भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

मन्त्रादय उद्रियन्त एव, न तु प्रकाशतया कथ्यन्ते । यथा स्पर्शेषु यत् षोडशमेकविंशमि- त्यादि । तन्मन्त्रविवरकत्वं चैतस्यैव ज्ञेयम् । तत्र हि मन्त्रस्थोत्तमपुरुषान्तक्रियापदसूचि- तस्य कर्तुः स्वरूपम्, तस्य सपरिकरस्य भगवदीयत्वम्, तस्यैव भगवद्वियुक्तत्वादिवोध- नात् मन्त्रस्थषष्ठ्युक्तभगवत्स्वामिकत्वसंबन्धशालित्वं च विवृतम्, भगवत्पदविशेषित- कृष्णपदेन च निरङ्कुशजगदीश्वरत्वादिवोधनादवतारं व्यावर्ण्य मन्त्रस्थं कृष्णपदं विवृतम्, तादर्थ्यचतुर्थ्या समर्पणफलं च बोधितमिति तथेति तदनुक्तिः । किञ्च, समर्पणं नव- विधभक्तावात्मनिवेदनत्वेन प्रसिद्धमिति न तत्र कोपि सन्देह इत्यतोपि तथा । तस्य दोषनिवर्तकत्वं तु षष्ठस्कन्धे 'यथा कृष्णापिंतप्राणस्तत्पुरुषनिषेवये'त्यनेन भगवदीयसङ्गा- दुक्तम् । किञ्च, 'दुःसहप्रेष्ठविरहतीव्रतापधुताशुभा' इत्यत्र सर्वाशुभनिवारकत्वेन सिद्धस्य दुःसहभगवद्विरहतापस्य तदानीमभावात् सेवाङ्गीकारसम्पादिका दोषनिवृत्तिः कथं स्यादिति शङ्कानिवृत्त्यर्थं हि ब्रह्मसम्बन्धकरणपदेन तत्पूर्वोक्तं सर्वमनूद्य ततः सर्वदोषनिवृत्तिरत्रा- भिधित्सिता । एकादशोनविंशाध्याये भगवतात्मनिवेदनस्य भक्तिमार्गीयधर्माधिकारत्व- बोधनेन एतस्यैवार्थस्य सूचनात् । अतो यद्गुरूढं तदेव व्युत्पाद्यम्, न तु निःसंदिग्धं सुबोधं वा । अतोपि तदनुक्तिरिति जानीहि । ननु वाक्यकथनप्रतिज्ञापेक्षया तदर्थकथन- प्रतिज्ञैव साधीयसी, एतदुपपादनानपेक्षत्वादिति चेद्, गद्यं मन्त्रविवरणरूपम्, तस्यार्थस्य सुतरां गोप्यत्वम् । अतोर्थप्रतिज्ञायामपि सर्वेषां वाक्यानामर्थे क्रियमाणेऽपि वाक्यार्थप्रति- ज्ञातत्वात् गद्यार्थः कुतो नोक्त इति शङ्का उदियात्, तदा गद्यस्यापि अर्थोवश्यं कर्तव्य- त्वेनायाति, तदा वाक्यार्थयोः प्रतिज्ञायामविशेषः । तेनार्थप्रतिज्ञापेक्षया श्रीमुखवाक्यप्र- तिज्ञा गरीयसीति सैव कृता । गद्यार्थः कुतो नोक्त इति शङ्कायास्तदाप्युदयात् । उदितायां तस्यां तत्राप्युपपादनस्यावश्यकत्वमिति पक्षद्वयेपि विशेषाभावात् । यत् पुनः प्राचीनैरत्र किमपि नोक्तम्, तत्रैतद्गोप्यत्वमेव बीजम्। मया तु यदिदमुक्तम्, तद्बहिर्मुखमुखध्वंसार्थमेवेति न तद्विरोधो दोषाय । यद्यपि मदुक्तौ मार्गरहस्यप्रकाशनापराध आयाति, तथापि प्रकाश- नस्यान्त्यैरेव कृतत्वेन तदर्थसन्देहवारणस्यैव मत्कृतितया स्वोत्कर्षप्रकाशनार्थत्वाभावाद् भगवान् श्रीमदाचार्यचरणाश्च मदपराधं क्षमन्त्विति विज्ञापयामीतिदिक् ।) न च प्रबुद्धोक्त- दारसुतगृहप्राणनिवेदनस्य कव्युक्तकायादिधर्मसमर्पणस्यैकादशाध्यायोक्तस्य दास्येनात्मनिवे- दनस्य च गद्ये प्रत्यभिज्ञायमानत्वात्समर्पणगद्यस्य तदनुवादत्वं शक्यम् । अर्थतः शब्दतो वा पुरोवादसादृश्यस्यानुवादत्वतन्त्रस्यात्रानुपलम्भात् । तदुक्तफलस्यात्राकथनाच्च । किन्तु सेवाकरणोपदेशात्पूर्वं ब्रह्मसंबन्धकरणेनोनविंशोक्तसेवाधिकारत्वस्यात्र स्फुटत्वादात्मनिवेदन- पूर्वकं क्रियमाणसेवाफलत्वेनोक्ताया महद्धिसंग्रयंभक्तेरत्र सहस्रपरीत्यादिनाधिकारिविशे- षणेन फलतया सूचनात्प्रबुद्धायुक्तार्थसंग्रहेप्यन्तःकरणासेहपराणामधिकानां निवेशने- नोनविंशोक्ताधिकारिविशेषणसूचितसंस्कारस्वरूपनिश्चायकेऽस्मिन् गद्ये योगेश्वराद्युक्तातिरि- क्तमेवेदं समर्पणं बोध्यते । न चान्तःकरणाद्यन्तकथनस्याधिक्यात् समर्प्यत्वांशे अप्रामाण्यं

