षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 33, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । १९ कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ भवति । इयं तु तादृशं श्रीव्रजशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीति भावः सूचितः ॥ ४ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । र्धश्चाऽपि वैराग्ये हरेरपि हरिर्यदी'त्यत्रोक्तं वैराग्यं निरूपितमित्यर्थः । एवं षड्भिर्विशेषणैः षड् धर्मान्निरूप्य धर्मिस्वरूपं निरूपयन्ति कृपाजलधिसंश्रित इति । प्रभुविशेषणपक्षे निरवधिकृपायुक्तत्वेन स्वरूपमेवाऽभिहितं न धर्मः । करुणा- र्यास्तु नित्याविर्भूतधर्मत्वेन स्वरूपमध्यपातात् । अन्ये धर्मा नित्या अपि लीलोप- योगिनस्तत्तल्लीलायां प्रकटीक्रियन्ते नाऽन्यदा । करुणा तु सर्वदाऽऽविर्भूतैव स्वरूप इति सदा तद्युक्तत्वात्स्वरूपमेव सेति भावः । श्रीमद्यमुनापक्षे कृपाजलधिरपारकरुणो भगवांस्तं सम्यगविच्छेदेन श्रितेति मुख्यस्वामिनीवर्द्धनारीनरवद्वा तत्स्वरूपमेवो- क्तमिति भावः । मम मनस्सुखं भावयेति । पूर्वोक्तधर्मवति हरौ मम मनस्सुखं भावेनाऽनुभूयमानानन्दस्तं भावय विचारय, कथं स भविष्यतीति । तद्विषयिणीं चिन्तां कुर्वित्यर्थः । अनेन त्वच्चिन्तयैवाऽयमानन्दः प्राप्यो नाऽन्यसाधनैरिति भावो निरूपितः । सम्बुद्धिपक्षे मम मनसि भगवत्स्वरूपानुभवजन्यं यत्सुखं तत् त्वं भावय स्वमनस्यानयेत्यर्थः । अनेन त्वच्चेतसि समागतावेव तत्सुखं सर्वदाऽनुभवविषयो श्रीपुरुषोत्तमप्रणीता विवृतिः । 'भू व्याप्तौ' । क्रियाफलस्य कर्तृगामित्वाभावान्नाऽऽत्मनेपदम् । मनसः सुखं स्वामी- ष्टरीतिकं भगवत्प्राप्त्येति तथा तां संपाद्य तदुत्पादयेति । आदित आप्राप्ति यथा सुखं भवति तथा अनायासेन मनः प्रापयेति वा प्रार्थना । अत्राऽऽद्येन विशेषणेन गुणेषु सङ्ख्याकालापरिच्छेदबोधनादतिसामर्थ्यरूपमैश्वर्यं बोधितम् । द्वितीयेन "सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगा" इत्याद्युक्तदेवजेतृत्वरूपं वीर्यम् । तृतीयं तु विशेष्यमेव । तुरीयेण दातृत्वाद्यशः । पञ्चमेन ज्ञानम् । स्वसन्निधाना- देव ज्ञानकार्यस्य विशुद्धत्वस्य मथुरायामाविर्भावात् । षष्ठेन श्रीः । 'चकास गोपी- परिषद्गतोऽचितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदि'ति तदावरणेनैव तत्प्रकाशात् । सकल- पदेनाऽनीर्ष्याद्योतनाद्विवक्षितमपि गुणातीतत्वं स्फोरितम् । सप्तमेन वैराग्यम् । विरक्त एव हि कृपालुर्भवति, न तु रक्तः, रागस्य गर्द्धात्मकत्वात् । 'नाऽहमा- १ करुणायाः स्वनित्याविर्भूतधर्मत्वेनेत्यादिः ङ.