षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 369, कुल 408 में से
संदर्भ में पढ़ेंसमर्पणं तथाचारो ह्यसमर्पितवर्जनम् । तदभावेऽङ्गहीना तु सेवा नैव फलेदिह ॥ ९९ ॥ ननु सर्वं समर्प्य चेद्वैदिकं लौकिकं तथा । न कुर्यात्कृष्णकार्याय सम्बन्धो विहितो यतः ॥ न चान्यविनियोगोपि ह्युचितश्च निवेदिनाम् । इति चेदुच्यते सर्वं कुर्यादेव यथोदितम् ॥ मर्यादामध्येपातेन पुष्टिमार्गनिरूपणात् । निवेदो वर्तते तेषां पदार्थानां पुराकृतः ॥१०२॥ तेनैव सकलं कुर्यात्समर्प्यैव हरौ परे । देहनिर्वाहवत्कृष्णप्रसादेनेति निश्चयः ॥ १०३ ॥ स्वयं कुर्यान्न विश्वासं पुत्रादीनामपि क्वचित् । एवं प्रकारिकैवैषा स्थितिः पुष्टिफलावधि ॥ मर्यादापीयमेवेह स्थित्यर्थमवगम्यताम् । नन्वेतदुचितं नैव यत्समर्पितयोजनम् ॥ १०५ ॥ लौकिके वैदिके नीचप्रेतपित्रादियोगिनि । अतोऽसमर्पितेनैव तत्कार्यमिति चेन्न हि ॥१०६॥ युज्यते शेषभावात्स्या निखिलं तज्जुगुप्सितम् । अर्धभुक्तं देवदेवोपयोगाय भवेच्च तु ॥ १०७॥ न चोचितं सेवकानां स्वामिन्येवंविधापर्णम् । एवं समर्पणासिद्धौ सम्बन्धो विफलो भवेत् ॥ अतो निषिद्धं कृष्णस्य सामिसुक्तसमर्पणम् । ननु कृत्वारिखलं कर्म लौकिकं वैदिकं तथा ॥ कृष्णार्पणैकबुद्ध्या वा पश्चात्कृष्णे समर्पयेत् । तदा न प्राप्यते दोषः कश्चित्तादृक्समर्पणे ॥ इति चेद्देवदेवो हि यस्मात्कृष्णो न केवलः । अतः सेवकशेषो हि सामिसुक्तं हरेः स्मृतम् ॥ कृष्णार्पणैकमत्या वा कृत्वा कृष्णसमर्पणम् । तत्रापि स्यादन्यशेषो मतिमात्रेण चार्पणात् ॥ सर्वथा नार्पितं कृष्णे तन्न गृह्णाति केशवः । यतः सम्बन्धवैयर्थ्यमत आदौ समर्पणम् ॥ तत्रापि सर्ववस्तूनां सर्वकार्ये तथैव च । लौकिके वैदिके वापि ह्युत्तमेऽनुत्तमेपि च ॥११४॥ पश्चाद्विधेयं सर्वं हि तदा सार्थकता भवेत् । उच्छिष्टदाने सर्वेषां माहात्म्यं चापि सिध्यति ॥ नन्वेवं लौकिकार्थं हि वैदिकार्थं तथा पुनः । समर्पितपदार्थानां ग्रहणे दोषसम्भवः ॥११६॥ दत्तापहाररूपो हि धर्ममार्गनिरूपितः । भगवच्छास्त्रसिद्धोपि नैवेद्यग्रहणात्मकः ॥ ११७ ॥ 'अपि दीपावलोकं म' इत्यादिप्रभुणोदितः । इति चेन्न यतो मार्गो भिन्नोयं पुष्टिनामकः ॥ मार्गभेदान्न दोषोत्र कर्मपूजादिरूपितः । यथाश्रमविभेदेन निषेधानां विधेरपि ॥ ११९ ॥ भिन्नतात्र तथा मार्गभेदेनापि विबुध्यताम् । न वा निवेदनं दानं येन दोषो ग्रहे भवेत् ॥ वाक्यं पूजाप्रकरणात्तद्दोषविनिरूपकम् । नन्वेवं सर्ववस्तूनां समर्प्य विनियोजनम् ॥१२१॥ प्राप्येत कामचारेण दोषाभावाच्च रक्षणम् । तथा च प्रभुवस्तूनां वृथैव विनियोगतः ॥१२२॥ अन्यत्र तेन भविता सम्बन्धदृढताङ्कतिः । न स्वसम्बन्धिवस्तूनां नाशनं कुरुते वृथा ॥ लोकेपि दृढसम्बन्धयुतः स्वाम्यर्थरक्षकः । अतः प्रोक्तं यथा लोके सेवकानां प्रकर्षतः ॥ लौकिको वैदिकश्चैव व्यवहारो हि सिध्यति । तथा सर्वं समर्प्यैव पुनः कार्यं निवेदिभिः ॥ पदार्थैस्तेन सम्बन्धे सिद्धे भाववतां दृढे । ततः सम्बन्धतः सिध्येन्निर्दोषसमता पुनः ॥ सेवायां सर्ववस्तूनां सर्वेषामधिकारिणाम् । अतस्तदुपयोगेन फलं सिद्धं न संशयः ॥१२७॥ सर्वांशकृतसम्बन्धो यतः फलमिहोच्यते । ननु दोषनिवृत्तिः का मलस्येव हि नाशनम् ॥ अथवा परिपाकेन दोषतागमनं यथा । मृण्मयेपि घटे पाकादामतैव निवर्तते ॥ १२९ ॥ न मृन्मयत्वमेवं हि तन्निवृत्तिरिहोच्यते । इति संशयतः प्राह प्रसुर्गङ्गात्वमेव हि ॥१३०॥ १ क्षतिः । २ देवव्रतो जनः ।