षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 359, कुल 408 में से
संदर्भ में पढ़ेंश्रीव्रजोत्सवकृतविवृतिसमेतम् । २९
साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तं तदुत्तममहाप्रसादत्वेनैव तत्तत्पदार्थेन तावन्मात्रदेहा- दिनिर्वाहादिकमपि कर्तव्यम्, न तु भोगत्वेन लौकिकाद्युत्साहेन च अधिकव्ययादिकमित्य- पि ज्ञापितं भवतीति सर्वमनवद्यम् । ननु निवेदितस्य सर्ववस्तूनां समर्पणेन भगवदीयत्वे जाते तद्ग्रहणनिषेधः शास्त्रेषु श्रूयते, तत्राहुः दत्तेति । स्पष्ट एवार्थः । इदं भिन्नमार्गपरं वचनम्, न तु स्वमार्गीयम् । स्वमार्गप्रकारस्तूच्यते सेवकानामिति । सेवकानां दासानां यथा व्यवहारः लोके लौकिके प्रसिद्धो वर्तते । तथा हि । सेवकस्य दासस्य सर्वं प्रभोरेव, गृहादिकमपि प्रभोरेव, न तु स्वस्येत्यखिलं तदधीनमिति । तस्यायं धर्मः । यत्स- र्वेषां तत्रैवोपयोगकरणेनाहर्निशं तदेकपरतया यावद्भोगसामग्र्यादिकमपेक्षितम्, तत्तत्सा- मयिकं तत्सर्वं सम्पाद्य तदुपयुक्तं करोति । ततस्तदुपयोगे जाते स्वेदेहादीनां दारादीनां च सार्थंकत्वे सम्पन्ने तदुपयोगानवसरे कृपया तद्दत्तप्रसादस्य पूर्वोक्तधर्मरूपत्वात्तेनैव देहनिर्वाहादिकं तत्सम्बन्ध्येहिकं च तन्मात्रोपयोगि करोति, तथा निवेदिनापि सर्वं समप्यैव कार्यम् । यस्य यादृक्प्रकारेण हि उपयोगः सम्पन्नो भवति, तादृक्प्रकारेणैव स्वप्रभावुपयुक्तं कृत्वा तदुपयोगानवसरे तद्दत्तत्वात्पूर्वोक्तधर्मरूपेण तदुपभुक्तपदार्थेन तावन्मात्रोपयोगि देहनिर्वाहादिकमन्यदप्यैहिकं कार्यं कुर्यात्, न तु भोगादिभावेनेति स्वमार्गप्रकार उक्तः । एवं स्थितौ सर्वेषां निर्दुष्टत्वं भवेदित्याहुः सर्वेषामिति । सर्वेषां पूर्वोक्तानां देहप्राणेन्द्रियादीनां ततस्तदनन्तरं तादृक्प्रकारकास्थित्यनन्तरं ब्रह्मता भवति । सर्वेषु तदीयत्वस्फूर्त्या तदर्थमेवोपयोगकरणात्प्राकृताध्यासनिवृत्त्या सच्चिदानन्दरूपता तिरोहितानन्दस्य प्रकटतत्रितयात्मकता भवतीत्यर्थः । एतदेवोक्तं 'ततः संसारदुःखस्ये'त्यत्र 'वस्तुस्वभावाद्भवत' इति । किञ्च, तदुत्तममहाप्रसादस्यापि तथात्वेन ग्रहणाद्वाह्याभ्यन्तर- शुद्ध्या मायांशनिवृत्त्या निर्दुष्टता भवेदित्यर्थः । तदुक्तं'मुच्छिष्टभोजिन' इति । एतेन ब्रह्मणः पुरुषोत्तमाधिष्ठानत्वाद्देहप्राणेन्द्रियादिषु तद्रूपत्वे सम्पन्ने पुनः सर्वदा तत्र साक्षात्पुरुषोत्तमावेशस्तिष्ठेदित्युक्तं भवति । किञ्च, ब्रह्मणि यथा विरुद्धधर्मेष्वपि दृश्यमानेषु निर्विकारत्वम्, तथा तादृशेषु लोकसंग्रहार्थं लौकिकवैदिकधर्मादिष्वपि सत्सु निर्विकार- त्वमेव, न तु किमपि सविकारत्वमित्यपि ज्ञापितम् । पुनस्ते धर्मा दोषरूपत्वेन गणनीया न भवन्ति, कपटरूपत्वात् ॥ ७ १/२ ॥ इममेवार्थं दृष्टान्तेन प्रकटीकुर्वन्त उपसंहरन्ति गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा क्षुद्रनदीनां जलेषु बहवो दोषाः सन्ति, तेषां गङ्गासम्बन्धे सति तत्तन्नदी- नाम्नामपि लुप्तत्वाद्गङ्गात्वमेव भवति, गङ्गात्वे सम्पन्ने तत्तद्गुणदोषादिवर्णनापि निरूपयितुं
१. तदुपयुक्तेति पाठः ।