षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 364, कुल 408 में से
संदर्भ में पढ़ें२४ सिद्धान्तरहस्यम् । एवं सति सर्वं समर्प्य कार्यमात्रे भगवदिच्छैव नियामिकेति निश्चित्य नान्यसंसर्गं कुर्यादिति वाक्यादेतद्द्वारस्य प्रभुनैवाङ्गीकृतत्वादेतदपेक्षया सामिभुक्तसमर्पणस्य जघन्यतरप्रतीतेश्च । ननु भुक्तसमर्पणनिषेधे पूर्वं दारादिभिरुपभुक्तस्य देहादेरपि समर्पणमनुपपन्नमिति चेत् । न । आकस्मिकनिजदोषस्फूर्त्या पश्चात्तापपर्याकुलस्यापराधप्रतीकारमपश्यतः शरणान्तरमलभमा- नस्य समस्तसाधनपरित्यागपूर्वकं महापुरुषद्वारा भगवदेकशरणं प्रविष्टस्य भगवदिच्छया च महापुरुषेण करुणया तदेकशरणं प्रवेश्य कृतात्मनिवेदिनो दीनवत्सलेन भगवता स्वभक्त- पक्षपातेन कृपयाङ्गीकृतस्य ब्रह्मसम्बन्धमात्रेण वस्तुस्वभावान्निर्दग्धनिखिलकल्मषस्य वह्नि- सम्बन्धेन सुवर्णस्येव निर्दुष्टत्वात् । तथा चोक्तं गीतायां ‘सर्वधर्मान्परित्यज्ये’ति । श्रीभागवतेपि ‘स्वयं समुत्तीर्ये’ति । न चैवं जडत्वसामान्यात्करुणास्पदत्वादिधर्मासम्भवा- द्देहादेरपि कथमङ्गीकार इति वाच्यम् । चेतनाध्यस्तत्वात्तस्य । अत एव शवशरीरस्य शर- णागमनं न वा करुणास्पदत्वादि सम्भवति । किञ्च । जीवोद्धारार्थं हि कृपया श्रीमदाचार्येभ्य एतन्मार्गमादिष्टवान् भगवान् । तथा च जीवस्य यत्र यत्र स्वाध्यासेन संग्राह्यत्वबुद्धिः, तत्र तत्र प्रभुसमर्पणे कृते स्वसम्बन्धसम्पादनेन तदध्यासनिवृत्तिं विधाय तमुद्धरति । भुक्तशेषे तु जीवस्यैव हेयत्वबुद्धेः कुतस्तदा देवदेवसमर्पणावकाशः । निषेधवाक्यं तु प्रमादतस्तथा- करणेऽवधानप्रतिपादकं सामिसमर्पणस्य च तत्तुल्यताप्रतिपादकमिति ध्येयम् । अपरञ्च । साधनदशायां हि दासधर्मस्वरूपनिरूपणमेतत् । वस्तुतस्तु केवलं पुष्टिमार्गे भावाधीनो भगवान्, यथा भावे तदप्यङ्गीकरोति । यथा वनभोजनलीलायां ‘सर्वे मिथो दर्शयन्त’ इति । यथा वा फलप्रकरणे ‘खैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धव’ इत्यत्र ‘तत्रोपविष्टो भगवान्’ इत्यत्रः श्रीमदाचार्यैः प्रपञ्चितमिति सर्वमनवद्यम् । एतेन सामिसमर्प- णस्य बलवद्दोषवत्त्वं निरूपितम् । अनन्यत्वभङ्गप्रसङ्गेन भगवदनङ्गीकारेण तथाभावप्रति- बन्धकत्वात् । अत एवाभ्यर्हितत्वेन पूर्वनिपातः । तथा चात्मना सह स्वसम्बन्धिसर्वमेव समर्पणीयम्, न त्वात्ममात्रम् । ततश्च भगवदीयैरेव सर्वव्यवहारकत्वम् न त्वन्यैरिति सिद्धम् । एवमेव ह्यग्रेपि यावज्जीवं भगवत्प्राप्तेषु तत्तल्लौकिकवैदिकनिमित्तेष्वपि निर्मितानां पदार्थानां ‘उच्छिष्टभोजिनो दासा’ इति दासधर्मत्वाद्भगवते समर्पणं विधाय पश्चात्तदुपयोगं कुर्यादित्यर्थः । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । तस्मादिति । अयं भावः । सामिसमर्पणानङ्गीकारादात्मना सह सर्वस्वं भगवते सम- र्पितमनन्तरं च तत्तत्कार्ये प्राप्ते तत्तद्द्रव्यादिना तत्तत्सामग्रीं सम्पाद्यादौ भगवत एव समर्पयेत् । तद्द्रव्यनिर्मितपदार्थानां तद्योग्यत्वात् । ततश्च तत्र विनियोगे जाते तद्दत्तमहाप्रसादत्वेन