भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 377, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 377

मन्त्रादय उद्रियन्त एव, न तु प्रकाशतया कथ्यन्ते । यथा स्पर्शेषु यत् षोडशमेकविंशमि- त्यादि । तन्मन्त्रविवरकत्वं चैतस्यैव ज्ञेयम् । तत्र हि मन्त्रस्थोत्तमपुरुषान्तक्रियापदसूचि- तस्य कर्तुः स्वरूपम्, तस्य सपरिकरस्य भगवदीयत्वम्, तस्यैव भगवद्वियुक्तत्वादिवोध- नात् मन्त्रस्थषष्ठ्युक्तभगवत्स्वामिकत्वसंबन्धशालित्वं च विवृतम्, भगवत्पदविशेषित- कृष्णपदेन च निरङ्कुशजगदीश्वरत्वादिवोधनादवतारं व्यावर्ण्य मन्त्रस्थं कृष्णपदं विवृतम्, तादर्थ्यचतुर्थ्या समर्पणफलं च बोधितमिति तथेति तदनुक्तिः । किञ्च, समर्पणं नव- विधभक्तावात्मनिवेदनत्वेन प्रसिद्धमिति न तत्र कोपि सन्देह इत्यतोपि तथा । तस्य दोषनिवर्तकत्वं तु षष्ठस्कन्धे 'यथा कृष्णापिंतप्राणस्तत्पुरुषनिषेवये'त्यनेन भगवदीयसङ्गा- दुक्तम् । किञ्च, 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा' इत्यत्र सर्वाशुभनिवारकत्वेन सिद्धस्य दुःसहभगवद्विरहतापस्य तदानीमभावात् सेवाङ्गीकारसम्पादिका दोषनिवृत्तिः कथं स्यादिति शङ्कानिवृत्त्यर्थं हि ब्रह्मसम्बन्धकरणपदेन तत्पूर्वोक्तं सर्वमनूद्य ततः सर्वदोषनिवृत्तिरत्रा- भिधित्सिता । एकादशोनविंशाध्याये भगवतात्मनिवेदनस्य भक्तिमार्गीयधर्माधिकारत्व- बोधनेन एतस्यैवार्थस्य सूचनात् । अतो यद्गुरूढं तदेव व्युत्पाद्यम्, न तु निःसंदिग्धं सुबोधं वा । अतोपि तदनुक्तिरिति जानीहि । ननु वाक्यकथनप्रतिज्ञापेक्षया तदर्थकथन- प्रतिज्ञैव साधीयसी, एतदुपपादनानपेक्षत्वादिति चेद्, गद्यं मन्त्रविवरणरूपम्, तस्यार्थस्य सुतरां गोप्यत्वम् । अतोर्थप्रतिज्ञायामपि सर्वेषां वाक्यानामर्थे क्रियमाणेऽपि वाक्यार्थप्रति- ज्ञातत्वात् गद्यार्थः कुतो नोक्त इति शङ्का उदियात्, तदा गद्यस्यापि अर्थोवश्यं कर्तव्य- त्वेनायाति, तदा वाक्यार्थयोः प्रतिज्ञायामविशेषः । तेनार्थप्रतिज्ञापेक्षया श्रीमुखवाक्यप्र- तिज्ञा गरीयसीति सैव कृता । गद्यार्थः कुतो नोक्त इति शङ्कायास्तदाप्युदयात् । उदितायां तस्यां तत्राप्युपपादनस्यावश्यकत्वमिति पक्षद्वयेपि विशेषाभावात् । यत् पुनः प्राचीनैरत्र किमपि नोक्तम्, तत्रैतद्गोप्यत्वमेव बीजम्। मया तु यदिदमुक्तम्, तद्बहिर्मुखमुखध्वंसार्थमेवेति न तद्विरोधो दोषाय । यद्यपि मदुक्तौ मार्गरहस्यप्रकाशनापराध आयाति, तथापि प्रकाश- नस्यान्त्यैरेव कृतत्वेन तदर्थसन्देहवारणस्यैव मत्कृतितया स्वोत्कर्षप्रकाशनार्थत्वाभावाद् भगवान् श्रीमदाचार्यचरणाश्च मदपराधं क्षमन्त्विति विज्ञापयामीतिदिक् ।) न च प्रबुद्धोक्त- दारसुतगृहप्राणनिवेदनस्य कव्युक्तकायादिधर्मसमर्पणस्यैकादशाध्यायोक्तस्य दास्येनात्मनिवे- दनस्य च गद्ये प्रत्यभिज्ञायमानत्वात्समर्पणगद्यस्य तदनुवादत्वं शक्यम् । अर्थतः शब्दतो वा पुरोवादसादृश्यस्यानुवादत्वतन्त्रस्यात्रानुपलम्भात् । तदुक्तफलस्यात्राकथनाच्च । किन्तु सेवाकरणोपदेशात्पूर्वं ब्रह्मसंबन्धकरणेनोनविंशोक्तसेवाधिकारत्वस्यात्र स्फुटत्वादात्मनिवेदन- पूर्वकं क्रियमाणसेवाफलत्वेनोक्ताया महद्धिसंग्रयंभक्तेरत्र सहस्रपरीत्यादिनाधिकारिविशे- षणेन फलतया सूचनात्प्रबुद्धायुक्तार्थसंग्रहेप्यन्तःकरणासेहपराणामधिकानां निवेशने- नोनविंशोक्ताधिकारिविशेषणसूचितसंस्कारस्वरूपनिश्चायकेऽस्मिन् गद्ये योगेश्वराद्युक्तातिरि- क्तमेवेदं समर्पणं बोध्यते । न चान्तःकरणाद्यन्तकथनस्याधिक्यात् समर्प्यत्वांशे अप्रामाण्यं

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 377, कुल 408 में से · BharatKosha