षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 35, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम् । २१ समागमनतो भवतसकलसिद्धिदा सेवताम् । निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् । श्रीहरिरायप्रणीतं टिप्पणम् । इति न्यायादिति भावः । यया त्वयेति, त्वया पुष्टिमार्गीयया सर्वाङ्गसम्बन्धिन्या मिलनतो मुररिपोर्भक्तप्रतिबन्धनिवर्त्तकस्याऽत एव तद्दुःखहर्त्तुः प्रियम्भावुका । यथा श्रीयमुना साक्षात्सेवोपयोगिदेहसम्पादनेन सेवकसृष्टिककरणात्तत्कृतसेवया प्रियम्भा- वुका, तथा गङ्गा श्रीयमुनासङ्गानन्तरं तद्गतसरश्रमजलाणुसम्बन्धे साक्षात्सेवो- श्रीपुरुषोत्तमप्रणीता विवृतिः । मिलनत इति । सञ्ज्ञापूर्वकस्य विधेरनित्यत्वादुणाभावः । तथाऽभवदिति । प्रियम्भावुका अभवत् । 'भुवः खिष्णुच् खुकञावि'त्यनेनाऽऽख्यादिभ्यः परस्य भूधातोरिच्छ्यर्थे खुकञि प्रियम्भावुकशब्दसिद्धिः । तथाचाऽप्रिया प्रिया सम्पन्ने- त्यर्थः । अप्रियत्वं चरणक्षालनजलत्वाद्भौतिकत्वाभ्यां च । तेनेत्याद्युक्तगुणवत्त्वं तु चरणस्यैव माहात्म्यमतो न चोद्यावसरः। सेवतामित्यनुदात्तेत्त्वलक्षणस्याऽऽत्मने- पदस्याऽनित्यत्वेन शतृप्रत्ययः । अत एव 'त्वां सेवतां सुरकृता बहवोऽन्तराया' इत्याद्यार्षप्रयोगः । यद्वा । क्विबन्तो नामधातुप्रयोगः । सेवेवाऽऽचरताम् । सेवा यथा प्रसादिका तथा स्तोत्रपाठादिना प्रसादयतामित्यर्थः । ननु पूर्वार्द्धोक्तेऽर्थे किं मानमित्याकाङ्क्षायां तद्वदन्त एवोत्तरार्द्धं विवृण्वन्ति पूर्वमित्यादि । अन्य- सङ्गतिजनितमिति । कुटिलाजलावरणजलशिवजटादिसङ्गतिजनितम्। वामनपुराणे उमातो ज्येष्ठा हिमवत्सुता ब्रह्मशापेन नदी भूत्वा सत्यलोके प्रवहन्ती आर्षे रामायणे गङ्गापदेन निर्दिष्टा । पञ्चमस्कन्धे “साक्षाद्यज्ञलिङ्गस्य विष्णोर्विक्रमतो वामपदाङ्गुष्ठनखनिर्भिन्नोर्ध्वाण्डकटाहविवरेणाऽन्तः प्रविष्टाया बाह्यजलधारे”त्यादि- नैका गङ्गोक्ता । पुराणान्तरे गोदामाहात्म्ये विवाहसप्तपदीसामयिकपार्वतीदर्शन- जातेरेतःपातलज्जया बहिर्निर्गतस्य ब्रह्मणः पापापनुत्तये शिवेन पृथिवीसारतः कमण्डलुं निर्माय तत्र सकलजलसारमादाय तस्मै दत्तं तन्त्रिविक्रमचरणक्षालनेन गङ्गात्वमापन्नं भगीरथगौतमाभ्यां शिवजटाजूटद्वाराभेदेनाऽऽनीतम् । एतदेव “या वै लसच्छ्रीतुलसीविमिश्रपादाब्जरेण्वभ्यधिकाम्बुनेत्री”ति प्रथमस्कन्ध उक्तम् । तिसृ- १ सेवकसृष्टिकर्तृत्वतादिति ग-घ. २ तत्कृतेसेवायांमिति च, अ.