भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 375, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 375

श्रीपुरुषोत्तमकृतविवृतिसमेतम् । ३५ भिन्नं तिष्ठति । शौचादिकं कुर्वन्ति जनाः, तदा गङ्गा अशुद्धं जलं ददाति, मलनिवार- णार्थं निर्मलं जलं ददाति, पापक्षयार्थं गङ्गोदकं ददाति; एवं मत्सेवका मां भजन्तो मत्सदृशा भवन्ति । परन्तु सेवायां दासत्वेन स्थेयम् । यथा गङ्गायामपवित्रजलं किञ्चि- द्भिन्नं भवति, तदा गङ्गोदकं न स्यात्, तथा अन्यदेवाश्रितो भवति, स शुद्धो न स्यात् । उक्तं च षष्ठस्कन्धे ‘यावदन्याश्रयस्तावद्भगवानपि तं जनम् । आलोकेयेन्न कृपया ह्यनन्य- जनवत्सलः’ । गीतायां च ‘सर्वधर्मान् परित्यज्ये’ति । ननु सर्वधर्मेण सहैव निवर्त्यानां दोषाणां कथमेवं निवृत्तिः, तत्राहुस्तत इति । ततो ब्रह्मणि परं स्थितानामपि दोषाणां गङ्गात्वं गङ्गातुल्यत्वमित्यर्थः । यथा गङ्गातिरिक्तापवित्रजलानां गङ्गाप्रवाहान्तःपातित्वे सम्पन्ने गङ्गात्वमेव, तेषां न भवः, पृथग्भावः । गङ्गात्वे सम्पन्ने पूर्वकालीनगुणदोषादिवर्णना यथा जलानां न निरूप्या भवति, तद्वदेवात्रापि भगवत्सम्बन्धे जाते ते पञ्चविधदोषाणां स्थितानामप्यदोषत्वमित्यर्थः । एवशब्दोऽवधारणे । हि शब्दोऽयुक्तं युक्तमेवेति । इति श्रीश्रीमद्विट्ठलेश्वरविरचितं सिद्धान्तरहस्यविवरणं समाप्तम् । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीपुरुषोत्तमकृतविवरणसमेतम् । श्रीकृष्णदेवमुखपद्ममरन्दपूर्णवाक्यानुवादविनिवारितजीवदोषम् । आचार्यवर्यचरणौ हृदये निधाय नत्वा वचस्तदुदितं विवृणोति दासः ॥१॥ अथ श्रीमदाचार्यचरणा भगवदाज्ञया तदभिप्रेतं भक्तिमार्गं प्रकटीकरिष्यन्तो 'यो वै भूमा तत्सुखम्' 'कृषिर्भूवाचकः शब्द' इत्यादिश्रुतिभिर्निरवध्यानन्दरूपस्य भगवतः कृष्णस्य 'स वा अयमात्माऽपहतपाप्मा' इत्यादिश्रुत्या 'निर्दोषपूर्णगुणविग्रह' इति पञ्चरात्रस्मृत्या च निर्दोषत्वात्, 'मुक्तोपसृप्य' सूत्रे च निर्दोषैरेव सेव्य इत्यपि सिद्धत्वादि- दानीन्तनानां युगदोषेण सुतरां दुष्टत्वात्कृतसेवारूपाया भक्तेर्भगवतानङ्गीकारे तत्फला- भावादुपदिष्टोऽपि भक्तिमार्गः कथं फलिष्यतीति चिन्तां यदा कृतवन्तः, तदा तच्चिन्ता- निवृत्त्यर्थमाविर्भूतेन भगवता कृपया साक्षाद्यदुक्तं तदत्र कृपया स्वीयान् ज्ञापयितुं प्राकट्य- कालोक्तिपूर्वकमुपनिबध्नन्तस्तदुक्तं प्रतिजानते श्रावणस्येत्यादि । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ अत्र मासपक्षतिथिसमयानामुल्लेखो विवक्षितसाधनस्य साधकगताधिभौतिकादि-

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 375, कुल 408 में से · BharatKosha