भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 369, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 369

समर्पणं तथाचारो ह्यसमर्पितवर्जनम् । तदभावेऽङ्गहीना तु सेवा नैव फलेदिह ॥ ९९ ॥ ननु सर्वं समर्प्य चेद्वैदिकं लौकिकं तथा । न कुर्यात्कृष्णकार्याय सम्बन्धो विहितो यतः ॥ न चान्यविनियोगोपि ह्युचितश्च निवेदिनाम् । इति चेदुच्यते सर्वं कुर्यादेव यथोदितम् ॥ मर्यादामध्येपातेन पुष्टिमार्गनिरूपणात् । निवेदो वर्तते तेषां पदार्थानां पुराकृतः ॥१०२॥ तेनैव सकलं कुर्यात्समर्प्यैव हरौ परे । देहनिर्वाहवत्कृष्णप्रसादेनेति निश्चयः ॥ १०३ ॥ स्वयं कुर्यान्न विश्वासं पुत्रादीनामपि क्वचित् । एवं प्रकारिकैवैषा स्थितिः पुष्टिफलावधि ॥ मर्यादापीयमेवेह स्थित्यर्थमवगम्यताम् । नन्वेतदुचितं नैव यत्समर्पितयोजनम् ॥ १०५ ॥ लौकिके वैदिके नीचप्रेतपित्रादियोगिनि । अतोऽसमर्पितेनैव तत्कार्यमिति चेन्न हि ॥१०६॥ युज्यते शेषभावात्स्या निखिलं तज्जुगुप्सितम् । अर्धभुक्तं देवदेवोपयोगाय भवेच्च तु ॥ १०७॥ न चोचितं सेवकानां स्वामिन्येवंविधापर्णम् । एवं समर्पणासिद्धौ सम्बन्धो विफलो भवेत् ॥ अतो निषिद्धं कृष्णस्य सामिसुक्तसमर्पणम् । ननु कृत्वारिखलं कर्म लौकिकं वैदिकं तथा ॥ कृष्णार्पणैकबुद्ध्या वा पश्चात्कृष्णे समर्पयेत् । तदा न प्राप्यते दोषः कश्चित्तादृक्समर्पणे ॥ इति चेद्देवदेवो हि यस्मात्कृष्णो न केवलः । अतः सेवकशेषो हि सामिसुक्तं हरेः स्मृतम् ॥ कृष्णार्पणैकमत्या वा कृत्वा कृष्णसमर्पणम् । तत्रापि स्यादन्यशेषो मतिमात्रेण चार्पणात् ॥ सर्वथा नार्पितं कृष्णे तन्न गृह्णाति केशवः । यतः सम्बन्धवैयर्थ्यमत आदौ समर्पणम् ॥ तत्रापि सर्ववस्तूनां सर्वकार्ये तथैव च । लौकिके वैदिके वापि ह्युत्तमेऽनुत्तमेपि च ॥११४॥ पश्चाद्विधेयं सर्वं हि तदा सार्थकता भवेत् । उच्छिष्टदाने सर्वेषां माहात्म्यं चापि सिध्यति ॥ नन्वेवं लौकिकार्थं हि वैदिकार्थं तथा पुनः । समर्पितपदार्थानां ग्रहणे दोषसम्भवः ॥११६॥ दत्तापहाररूपो हि धर्ममार्गनिरूपितः । भगवच्छास्त्रसिद्धोपि नैवेद्यग्रहणात्मकः ॥ ११७ ॥ 'अपि दीपावलोकं म' इत्यादिप्रभुणोदितः । इति चेन्न यतो मार्गो भिन्नोयं पुष्टिनामकः ॥ मार्गभेदान्न दोषोत्र कर्मपूजादिरूपितः । यथाश्रमविभेदेन निषेधानां विधेरपि ॥ ११९ ॥ भिन्नतात्र तथा मार्गभेदेनापि विबुध्यताम् । न वा निवेदनं दानं येन दोषो ग्रहे भवेत् ॥ वाक्यं पूजाप्रकरणात्तद्दोषविनिरूपकम् । नन्वेवं सर्ववस्तूनां समर्प्य विनियोजनम् ॥१२१॥ प्राप्येत कामचारेण दोषाभावाच्च रक्षणम् । तथा च प्रभुवस्तूनां वृथैव विनियोगतः ॥१२२॥ अन्यत्र तेन भविता सम्बन्धदृढताङ्कतिः । न स्वसम्बन्धिवस्तूनां नाशनं कुरुते वृथा ॥ लोकेपि दृढसम्बन्धयुतः स्वाम्यर्थरक्षकः । अतः प्रोक्तं यथा लोके सेवकानां प्रकर्षतः ॥ लौकिको वैदिकश्चैव व्यवहारो हि सिध्यति । तथा सर्वं समर्प्यैव पुनः कार्यं निवेदिभिः ॥ पदार्थैस्तेन सम्बन्धे सिद्धे भाववतां दृढे । ततः सम्बन्धतः सिध्येन्निर्दोषसमता पुनः ॥ सेवायां सर्ववस्तूनां सर्वेषामधिकारिणाम् । अतस्तदुपयोगेन फलं सिद्धं न संशयः ॥१२७॥ सर्वांशकृतसम्बन्धो यतः फलमिहोच्यते । ननु दोषनिवृत्तिः का मलस्येव हि नाशनम् ॥ अथवा परिपाकेन दोषतागमनं यथा । मृण्मयेपि घटे पाकादामतैव निवर्तते ॥ १२९ ॥ न मृन्मयत्वमेवं हि तन्निवृत्तिरिहोच्यते । इति संशयतः प्राह प्रसुर्गङ्गात्वमेव हि ॥१३०॥ १ क्षतिः । २ देवव्रतो जनः ।