षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 376, कुल 408 में से
संदर्भ में पढ़ें३६ सिद्धान्तरहस्यम् । त्रिविधदोषनिवृत्तिसामर्थ्यसूचनार्थः । श्रवणक्षं हि वैष्णवम्, तत्सम्बन्धेन प्रसिद्धो मासः श्रावणो, 'यः कश्चिद्वैष्णवो लोक' इति न्यायेन साधकजनपावनः । पूर्वः पक्षोप्यमलत्वा- त्प्रत्यहमधिकाधिकतमोहर इति मासपक्षौ बाह्यभौतिकदोषनिवर्तकौ । एकादशी चोपवासेने- कादशेन्द्रियदोषहारिका गुणाधायिका चेत्याध्यात्मिकदोषहरा । महानिशा च भक्तरक्षार्थ- माविर्भूतस्य भगवतः प्रादुर्भावकालत्वादाधिदैविकदोषहरेति । एतादृशे काले प्रादुर्भूय यत्साधनमुपदिष्टं तत्साधकनिष्ठत्रिविधदोषनिवर्तकमिति बोधितम् । इदमत्रोच्यमानं सर्वं भगवद्वाक्यान्याकलय्य श्रीमदाचार्यैः पद्येषु तदर्थसङ्ग्रहरूप- मुक्तमिति सर्वे प्राञ्च आहुः । अत्र मम त्वन्यदपि प्रतिभाति । तथाहि । एकादशस्कन्धे समर्पणं स्थलचतुष्टये निरूपितम् । तत्र पूर्वं योगेश्वरवाक्येषु कविना 'ये वै भगवता प्रोक्ता उपाया ह्यात्मलब्धये । अञ्जः पुंसामविदुषां विद्धि भागवतान् हि ता'निति लक्षयित्वा, 'यानास्थाय नरो राजन्न प्रमाद्येत कर्हिचित् । धावन्निमील्य वा नेत्रे न स्खलेन्न पतेदिहे'ति तन्माहात्म्यं चोक्त्वा, 'कायेन वाचा' इति श्लोके सर्वक्रियाणां भगवदर्थे समर्पणमुक्तम् । ततोन्यानपि भक्तिपूर्वकगुरु- भगवद्भजनादीनप्युक्त्वा, 'भक्तिः परेशानुभवो विरक्ति'रिति द्वाभ्यां भक्तिप्रभृतीनि चत्वारि फलान्युक्तानि । ततः प्रबुद्धेन तत्र 'भागवतान्धर्मान् शिक्षे'दित्युपक्रम्य, 'सर्वतो मनसो सङ्ग'मित्यादिना तान् वदता 'इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन'मित्याद्युक्त्वा, ततो भक्त्या मायात shape(तरणरूपं) तच्छिक्षा- फलमुक्तम् । एकादशाध्याये च 'भक्तिस्त्वय्युपयुज्येत कीदृशी सद्गिरादृते'त्युद्धवप्रश्ने, 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्याद्यष्टभिर्भगवता सर्वलाभोपहरणं दास्येनात्मनिवेदन- मिति भक्तिमध्ये गणितम्; फलं तु तत्र नोक्तम् । तेन तत्र प्रश्नवाक्योक्तो भगवदुपयोग एव फलम् । ऊनविंशे तु महद्विसृग्यभक्तिप्रश्न उद्धवेन कृते 'भक्तियोगः पुरैवोक्त' इत्युक्त्वा, तत्परमकारणं कथयिष्यामीति प्रतिज्ञाय, 'श्रद्धामृतकथायां म' इत्यादिभिश्चतु- र्भिस्तद्वदता, 'एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिना'मित्यनेनाधिकारतयात्मनिवेदनमुक्त्वा 'मयि संजायते भक्तिः कोन्योर्थोस्यावशिष्यत' इति फलमुक्तम् । अतोत्र निरूप्यमाणं ब्रह्मसम्बन्धात्मकं समर्पणं तत्फलं तत्प्राशस्त्यं तदावश्यकत्वं च यदस्ति, तत्तेषामेव वाक्यानामनुवाद इति शङ्कानिरासार्थं कालविशेषे पृथगाविर्भूय भगवतोक्तमिति बोधनाय तादृशत्तकालानुवाद इति च । तथा वाक्यानि तु श्लोकरूपाण्यपि भगवत एव । अक्षरश उच्यत इति कथनात् । तेन वाक्यकथनस्यैवेयं प्रतिज्ञेति च । ( ननु यदि तदानीन्तनवाक्यकथनस्यैवेयं प्रतिज्ञा, तदा समर्पणगद्यमपि कुतो नोक्तमिति चेत् । उच्यते । तद्धि पञ्चाक्षरमन्त्रविवरकत्वादतिगोप्यम्, अतो नोक्तम् । शास्त्रे ह्यतिगोप्या
१ तदनुवाद इति पाठः। २ ( ) चिह्नान्तर्गतं श्रीपुरुषोत्तमैः पश्चालिखितमिति प्राचीनपुस्तकेषु प्रायः तद्दर्शनाभावात् प्रतिभाति ।