षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 368, कुल 408 में से
संदर्भ में पढ़ें२८ सिद्धान्तरहस्यम् । नन्वासुरत्वं सहजं कथं न हि निवर्तते । ब्रह्मसम्बन्धतः सर्वदोषदाहकतोपि हि ॥ ६७ ॥ इति चेत्सत्यमेवास्ति परं सम्बन्धसम्भवः । दुर्लभस्तेषु तद्दोषाद्भक्तिमार्गाप्रवेशतः ॥ ६८ ॥ यथा कथञ्चित्सम्बन्धे तन्निवृत्तिरपीष्यते । अत एवावतारे तु सम्बन्धात्तत्कृतार्थता ॥ ६९ ॥ परं रूपेण करणं न भक्त्येति विनिश्चयः । इदानीं भक्तिमात्रेण ह्युद्धारो भगवन्मतः ॥७०॥ तदा क्रोधादिभावेपि नेदानीं तद्धि साधनम् । भक्तिसाधनसत्त्वेन तेषां भक्तिविरोधतः॥७१॥ सन्तो न कुर्युस्तत्सङ्गमिति सङ्गोपि दुर्लभः । तस्मादनवतारे तु नासुराणां फलं भवेत्॥७२॥ अङ्गवङ्गादिगमनजनिता दैशिका मताः । यथा परीक्षितः कालस्थानदानात्तथा पुनः ॥७३॥ कालावेशेन ये जातास्ते दोषाः कालिकाः स्मृताः। यथा लोके राजसेवा योग्या नैव कुरूपिणः॥ चातुर्यंरहिता मूर्खा दुःशीलाः स्तेयकारिणः । कुरूपित्वादयो दोषा अतस्ते लौकिकाः स्मृताः॥ वेदोक्तविध्यकरणात्प्रतिषिद्धकरणादपि । वैदिकास्ते समाख्याता आज्ञाभङ्गो यतो हरेः॥७६॥ सान्निध्यादेव दोषाणामेकोक्तिर्देशकालयोः । निषिद्धकृतिजन्यानां तेषां लोकेपि सम्भवात्॥७७ अपकीर्त्या लौकिकेषु साङ्कर्याद्वेदवर्तिनाम् । अतस्तथैव ग्रन्थेऽस्मिन्नेकोक्तिर्लोकवेदयोः ॥७८॥ अतो लोकेषु संख्याया नाधिक्यमिह शङ्कितम् । सम्यग् योगो हि संयोगः कामलोभादयश्चसः ॥ नैरन्तर्येण संवासशयनासनभोजनैः । म्लेच्छशूद्रादिसंयोगस्तज्जाः संयोजगाः स्मृताः ॥८०॥ स्पर्शजाः स्पर्शमात्रेण प्रायश्चित्तं विधीयते । यत्र चाण्डालपतितादीनां ते तादृशा मताः ॥८१॥ एवं पञ्चविधा दोषा विज्ञेया भगवत्परैः । उक्ता अनुक्ता सर्वेपि चकारेण समुच्चिताः ॥८२॥ स्वानुभूतेः परप्रोक्तात्प्रतीता अपि सर्वथा । सेवायां बाधकत्वेन न मन्तव्या विशेषतः ॥८३॥ कथञ्चनेति पदतः सूचितोर्थो निरूपितः । तव्यप्रत्यययोगेनामननं सर्वथोच्यते ॥ ८४ ॥ अन्यथा स्यादविश्वासात्समस्तं फलमन्यथा । ननु दोषनिवृत्त्यर्थं प्रायश्चित्तादिकं कथम् ॥८५॥ अन्यत्र विहितं चात्र तदेव न किमुच्यते । किमर्थं ब्रह्मसम्बन्ध इति चेत्तत्र चोच्यते ॥८६॥ विना तु ब्रह्मसम्बन्धं प्रायश्चित्तादिभिः पुनः । युगपत्सर्वदोषाणां न निवृत्तिर्भवेदिति ॥८७॥ ब्रह्मसम्बन्धकरणं सर्वदोषनिवर्तकम् । तदभावे कथं सद्यः सेवायामधिकारिता ॥ ८८ ॥ अत एवाग्रिमे पद्ये प्रोक्तं सर्वपदं पुनः । अन्यथा सर्वदोषाणामित्यत्रोक्तार्थसूचकम् ॥ ८९ ॥ एवं हि ब्रह्मसम्बन्धः संस्कारोत्र निरूपितः । तदुत्तरं तस्य सर्वसमर्पणमिहोच्यते ॥ ९० ॥ यस्मात्कृतो हि सम्बन्धो विनियोगाय सर्वथा । खासम्बन्धि यतः कृष्णो न गृह्णातीति निश्चयः ॥ एतदेवोक्तमाचार्यैर्वेणुगीतनिरूपणे । स्वभोगानन्तरं भोग्यो भगवान्भवतीति हि ॥ ९२ ॥ तत्रापि ब्रह्मसम्बन्धो वेणुना शब्दरूपिणा । ब्रह्मणा येन संसिद्धं देहादिविनियोजनम् ॥९३॥ तस्मात्सम्बन्धसहितो वर्जयेदस मर्पितम् । समर्पणं तु संसिद्ध्येत्सम्बन्धादेव सर्वथा ॥ ९४॥ स्वसम्बन्धि यतः सर्वं गृह्णात्येवेति निश्चयः । समर्थं भक्त्युपहृतमतस्तु हरिणोदितम् ॥९५॥ गीतायां भक्तिमार्गीयप्रभुणातिदयालुना । वस्तूनामिति यत्प्रोक्तं बहुत्वं तस्य चाशयः ॥९६॥ सर्वांशेनैव तत्यागो नैकांशेनेति बुध्यताम् । यथा गायत्र्योपदेशः संस्कारोत्तरमुच्यते ॥९७॥ श्रुतिस्मृत्युदिताचारस्तदभावे फलं न हि । आचरेदित्यनेनात्र ब्रह्मसम्बन्धतः परम् ॥ ९८॥ १ दोषेषु ।