षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 360, कुल 408 में से
संदर्भ में पढ़ें२० सिद्धान्तरहस्यम् । योग्या न भवति, तज्जलानां गङ्गासम्बन्धान्ते स्वयमेव नष्टा इत्यभावादेवानिरूप्यत्वमुक्तम्, तद्वत्तथात्रापि ब्रह्मसम्बन्धानन्तरमेवं प्रकारकस्थितौ ब्रह्मतायां सम्पन्नायां ते दोषाः प्राकृतांशोद्भूताः स्वयमेव लुप्ता भवन्तीति तेषामप्यनिरूप्यत्वमुक्तम् । तादृशानां लोकसंग्रहार्थं दृश्यमानानामपि केषाञ्चित्प्राकृतरीतिर्धर्माणां कपटरूपत्वादग्दधपटन्याये- नानिरूप्यत्वमेवेति सर्वमनवद्यम् । एवं जीवस्य तिरोहितानन्दस्य साधनसहितं पुनर्ब्र- ह्मसम्पत्तिपूर्वकं साक्षात्पुरुषोत्तमप्राप्तिरूपफलयोग्यता निरूपिता ॥ ८$\frac{१}{२}$ ॥ ईश्वरवचननिरुक्तिः कर्तुं केनेह शक्यास्ति । यदिदं तदर्थरीतिः स्फुरिता मे तत्कृपैव तस्यैव ॥ १ ॥ मद्ग्राह्ये नो देया दृष्टिः किन्तु स्वकीयत्वे । मम तु तयैव भविष्यति मार्गस्थितिरन्यथा हि नो भविता ॥ २ ॥ इति निश्चयेपि शरणं प्रभो भवच्चरणपङ्कजान्येव । सततं मम तेनैव त्वत्करणाशापि भाविनी फलिता ॥ ३ ॥ इति श्रीव्रजोत्सवकृतसिद्धान्तरहस्यविवृतिः सम्पूर्णा ।
श्रीकृष्णाय नमः ।
सिद्धान्तरहस्यम् ।
श्रीगोकुलोत्सवकृतविवृतिसमेतम् ।
पिबत श्रीमदाचार्यचरणाम्बुजयोर्मधु । यद्ध्यानाद्धान्तमाधूर्य मेधा मेधार्थमादधे ॥
अथ साक्षाद्भगवान् ‘स ऐक्षते’त्यादिश्रुत्या क्रीडार्थं नानास्वभावं जगत्सृष्ट्वा, तत्र साक्षात्स्वसेवोपयोगित्वेन प्रकटितानां वक्ष्यमाणप्रबलदोषविस्मृतस्वधर्माणां दैवजीवानां तत्रापि पुष्टिमार्गीयाणां उत्तरदलानुभवार्थमेव पृथकृतानां तत्र संसर्गवशादुपचीयमानं बाहि- र्मुख्यं अवलोक्य तदुद्दिधीर्षया स्वसेवायामङ्गीकारार्थं स्वाज्ञयैव प्रादुर्भूतानां श्रीमदाचा- र्याणां ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य’इति वाक्यात्तन्नि- ष्ठदोषाभावस्य ब्रह्मविद्यासम्पत्तेश्च तत्राधिकारसम्पादकत्वात् । प्रतिपादकानां तत्तच्छास्त्रोक्तानां मन्त्रादीनां ‘कलौ दशसहस्राणी’त्यादिवाक्यात्तिरोहितदेवतावत्त्वादन्धिष्ठितानां तदसाधक- त्वात्कथमेतेषां दोषनिवृत्तिः, कथञ्च ब्रह्मविद्यानैपुण्यम्, कथञ्च भगवत्सेवोपदेशः कर्तव्य इति
२. कर्मणामिति पाठः ।