः सुखं स्वामी- ष्टरीतिकं भगवत्प्राप्त्येति तथा तां संपाद्य तदुत्पादयेति । आदित आप्राप्ति यथा सुखं भवति तथा अनायासेन मनः प्रापयेति वा प्रार्थना । अत्राऽऽद्येन विशेषणेन गुणेषु सङ्ख्याकालापरिच्छेदबोधनादतिसामर्थ्यरूपमैश्वर्यं बोधितम् । द्वितीयेन "सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगा" इत्याद्युक्तदेवजेतृत्वरूपं वीर्यम् । तृतीयं तु विशेष्यमेव । तुरीयेण दातृत्वाद्यशः । पञ्चमेन ज्ञानम् । स्वसन्निधाना- देव ज्ञानकार्यस्य विशुद्धत्वस्य मथुरायामाविर्भावात् । षष्ठेन श्रीः । 'चकास गोपी- परिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदि'ति तदावरणेनैव तत्प्रकाशात् । सकल- पदेनाऽनीर्ष्याद्योतनाद्विवक्षितमपि गुणातीतत्वं स्फोरितम् । सप्तमेन वैराग्यम् । विरक्त एव हि कृपालुर्भवति, न तु रक्तः, रागस्य गर्द्धात्मकत्वात् । 'नाऽहमा- १ करुणायाः स्वनित्याविर्भूतधर्मत्वेनेत्यादिः ङ.