भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 364, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 364

२४ सिद्धान्तरहस्यम् । एवं सति सर्वं समर्प्य कार्यमात्रे भगवदिच्छैव नियामिकेति निश्चित्य नान्यसंसर्गं कुर्यादिति वाक्यादेतद्द्वारस्य प्रभुनैवाङ्गीकृतत्वादेतदपेक्षया सामिभुक्तसमर्पणस्य जघन्यतरप्रतीतेश्च । ननु भुक्तसमर्पणनिषेधे पूर्वं दारादिभिरुपभुक्तस्य देहादेरपि समर्पणमनुपपन्नमिति चेत् । न । आकस्मिकनिजदोषस्फूर्त्या पश्चात्तापपर्याकुलस्यापराधप्रतीकारमपश्यतः शरणान्तरमलभमा- नस्य समस्तसाधनपरित्यागपूर्वकं महापुरुषद्वारा भगवदेकशरणं प्रविष्टस्य भगवदिच्छया च महापुरुषेण करुणया तदेकशरणं प्रवेश्य कृतात्मनिवेदिनो दीनवत्सलेन भगवता स्वभक्त- पक्षपातेन कृपयाङ्गीकृतस्य ब्रह्मसम्बन्धमात्रेण वस्तुस्वभावान्निर्दग्धनिखिलकल्मषस्य वह्नि- सम्बन्धेन सुवर्णस्येव निर्दुष्टत्वात् । तथा चोक्तं गीतायां ‘सर्वधर्मान्परित्यज्ये’ति । श्रीभागवतेपि ‘स्वयं समुत्तीर्ये’ति । न चैवं जडत्वसामान्यात्करुणास्पदत्वादिधर्मासम्भवा- द्देहादेरपि कथमङ्गीकार इति वाच्यम् । चेतनाध्यस्तत्वात्तस्य । अत एव शवशरीरस्य शर- णागमनं न वा करुणास्पदत्वादि सम्भवति । किञ्च । जीवोद्धारार्थं हि कृपया श्रीमदाचार्येभ्य एतन्मार्गमादिष्टवान् भगवान् । तथा च जीवस्य यत्र यत्र स्वाध्यासेन संग्राह्यत्वबुद्धिः, तत्र तत्र प्रभुसमर्पणे कृते स्वसम्बन्धसम्पादनेन तदध्यासनिवृत्तिं विधाय तमुद्धरति । भुक्तशेषे तु जीवस्यैव हेयत्वबुद्धेः कुतस्तदा देवदेवसमर्पणावकाशः । निषेधवाक्यं तु प्रमादतस्तथा- करणेऽवधानप्रतिपादकं सामिसमर्पणस्य च तत्तुल्यताप्रतिपादकमिति ध्येयम् । अपरञ्च । साधनदशायां हि दासधर्मस्वरूपनिरूपणमेतत् । वस्तुतस्तु केवलं पुष्टिमार्गे भावाधीनो भगवान्, यथा भावे तदप्यङ्गीकरोति । यथा वनभोजनलीलायां ‘सर्वे मिथो दर्शयन्त’ इति । यथा वा फलप्रकरणे ‘खैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धव’ इत्यत्र ‘तत्रोपविष्टो भगवान्’ इत्यत्रः श्रीमदाचार्यैः प्रपञ्चितमिति सर्वमनवद्यम् । एतेन सामिसमर्प- णस्य बलवद्दोषवत्त्वं निरूपितम् । अनन्यत्वभङ्गप्रसङ्गेन भगवदनङ्गीकारेण तथाभावप्रति- बन्धकत्वात् । अत एवाभ्यर्हितत्वेन पूर्वनिपातः । तथा चात्मना सह स्वसम्बन्धिसर्वमेव समर्पणीयम्, न त्वात्ममात्रम् । ततश्च भगवदीयैरेव सर्वव्यवहारकत्वम् न त्वन्यैरिति सिद्धम् । एवमेव ह्यग्रेपि यावज्जीवं भगवत्प्राप्तेषु तत्तल्लौकिकवैदिकनिमित्तेष्वपि निर्मितानां पदार्थानां ‘उच्छिष्टभोजिनो दासा’ इति दासधर्मत्वाद्भगवते समर्पणं विधाय पश्चात्तदुपयोगं कुर्यादित्यर्थः । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । तस्मादिति । अयं भावः । सामिसमर्पणानङ्गीकारादात्मना सह सर्वस्वं भगवते सम- र्पितमनन्तरं च तत्तत्कार्ये प्राप्ते तत्तद्द्रव्यादिना तत्तत्सामग्रीं सम्पाद्यादौ भगवत एव समर्पयेत् । तद्द्रव्यनिर्मितपदार्थानां तद्योग्यत्वात् । ततश्च तत्र विनियोगे जाते तद्दत्तमहाप्रसादत्वेन