षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 358, कुल 408 में से
संदर्भ में पढ़ें१८ सिद्धान्तरहस्यम् । म्बन्ध' इति श्लोके नवरत्ने प्रभुचरणैरेव स्फुटीकृतम् । सेवाधिकारस्तु विशेषतः पृथगङ्गी- कारे भविष्यति । एतेन यत्र दारादीनामात्मदेहार्धभूतानामपि संसर्गस्य स्वात्मना सह समर्पितत्वेन तत्रापि सेवोपयोगित्वेनैव न बाधकत्वम्, अन्यथा तथात्वमेव, तत्रान्येषामतादृ- शानां तथात्वे किं वाच्यमिति कैमुतिकन्यायोपि सूचितः । अथवा, निवेदिभिस्तादृशैः सर्वथा प्रपन्नैः सह सा पूर्वोक्ता मर्यादा कर्तव्या, किन्तु सर्वमेव स्वकीयं समर्प्य सर्वेषां भगवत्येव विनियोगं कुर्यादिति दुष्टसङ्गो निवारितः । एतेनासमर्पितानां सङ्गं त्यक्त्वा सर्वथा प्रपन्नैः सह सङ्गः कार्य इत्युक्तम् । ननु यदि दारादीनां सेवाधिकारो विशेषतः पृथक् ब्रह्मसम्बन्धकरणेनैव भवति, तदा स्वात्मना सह समर्पणस्य किं प्रयोजनं तत्राहूः न मतमिति । अयं भावः । जीवस्यात्मदेहसम्बन्धिदारादिधनपर्यन्तं यद्वस्तु तत्सर्वं स्वस्व- रूपान्तःपात्येवास्तीति सर्वेषां प्रत्यहमन्यत्र स्वार्थं वोपयोगस्य पूर्वं जायमानत्वात्तस्मिन्स- त्येव तन्मध्ये केवलमात्मनः समर्पणं सामिभुक्तस्य तद्वद्भवति, तद्देवदेवस्य प्रभोर्मतं न । देव एव स्वयं निर्दुष्टो निर्दुष्टवस्तुन एव भोक्ता भवति । तस्याप्ययं देवः सर्वोत्कृष्टः । यः सर्वोत्कृष्टः स सर्वथा निर्दुष्टपदार्थस्यैवोपभोगं करोति । निर्दुष्टत्वं तु सर्वांशेनान्यसम्बन्ध- त्यागेन केवलं तदीयत्वकरणेनैव भवतीति तेषामन्यत्रोपयोगे विद्यमान एव तन्मध्ये केवला- त्मसमर्पणस्य सर्वांशेन स्वकीयत्वाभावात् सामिभुक्तत्वेनोपभोगार्थं न सम्मतमित्यर्थः । यत्रैतत्प्रकारकसमर्पणस्यैव सामिभुक्तत्वम्, तत्र प्रमादतः स्त्रीबालादिभुक्तावशिष्टस्य निवे- धस्तु प्रमाणसिद्ध इति तस्य सामिभुक्तत्वेनासम्मतत्वे किं वाच्यम् । किञ्च, दासस्याप्यस- म्र्पितवस्तुसम्बन्धस्य बाधकत्वात्स्वधर्महानिप्रसङ्गे स्वानुपयोगित्वेन तादृशं समर्पणं प्रभोर्न मतमित्यपि ज्ञेयम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । तस्मादादावेव सर्ववस्तूनां दारादिधनपर्यन्तानां देहप्राणेन्द्रियादीनां समर्पणं कर्तव्यम् , अत्र प्रयोजनं सर्वकार्ये ऐहिकपारलौकिककार्ये। ऐहिकं भगवत्सेवामात्रोपयोगि- त्वात्तत्तदिन्द्रियविषयत्वेन स्त्रीपुत्रादिग्रहणं तन्निर्वाहादिकं च। पारलौकिकं तु सर्वेषां पूर्वो- क्तानां साक्षाद्भगवदर्थोपयोगरूपकार्यम्, तदर्थं यथा भगवत्येव सर्वेषां विनियोगो भवेत्, नान्यत्र, तथान्यविनियोगादिकं त्याजयित्वा तद्विनियोगार्थमेव सर्वेषां वस्तूनां देहादिदारा- न्तानां तत्तत्पदार्थानां समर्पणं कर्तव्यमित्यर्थः । एवं सति सेवोपयोगित्वेनात्मशोधकत्वेन १. संबन्धाभावेनेति पाठः ।