भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 366, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 366

२६ सिद्धान्तरहस्यम् । वैकुण्ठगमनान्नित्यमेवस्थानस्थितेरपि । लीलावशिष्टरूपेण हृदयैकप्रवेशतः ॥ ४ ॥ इदानीन्तनजीवानामुद्धृतिस्तु कथं भवेत् । विचार्य कृपया कृष्णो भक्त्याविष्करणोद्यतः ॥ ५ ॥ पुष्टिप्रवाहमर्यादाभेदैः सो त्रिविधा मता । मध्या श्रुतिपुराणेषु सर्वत्र विनिरूपिता ॥ ६ ॥ द्वयोर्निरूपणार्थं हि श्रीभागवतसम्भवः । व्यासावतारोपि हरेरेतदर्थक एव हि ॥ ७ ॥ तत्र मार्यादिकी भक्तिः श्रीभागवतमार्गतः । तदुक्तसाधनैरेव सिद्धा भवति सर्वथा ॥ ८ ॥ पुष्टिस्त्वनुग्रहात्मा हि साधनैर्न भवेदिति । ज्ञापयित्वा भागवते दानाय जगतीतले ॥ ९ ॥ भक्तिभावात्मकं स्वास्यं स्वयमाविश्चकार हि । तत्सम्बन्धेन सर्वेषां मूर्तिमद्भक्तियोगतः ॥ १० ॥ भविता भावसम्बन्धस्ततः पुष्टिः फलिष्यति । विना द्वारं हि जीवानां तत्सम्बन्धोपि दुर्लभः ॥ ११ ॥ स्वरूपाज्ञानतः पूर्वं तदर्थं भगवान्हरिः । मार्गं प्रकाशयन्नाविर्भूतः कालेपि तादृशे ॥ १२ ॥ फलमाचार्यसम्बन्धात्तत्सम्बन्धो हि मार्गतः । अदेयदानदक्षश्चेत्यतो नाम विराजते ॥ १३ ॥ मार्गेण प्रथमं पुष्टिः सम्बन्धवरणात्मिका । मध्ये वेदोक्तमर्यादायुतभक्तिस्थितौ स्थितिः ॥ १४ ॥ अपाषण्डित्वसिद्धयर्थं भगवत्तोषणाय च । फलपुष्टेर्योग्यतायै फलं कृष्णेन नान्यथा ॥ १५ ॥ निःसाधनत्वभङ्गः स्याद्यदि स्यात्साधनैः फलम् । एतादृङ्मार्गबोधाय प्राकट्ये तादृशो मतः ॥ १६ ॥ कालो हरेः कृपापूर्णनिःसाधनफलात्मनः । श्रावणः पुष्टिमार्गीयश्चातुर्मास्यगतत्वतः ॥ १७ ॥ विष्णुसम्बन्धिसम्बन्धात्सम्बन्धरूपयापको मतः । बोध्यते तेन पुष्टिर्हि प्रथमं वरणात्मिका ॥ १८ ॥ मर्यादाबोधनार्थाय पक्षः प्रोक्तोऽमलस्तथा । भक्तिमार्गीयमर्यादाबोधिकैकादशी मता ॥ १९ ॥ प्राकट्यकालः पूर्णस्य हरेः प्रोक्ता महानिशा । निःसाधनजनोद्धृत्यै फलदानाय भूतले ॥ २० ॥ फलसामयिकी पुष्टिस्तेनात्र विनिरूपिता । एवंविधे हरिः काले प्रादुर्भूय निजेच्छया ॥ २१ ॥ ब्रह्मसम्बन्धमारभ्य सर्वं मार्गं स्वयं जगौ । न भक्तैर्नावतारेण न स्वमप्रेरकेण च ॥ २२ ॥ न पूर्वरसरूपेण मूलरूपेण वै हरिः । उक्तवानिति बोधाय साक्षात्पदमिहोदितम् ॥ २३ ॥ सर्वलीलाविशिष्टत्वबोधाय भगवत्पदम् । साभिप्रायत्वबोधाय कथने प्रपदं मतम् ॥ २४ ॥ यदुक्तं हरिणा तद्धि प्रत्यक्षरमिहोच्यते । ब्रह्मसम्बन्धकरणादित्यादि भगवद्वचः ॥ २५ ॥ आदौ सम्बन्धकरणं कन्ययेव स्वयम्बरे । स्वस्य सर्वपदार्थानां मनसा तेन योजनम् ॥ २६ ॥ सम्बन्धवत्या दूत्येव गुरुणा तत्कृतिर्भवेत् । सम्बन्धश्चापि निर्दोषस्तथा सर्वसमः स्मृतः ॥ २७ ॥ वन्हेरेवेति बोधाय प्रोक्तं ब्रह्मपदं पुनः । 'निर्दोषं हि समं ब्रह्मे'त्यत्रोक्तं तत्तथाविधम् ॥ २८ ॥ स्यात्प्रयुक्ते कृष्णपदे विषमैत्वं गुणाहितिः । सम्बन्धे तादृशापेक्षा नास्ति दोषनिवारणात् ॥ २९ ॥ दोषमात्रनिवृत्त्यर्थं ब्रह्मसम्बन्ध उच्यते । गुणाधायकसम्बन्धः फलसामयिको मतः ॥ ३० ॥ तस्मिन्वाच्ये कृष्णपदं वाच्यं कृष्णः फलात्मकः । तत्सम्बन्धे स्वतःसिद्धे फलसंसिद्धिसंभवात् ॥ अपरा कृष्णसेवादिप्रकृतिर्वैयर्थ्यमाप्नुयात् । अतः साधनसम्बन्धो विवाह इव लौकिके ॥ ३२ ॥ तेन निर्दुष्टतासिद्धिविंधिनेव रतौ पुनः । ईदृक्सम्बन्धबोधाय प्रोक्तं ब्रह्मपदं पुरा ॥ ३३ ॥ विषमश्च हरिः कृष्णो न यायात्समतां यतः । हेतुसम्बन्धसम्बन्धात्कृष्णः साधनतां गतः ॥ ३४ ॥ १. नित्यलीलास्थानेति पाठः । २. सापि त्रिधेति पाठः । ३. विषयत्वम् । ४. हेतोरक्षरस्य सम्बन्धो यस्य कृष्णस्य तस्य सम्बन्धात् ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 366, कुल 408 में से · BharatKosha