षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 34, कुल 408 में से
संदर्भ में पढ़ें२० श्रीयमुनाष्टकम् ।
यया चरणपद्मजा मुररिपोः प्रियम्भावुका
अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया ।
श्रीहरिरायप्रणीतं टिप्पणम् ।
भवति । भगवताऽष्टविधैश्वर्यस्य त्वयि निक्षिप्तत्वात् स्वयं त्वदधीनः सर्वदाऽनीश्वर इवेति त्वद्विचारेणैव तद्भवतीत्यभिप्रायः सूचितः । एतेनेत्यादिना तव सर्वदा तद्द्रवी- भूतरसात्मकत्वेन लीलाविशिष्टप्रभुसङ्गतत्वाद्येन केनाऽपि सम्बन्धेन त्वत्सङ्गतौ तादृ- क्प्रभुसङ्गतिरेव जातेत्याशयोऽत्र बोध्यः ॥ ४ ॥ अथेत्यार्थान्तरोपक्रमे । पूर्वं चतुर्भिः श्लोकैरूत्कर्षवर्णनेन स्तुतिः कृता । अतः परमुत्कर्षवर्णनस्याऽशक्यत्वनिरूपणेन सा निरूप्यत इत्यर्थः । भगवदीयानाम- पीति, भगवता भगवदीयत्वरूपपरमोत्कर्षं प्रापितानामपीत्यर्थः । चरणपद्मजेति, चरणजेत्येतावर्तव चारितार्थ्येऽपि पद्मपदोपादानस्याऽयमाशयः । यथा पद्मजो ब्रह्मा भगवतः पपञ्चे क्रीडार्थं भगवदाज्ञां च प्राप्य प्रपञ्चं सृष्टवान् स्वयं निरपेक्षस्तथेय- मपि स्वगतभगवच्चरणरेणुभिः सेवौपयिकदेहसम्पादनेन भगवतो भक्तिमार्गप्रकटने- च्छामवगत्य स्वयमनपेक्षैव भगवत्क्रीडार्थं भगवदीयजनान् सृष्टवतीति । अत्र ब्रह्म- वदाज्ञाऽभावोऽस्या भगवति साक्षात्सम्बन्धत्वेन हार्दवित्त्या । न हि हार्दविदो लोकेऽप्याज्ञाप्यन्ते, अतिचतुरत्वादिति भावः । तेनेति, चरणपद्मजातत्वेनेत्यर्थः । चरणं हि निर्दोषपूर्णगुणं भक्तिरूपं च तज्जातत्वेना श्यामपि तद्गुणसङ्क्रमः । तथौ- चाऽन्येषामपि सेविनां तथा करणमुचितम् । 'कारणगुणा हि कार्यगुणानामारम्भका'
श्रीपुरुषोत्तमप्रणीता विवृतिः ।
त्मानमाशासे मद्भक्तैः साधुभिर्विने'ति भक्तान् विना स्वस्मिन्नपि वैराग्यबोध- नाच्च । तत्संश्रितत्वेन श्रीयमुनाया अपि तथात्वाच्च । अत्र भगवत्समानधर्मवत्त्वा- ज्जीवस्याऽनायासेन भगवत्सम्बन्धसम्पादकत्वं तुरीयमैश्वर्यं स्फुटमेव । एवं चतुर्भिः श्लोकैः स्वरूपं गुणाश्चोक्ताः ॥ ४ ॥ अतः परं पूर्वोक्तस्य सर्वस्याऽसत्समारेपणत्ववारणाय गुणानामानन्त्या- द्विशेषो वाग्विषय इति तत्सत्ता दिङ्मात्रेणोच्यत इति बोधयितुमग्रिमः श्लोक इत्याशयेन तमवतारयन्त्यथेत्यादि । अत एव प्रक्रमान्तरबोधकपदोक्तिः । १ सम्बन्धत्वेनेति क-ख-ग-घ-च. २ तथाऽन्येषामिति ख.