षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 363, कुल 408 में से
संदर्भ में पढ़ेंश्रीगोकुलोत्सवकृतविवृतिसमेतम् । २३ संसर्गे कुञ्जरशौचमिव सर्वं भवतीति तदनन्तरं तन्निषेधमाहुः असमर्पितेति । यतो ह्यसमर्पितानां न दोषनिवृत्तिर्ब्रह्मसम्बन्धाभावात्तस्माद्धेतोस्तेषां तत्सम्बन्धिपदार्थानां वर्जनमाचरेत्, संसर्गं न कुर्यादित्यर्थः । नन्वत्र सर्वथा भगवदीयतत्सम्बन्धिपदार्थातिरिक्त- संसर्गो निवार्यते । आत्मना सहैव समर्पितानामपि दारादीनां आनुकूल्ये न संसर्गदोषः, प्रातिकूल्ये तु ‘गृहं त्यजे’दित्यपि निरूपितं निबन्धे । तथा सति लौकिकेऽपत्यसम्बन्धादौ वैदिकेऽकरणप्रत्यवायजनकवर्णाश्रमविहितयाग- ऋत्विग्वरणदानप्रतिग्रहादिषु असमर्पितात्मनां प्रत्युत गृहाद्यासक्तानां शुष्ककर्मजडानां संसर्गे का गतिरिति चेत्तत्राहुः । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदिभिरिति । निवेदिभिरिति सहार्थे तृतीया । समर्प्यैवेत्येवकारोऽन्ययोगव्यव- च्छेदकः । तथा सति समर्प्यैव करणात् सर्वस्वं समर्प्यैव समर्पणानन्तरमेव तदुत्तरक्षणस्या- सुरत्वात्तत्प्रवेशव्यतिरेकेणैव तत्क्षणमारभ्यैव निवेदिभिः समर्पितसर्वस्वैर्भगवदीयैः सह सर्व- लौकिकमपत्यसम्बन्धादिकं वैदिकं यागादि कुर्यात्, न तु तादृशकर्मजडैरित्यर्थः । एतेन समर्प- णोत्तरक्षणस्यासुरत्वात्तत्प्रवेशात्प्रागारभ्यैव नित्यं भगवदीयं सङ्गमेव कुर्यात् । अन्यथा तदै- वासूरप्रवेशः स्यादिति सूचितम् । एतदेव नवरत्नविवरणे स्फुटीकृतं प्रभुचरणैः । ‘निवेदनं तु स्मर्तव्य’मित्यत्र । अत एव श्रीमदाचार्यवंश्यानां नान्यमार्गीयप्रतिग्रहाङ्गीकारः । एतेन समर्पणक्षणमारभ्य भगवदीयैरेवापत्यसम्बन्धः, तादृशानामेव यागादौ वरणं दानप्रतिग्रहौ चेति भगवदीयधर्म इति निरूपितम् । किञ्च । भगवदिच्छां विना भक्तस्य न किञ्चित्कर्मकरण- मिति नवरत्ने भक्तिहंसे च निरूपितमित्यनायासतादृशसामग्रीसम्पत्तिरेव भगवदिच्छासूचि- केति तावत्तयैव साक्षिवत्पश्यतो न कोपि दोषप्रसङ्गावसरगन्धोपीति भावः । तदुक्तं ‘साक्षिणो भवताखिला’ इति नवरत्ने । इदमपि कर्माग्रहित्वानुरोधादुक्तम् । वस्तुतस्त्वस्मि- न्मार्गे इतरसंमेलननिषेधात्सा शङ्कैव नेत्यलम् । कुर्यादित्यत्र तु कर्तृपदं स्पष्टम् । एतद्ग्रन्थस्य शरणागतं प्रति शिक्षारूपत्वेन शिष्यस्य जागरूकत्वात् । इयं निवेदिनो मर्यादास्तीत्याहुः स्थितिरिति । ननु भगवदीयस्य सर्वथान्यसंसर्गनिषेधाद्वर्णाश्रमविषयककार्यमानेषु च तादृशानामतिदुर्लभत्वात्तथाग्रहस्य च भगवति महाभारप्रदत्वेनास्वधर्मत्वात्तत्तत्कार्यमात्राणां चावश्यकत्वात्तत्तन्निर्वाहार्थमस्तु स्वमात्रसमर्पणम्, किं दारादीनां साहित्येनेति चेत्, तत्राहुः । न मतमिति । सामिसमर्पणं भुक्तसमर्पणं च देवदेवस्य न मतम् । सामिसमर्पणतुल्यत्वज्ञापनाय समस्तं पदम् । एतेन सामिभुक्तदोषपरिहारार्थमेव स्वसमर्पणे दारादीनां साहित्यम् । तेषां साक्षात्सेवाधिकारस्तु पृथक्समर्पणेनैव भविष्यतीति सूचितम् । एतदेवोक्तं नवरत्नविवरणे । ‘कस्यचिद्विशेषोऽङ्गीकारश्चेत्, सा पुष्टि’रिति । पुष्टिर्नाम च साक्षात्सेवाधिकाररूपोऽनुग्रहः ।