षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 361, कुल 408 में से
संदर्भ में पढ़ेंश्रीगोकुलोत्सवकृतविवृतिसमेतम् । २१ विचारपरतां मत्वा स्वयं पुष्टिमार्गव्यवस्थां सकलमार्गेभ्यो भिन्नामेव ज्ञापयंस्तेषां फलदान- विलम्बासहिष्णुः स्वसिद्धान्तरहस्यं यदाज्ञापयत्, तदेव कदा कस्मिन्काले केन प्रकारेणाज्ञेति प्रकाशयन्तः श्रीमदाचार्यचरणाः स्वकीयशिक्षार्थं प्रत्यक्षरविचारेण निरूपयितुं प्रतिजानते । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणस्येति । श्रावणस्य विष्णुदैवतत्वात्तदुपलक्षितमासस्यापि तथात्वमेव । अत एवास्योपनयनादौ निषिद्धत्वेपि वैष्णवदीक्षायां प्राशस्त्यं श्रूयते । 'श्रावणे सुखसम्पत्ति'रिति । तेन यथैतन्मासस्य दैवतं विष्णुः, तथा देवानां तत्रापि पुष्टिमार्गीयाणां प्रभुः साक्षाद्भगवानेवेति तेषां भगवदधीनत्वमेव, नतु कालाधीनत्वमितरमार्गीयाणामिव । अतोहमेवैतेषां दोषनि- वर्तको, न साधनान्तरापेक्षेति सूचितम् । ननु मास्तु साधनान्तरापेक्षा, भगवतैव दोषनिवृत्तौ सत्यां अङ्गीकर्तव्या इति चेत्, तत्राहुः अमले पक्ष इति । यद्यप्यमलत्वं पूर्णिमायामेव सर्वथा तमोनिवृत्तेः, तथापि अमोत्तरं चन्द्रकलासम्बन्धमात्रेण पक्षस्यामलत्वं न प्रमाणवि- रुद्धम्, क्रमशश्चन्द्रकलाविर्भावे तमोनिवृत्तिः प्रकाशाधिक्यमाह्लादश्च सिध्यति, तथैतेषामपि सम्बन्धमात्रेण तथात्वम् । क्रमशश्च सेवया तदाविर्भावे जातेऽनिष्टनिवृत्तिर्ज्ञानवैशिष्ट्यं भजनानन्दानुभवश्च सेत्स्यतीति भावनीयम् । तत्क्रमसूचनार्थमाहुः एकादश्यामिति । सा ह्येकादशेन्द्रियशोधिका भगवदेकदैवत्या च । तथा सा यथा सर्वेन्द्रियदोषनिवृत्तिपूर्वकं तत्र तत्र भगवदावेशं सम्पादयति, तथा वक्ष्यमाणब्रह्मसम्बन्धानन्तरं सेवायां प्रवृत्तस्य तत्त- दिन्द्रियैर्भागवदीयं तत्तत्कार्यं कुर्वतो यत्र यत्र यथा यथा भगवदावेशः, तथा तथा तत्तद्दोष- निवृत्तिरिति सूच्यते । अनन्तरञ्च यथैकादश्यामेकादशेन्दुकलाविर्भावेन तमसि निवृत्त- प्राये दिनत्रयानन्तरं पूर्णिमायां पूर्णेन्दुसम्बन्धः, तथा सेवायां प्रवृत्तस्यापि पूर्वोक्तक्रमेणै- कादशेन्द्रियेष्वपि सर्वदोषनिवृत्त्या भगवदाविर्भावे सिद्धेऽवशिष्टत्रिगुणात्मकदेहसम्बन्ध- मात्रप्रतिबन्धकदोषनिवृत्तौ पूर्णानन्दसम्बन्धः सूच्यते । तथा चोक्तं श्रीभागवते 'यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति तत्त्वसूक्ष्मं चक्षु- र्यथैवाञ्जनसंप्रविष्ट'मिति । भाष्ये च 'आवृत्तिरसकृदुपदेशा'दिति । श्रुतिश्च 'आत्मा वारे द्रष्टव्य' इत्यादि । ननु तथापि कालस्यासुरत्वात्कथं तत्सम्बन्धमात्रेण दोषनिवृत्तिरिति चेत्तत्राहुः महानिशीति । सा हि आसुरीवेला । असुराणामतिप्राबल्य एव हि भगवान्भ- क्तरक्षार्थमाविर्भवति । अक्लिष्टकर्मत्वाद्भगवतः । पूर्वमपि तथैवाविर्भावात् । एवं सति यथा पूर्वमाविर्भूय क्रमेणासुरा हताः, तथा क्रमेण दोषनिवृत्तिं विधास्यामीति भावः । तथापि आविर्भाववैजात्यात् कथं पूर्ववत्कृतिसम्भवः, तत्राहुः साक्षादिति । नन्वस्तु साक्षादावि- र्भावः, अंशादिना तथात्वेपि कथं पूर्वसाजात्यम्, तत्राहुः भगवतेति । षड्गुणपूर्णेन साक्षा- दाविर्भूय पूर्वोक्ततत्तदभिप्रायज्ञापनपूर्वकम्, अत एव यदुक्तं तत्प्रत्यक्षरविचारेण मयोच्यते ॥