षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 36, कुल 408 में से
संदर्भ में पढ़ें२२ श्रीयमुनाष्टकम् । तया सदृशतामियात्कमलजा सपत्नीव यद्धरि- सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव- त्सङ्गतिजनित उत्कर्षः पठितः " सा राजन् दर्शनादेव ब्रह्महत्यापहा- रिणी " त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति श्रीहरिरायप्रणीतं टिप्पणम् । पयोगिदेहादिसम्पादनपूर्वकं सेवकसृष्टिकरणात्तथा जाता । सेवतां भवन्मिलितगङ्गा- सेवकानां च पूर्वोक्तसकलसिद्धिदा जातेत्यर्थः । अयमुत्कर्षः स्वानुभवेनोक्तः । परं नाऽत्र चित्रं किञ्चित् । यो हि यदाविष्टः स तदा तत्कार्यं करोति । भगवदाविष्टभक्त इव । अत एव " कस्याश्चित्पूतनायन्त्या " इत्यादिवाक्यानीति नाऽनुपपत्तिः । पूर्वमिति, यद्यपि पूर्वमाचार्यवर्यप्राकट्यात्पूर्वं पुराणादिष्वपि सरस्वतीसङ्गतिजनित- मुत्कर्षमभिधाय भवतीसङ्गतिज उत्कर्षः पठितः । परन्तु "सा राजन् दर्शनादेव ब्रह्महत्यापहारिणी"त्यादिरूपो न तु पूर्वोक्तरूपः । श्रीयमुनाया निजाचार्यप्राकट्या- त्पूर्वमेवंविधस्वरूपज्ञानात्तदन्निरूपणात् । अतोऽयमेवोत्कर्ष एतत्सङ्गत्त्यनन्तरं भावी मन्तव्य इति भावः । एतादृश्येति, स्वसम्बन्धेन स्वसमानगुणसम्पादिकयेत्यर्थः । श्रीपुरुषोत्तमप्रणीता विवृतिः । णामेकीभावेन पातेऽपि "विष्णोः पादाच्छिशुमाराद्ध्रुवाच्च सोमात्सूर्यान्मेरुरूपाच्च विष्णोः । समागता शिवमूर्ध्नो हिमाद्रिमि"ति महाभारतेऽवतरणक्रम उक्तः । एवमग्रे तत्तत्क्षेत्रसम्बन्धे तत्तत्पुराणेषु तत्तत्कृत उत्कर्षश्चेति तथा । आदिपदेन "सितासिते सरिते यत्र सङ्गते तत्राऽऽप्लुतासो दिवमुत्पतन्ति । ये वै तन्वां विसृजन्ति धीरास्ते जनासो अमृतत्वं भजन्त" इति श्रुतिरन्यच्च सङ्गृहीतम् । तेन श्रीयमुनासङ्गमात्सेवकसकलसिद्धिदातृत्वं स्पष्टमेवेति बोधितम् । भगव- त्प्रियम्भावुकत्वं तु समागम एव माहात्म्याधिक्यबोधनाद्भगवत्प्रियत्व एव च तथाभावात् । अन्यथा चर्मण्वत्यादिनद्यन्तरस्याऽपि तथात्वापत्तेः । अतस्तदेतैरेव वाक्यैः सिद्धयतीति तत्र विशेषतः प्रमाणान्तरं नोपन्यस्तम् । यद्वा । "आकेस्तच्छी- लतद्धर्मतत्साधुकारिष्व"त्यधिकारस्थितेन "लषपते"ति सूत्रेण भुञ् उक्तम् । तथा च १ भवतीसङ्गति० पाठ. २ पूर्वकसेवाकारणादिति ग-घ. पूर्वकसेवाकरणादिति क. पूर्वकं सेवाकरणादिति ङ. पूर्वकं तत्सेवाकरणादिति ख-च. पूर्वकं सेवाकारणादिति मुद्रितग्रन्थे स्वीकृतः । अ ग्रन्थे उपरि निर्दिष्टोन्वर्थः पाठः वर्तते सोऽस्माभिः स्वीकृतः ३ भवत्सङ्गतिज इति च, भगवत्सङ्गतिज इति ग.