षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 365, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायकृतविवृतिसमेतम् । २५ तदुपभुक्तवासोलङ्कारादिभिर्भगवदिच्छाप्राप्तत्वात्तत्तत्कार्यं विधेयम् । न तु स्वातन्त्र्येणानर्प- यित्वेति हृदयम्। तथा साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तत्वेन तद्दत्तमहाप्रसादत्वेनैव तत्पदार्थैस्तावन्मात्रका सेवोपयोगित्वाद्देहादिवृत्तिरपि कर्तव्या । न तु भोगत्वेन । 'उच्छिष्ट- भोजिनो दासा' इति दासधर्मत्वात् । अन्यथा मार्गस्थितेरुच्छेदादन्यमार्गप्रवेशात्तत्र च भगवन्नैवेद्यग्रहणे दोषश्रवणाद्दोषभागभवतीत्याहुः दत्तेति । इदं वचनं भिन्नमार्गपरं सम्मतम् । दत्तं पुनः स्वोपभोगाय न ग्राह्यम्, तथा हरेः सम्बन्धि किमपि न ग्राह्यमिति यद्वाक्यं तद्भ- क्तिमार्गातिरिक्तमार्गपरमित्यर्थः । भगवति निवेदनाभावान्निवेदितपदार्थानां भगवदुपभोगे जाते महाप्रसादस्यात्मशोधकत्वेनावश्यं ग्राह्यत्वप्रतिपादनाच्च । उपसंहरन्ति सेवकानामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ९ ॥ समर्प्यैव समर्पणोत्तरक्षणमारभ्य सेवकानां दासानां यथा लोके व्यवहारः प्रसिद्धो वर्तते, तथैव व्यवहारो विधेयः । स च स्वकायदेहादिपर्यन्तपदार्थेषु स्वाम्यधीनत्वभावनया तस्मिन्नेव यथासम्भवं सर्वं विनियुज्य उच्छिष्टमात्रं भुञ्जतः सेवापरतया स्थितिः । एवं सेवतो लोकेपि दासस्य देहावसाने उत्तमत्वं सिध्यति । नारदस्येव । तथा ब्रह्मसम्बन्ध- करणमारभ्य भगवति सर्वं विनियुज्य सेवतो देहादिषु भगवदीयत्वभावनया सर्वत्र भगव- दावेशाद्ब्रह्मता सिध्यति । ततश्च गङ्गात्वमिति । यथा गङ्गायां निविष्टानां जलानां गङ्गात्वमेव, न तु तद्गतकरतोयादिविलम्बनादिपूर्वदोषनिरूपणमपि । तद्वदस्यापि । यद्यपि कामादयो दोषरूपाः, तथापि भगवदीयस्य भगवत्येव कामः, तत्प्रतिपक्षेषु क्रोधः, एवं यथायथं भगवत्सम्बन्धे ब्रह्मतैव सेत्स्यतीति व्यर्थैव दोषनिवृत्तिप्रतीक्षेति हृदयम् । श्रीमदाचार्यपादाम्बुजमधुमाध्वीवशादहम् । प्रालपं साधुभिर्भाव्यं विशोध्यं साध्वसाधु वा ॥ १ ॥ इति श्रीसिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीहरिरायोदिता सिद्धान्तरहस्यविवृतिः । अथ श्रीवल्लभाचार्यचरणाविष्टचेतसा । कारिकाभिः स्वसिद्धान्तरहस्यार्थो विविच्यते ॥ १ ॥ स्वरूपेण समुद्धारस्तथा भक्त्यापि चैव हि । व्यवस्था तत्र मन्तव्यावतारानवतारतः ॥ २ ॥ अवतारे त्रिधा रूपमवतीर्णं तथा रसः । पूर्वस्तथा मूलरूपं तत्पारोक्ष्यं हि सर्वथा ॥ ३ ॥ सि. र. ४