षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 366, कुल 408 में से
संदर्भ में पढ़ें२६ सिद्धान्तरहस्यम् । वैकुण्ठगमनान्नित्यमेवस्थानस्थितेरपि । लीलावशिष्टरूपेण हृदयैकप्रवेशतः ॥ ४ ॥ इदानीन्तनजीवानामुद्धृतिस्तु कथं भवेत् । विचार्य कृपया कृष्णो भक्त्याविष्करणोद्यतः ॥ ५ ॥ पुष्टिप्रवाहमर्यादाभेदैः सो त्रिविधा मता । मध्या श्रुतिपुराणेषु सर्वत्र विनिरूपिता ॥ ६ ॥ द्वयोर्निरूपणार्थं हि श्रीभागवतसम्भवः । व्यासावतारोपि हरेरेतदर्थक एव हि ॥ ७ ॥ तत्र मार्यादिकी भक्तिः श्रीभागवतमार्गतः । तदुक्तसाधनैरेव सिद्धा भवति सर्वथा ॥ ८ ॥ पुष्टिस्त्वनुग्रहात्मा हि साधनैर्न भवेदिति । ज्ञापयित्वा भागवते दानाय जगतीतले ॥ ९ ॥ भक्तिभावात्मकं स्वास्यं स्वयमाविश्चकार हि । तत्सम्बन्धेन सर्वेषां मूर्तिमद्भक्तियोगतः ॥ १० ॥ भविता भावसम्बन्धस्ततः पुष्टिः फलिष्यति । विना द्वारं हि जीवानां तत्सम्बन्धोपि दुर्लभः ॥ ११ ॥ स्वरूपाज्ञानतः पूर्वं तदर्थं भगवान्हरिः । मार्गं प्रकाशयन्नाविर्भूतः कालेपि तादृशे ॥ १२ ॥ फलमाचार्यसम्बन्धात्तत्सम्बन्धो हि मार्गतः । अदेयदानदक्षश्चेत्यतो नाम विराजते ॥ १३ ॥ मार्गेण प्रथमं पुष्टिः सम्बन्धवरणात्मिका । मध्ये वेदोक्तमर्यादायुतभक्तिस्थितौ स्थितिः ॥ १४ ॥ अपाषण्डित्वसिद्धयर्थं भगवत्तोषणाय च । फलपुष्टेर्योग्यतायै फलं कृष्णेन नान्यथा ॥ १५ ॥ निःसाधनत्वभङ्गः स्याद्यदि स्यात्साधनैः फलम् । एतादृङ्मार्गबोधाय प्राकट्ये तादृशो मतः ॥ १६ ॥ कालो हरेः कृपापूर्णनिःसाधनफलात्मनः । श्रावणः पुष्टिमार्गीयश्चातुर्मास्यगतत्वतः ॥ १७ ॥ विष्णुसम्बन्धिसम्बन्धात्सम्बन्धरूपयापको मतः । बोध्यते तेन पुष्टिर्हि प्रथमं वरणात्मिका ॥ १८ ॥ मर्यादाबोधनार्थाय पक्षः प्रोक्तोऽमलस्तथा । भक्तिमार्गीयमर्यादाबोधिकैकादशी मता ॥ १९ ॥ प्राकट्यकालः पूर्णस्य हरेः प्रोक्ता महानिशा । निःसाधनजनोद्धृत्यै फलदानाय भूतले ॥ २० ॥ फलसामयिकी पुष्टिस्तेनात्र विनिरूपिता । एवंविधे हरिः काले प्रादुर्भूय निजेच्छया ॥ २१ ॥ ब्रह्मसम्बन्धमारभ्य सर्वं मार्गं स्वयं जगौ । न भक्तैर्नावतारेण न स्वमप्रेरकेण च ॥ २२ ॥ न पूर्वरसरूपेण मूलरूपेण वै हरिः । उक्तवानिति बोधाय साक्षात्पदमिहोदितम् ॥ २३ ॥ सर्वलीलाविशिष्टत्वबोधाय भगवत्पदम् । साभिप्रायत्वबोधाय कथने प्रपदं मतम् ॥ २४ ॥ यदुक्तं हरिणा तद्धि प्रत्यक्षरमिहोच्यते । ब्रह्मसम्बन्धकरणादित्यादि भगवद्वचः ॥ २५ ॥ आदौ सम्बन्धकरणं कन्ययेव स्वयम्बरे । स्वस्य सर्वपदार्थानां मनसा तेन योजनम् ॥ २६ ॥ सम्बन्धवत्या दूत्येव गुरुणा तत्कृतिर्भवेत् । सम्बन्धश्चापि निर्दोषस्तथा सर्वसमः स्मृतः ॥ २७ ॥ वन्हेरेवेति बोधाय प्रोक्तं ब्रह्मपदं पुनः । 'निर्दोषं हि समं ब्रह्मे'त्यत्रोक्तं तत्तथाविधम् ॥ २८ ॥ स्यात्प्रयुक्ते कृष्णपदे विषमैत्वं गुणाहितिः । सम्बन्धे तादृशापेक्षा नास्ति दोषनिवारणात् ॥ २९ ॥ दोषमात्रनिवृत्त्यर्थं ब्रह्मसम्बन्ध उच्यते । गुणाधायकसम्बन्धः फलसामयिको मतः ॥ ३० ॥ तस्मिन्वाच्ये कृष्णपदं वाच्यं कृष्णः फलात्मकः । तत्सम्बन्धे स्वतःसिद्धे फलसंसिद्धिसंभवात् ॥ अपरा कृष्णसेवादिप्रकृतिर्वैयर्थ्यमाप्नुयात् । अतः साधनसम्बन्धो विवाह इव लौकिके ॥ ३२ ॥ तेन निर्दुष्टतासिद्धिविंधिनेव रतौ पुनः । ईदृक्सम्बन्धबोधाय प्रोक्तं ब्रह्मपदं पुरा ॥ ३३ ॥ विषमश्च हरिः कृष्णो न यायात्समतां यतः । हेतुसम्बन्धसम्बन्धात्कृष्णः साधनतां गतः ॥ ३४ ॥ १. नित्यलीलास्थानेति पाठः । २. सापि त्रिधेति पाठः । ३. विषयत्वम् । ४. हेतोरक्षरस्य सम्बन्धो यस्य कृष्णस्य तस्य सम्बन्धात् ।