शङ्क्यम् । अम्बरीषमभिप्रेत्य 'ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम्, हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' इति नवमस्कन्धे दुर्वाससं प्रति भगवद्वाक्ये तेषामपि बोधनात् । न चास्मिन् वाक्ये हित्वेति पदाद्गारादित्याग एव बोध्यते, नतु समर्पणमिति तदंशे कथमस्य प्रामाण्यमिति शङ्क्यम् । अम्बरीषस्य तदानीं राज्यदशासद्भावेन परमहंस- वद्बहिस्त्यागस्याभावादान्तर एव स वाच्यः । राजा च 'करौ हरेर्मन्दिरमार्जनादिष्वि'त्यादि- वाक्यान्महाराजोपचारेण स्वयं सेवां करोतीति भगवद्धर्मं जानन् रक्षकत्वेन भगवन्तमनु- सन्दधानस्तानि कथं न समर्पयेदित्यर्थत एव प्राप्तत्वात् । वस्तुतस्तु राजा मर्यादापुष्टावङ्गी- कृतो, न केवलपुष्टौ, न वा पुष्टिमर्यादायाम्, अतस्तस्य महद्विसृग्यभक्त्यर्थित्वाभावात्तत्र तदकथनेप्यदोषः । तस्य तदर्थित्वाभावे च 'केवलेन हि भावेने'ति सन्दर्भे तदनुल्लेख एव गमकः । श्रीकृष्णावतारात् प्राक् तस्य मार्गस्याप्राकट्यादिति । तेन यदस्मिन् गद्ये उच्यते, तन्न कस्याप्यनुवादः, किन्तु कर्मणः कल्पसूत्रवदिदमात्मनिवेदनप्रकारनिश्चायकम्, अतो नात्रानुवादशङ्कालेश इति दिक् । न च भवत्वेवम्, तथाप्यत्र पूर्वोक्तवाक्यार्थ- सङ्ग्राहकत्वं तु स्फुटम् । तथा सति तत्र पुरुषाणां जिज्ञासूनामेवाधिकारदर्शनादत्र पुमांस एवाधिकुर्युः, नतु स्त्रियोपीति शङ्क्यम् । 'को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजे- त्सर्वतो मृत्युरुपास्यममरोत्तमैः । सर्वेधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । देवोसुरो मनुष्यो वे'त्यादिवाक्यैरिन्द्रियवत्त्वेनैव सर्वेषां नवविधायामपि भक्तौ सामान्येनाधिकारसिद्धौ भक्ति- विशेषभूत आत्मनिवेदने स्त्रीणां नाधिकार इति वक्तुमशक्यत्वात्, निषेधाभावात्, प्रत्युत सप्त- मस्कन्धे 'तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोधधे' इति दैत्यवालकान् प्रति प्रह्लादवाक्ये कयाधुमुद्दिश्य नारदेन नवविधभक्त्युपदेशस्य बोधनेन तस्यां तस्यापि प्रक्तेश्च । भगवताष्येका- दशे सम्वादं समापयता 'साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिता'मिति शूद्रयोषिद्भ्यो भक्तिसद्भावे पूर्वोक्तसर्वकथनस्याङ्गतत्वात् । कथनस्य च यथाधिकारं करणैकप्रयोजनत्वात् । 'विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोन्त्यजाः । रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ । बहवो मत्पदं प्राप्ता' इति तासामपि सत्सङ्गफलस्यापि बोधनाच्च । न च भवतु स्त्रीणामप्यात्म- निवेदनेधिकारः, तथापि स्त्रीव्यक्तिकवीतरागबालानां निवेदने कार्यमाणे तेषां दाराद्यभावात्तत्र तत्पदाकथनं पत्यायूहश्च प्राप्नोति, अन्यथा तेषामसमर्पितत्वे तत्सङ्गादोषः स्यात्, अतः स तत्र कुतो न क्रियत इति शङ्क्यम् । सृष्टिन्यायाद्धर्मनिबन्धनाया गौण्या दारपदात्पत्युः सुतपदात् पित्रोश्चोपलक्षणे तेषां समर्पितत्वसिद्धेः पूर्वोक्तदोषासंसर्गे तत्रप्रयोजनाभावात् । सृष्टिन्यायस्तु पूर्वतन्त्रे प्रथमाध्यायस्योपान्त्ये । तत्र हि 'सृष्टिरूपं दधाती'तिवाक्यं सृष्टिस्सञ्ज्ञकानामिष्टकाना- मुपधानं विधत्ते । तत्र काः सृष्टय इत्याकाङ्क्षायाम् 'तद्वानासामुपधानो मन्त्र' इति पाणिनि- सूत्राद्यदुपधाने सृष्टिवान् मन्त्रस्ताः सृष्टय इति सिध्यति । मन्त्रास्तु 'ब्रह्मासृज्यत, भूतान्य- सृज्यन्त' इत्यादयः पश्चात्पठ्यन्ते । प्रथममन्त्रे सृजतिर्न प्रयुक्तः, किन्तु दधाति प्रयुक्तः, १. निश्चायकमिति बोध्यमिति पाठः । २ ४-४-१२५ सूत्रपाठे ।

श्रीपुरुषोत्तमकृतविवरणसमेतम् । ३९ एकया स्तुवत प्रजा अधीयन्तेति तत्पाठात् । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजति धातुप्रयोगाङ्गमग्रूपं सादृश्यमस्तीति सृष्टिशब्दः । स सृष्टिसङ्गं बोधयतीति । ननु भवत्वेवम्, तथापि देहाद्यात्मान्तान् समर्पयामीत्यनुक्त्वा, यदत्रैवमुक्तम्, तत्र किं बीजमिति चेत् । उच्यते । विधेयांशनिष्कर्षणैवेष्यध्यासाभावाय तत्स्वरूपस्फुटीकरणं चेति जानीहि । अत्र ह्यात्मनिवेदने सर्वसाहित्यं विधेयमिति देहादीननूद्यात्मसाहित्यमवयुत्या निरूप्यते । देहादयोऽहमित्यध्यासविषयास्तद्धर्मा अहं ममेत्युभयाध्यासविषया दारादयः केवलममता- विषया इति । आत्मना सहेति सहपदप्रयोगस्तु पितरि निमन्त्रिते पुत्रः पित्रा सहागत इत्यत्रेव प्राधान्यं न विहन्ति । तस्माद्वये बोध्यमानं समर्पणमूनविंशोक्ताधिकारस्वरूपस्यैव बोधकम्, नतु कस्याप्यनुवादः, वाक्यार्थस्यापूर्वत्वादिति । प्रकृतमनुसरामः ॥ १ ॥ एवं प्रतिज्ञाय वाक्यान्याहुर्ब्रह्मसम्बन्धेत्यादि । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धो नाम सर्वस्मिन् भगवत्स्वामिकत्वरूपः सम्बन्धः, तस्य करणं नाम भगवता आचार्यान् प्रति गद्येनोक्तो य आत्मसमर्पणप्रकारः, तद्रीत्या भगवति स्वात्मसहितस्वीयसर्वपदार्थानां भगवति तथात्वविज्ञापनम् । ‘स वै नैव रेम’ इति श्रुतेः, ‘क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु’रित्या- दिवाक्याच्च, वस्तुतः सर्वस्य भगवदीयत्वेऽपि ‘स वै नैवे’त्यादिश्रुत्या रमणार्थं द्वितीय- निर्माणादिश्रावणेनापादिता या तत्तत्पदार्थे जीवस्य स्वत्वस्वीयत्वाभिमतिः तत्परि- त्यागेन तेषु भगवदीयत्वस्य विज्ञापनमिति यावत् । तस्मात्सर्वेषां समर्पितात्मनां देहजीवयोः स्थूललिङ्गशरीरयोः । सर्वदोषनिवृत्तिः । हि निश्चयेन । (यतो भगवतैव गीतायां ‘यत् करोषि यदश्नासी’त्यादिना सर्वकर्मार्पणं कर्तव्यत्वेनोपदिश्य, ‘शुभाशुभ- फलैरेवं मोक्ष्यसे कर्मबन्धनै’रिति तत्फलमुक्तम् । एकादशे च ‘यानास्थाय नरो राज’न्नित्यनेन प्रमादाद्यभावरूपं भगवद्धर्मास्थितिफलमुक्तम् । ) युक्तं चैतत् । वस्तुतः सर्वस्य ब्रह्मरूपत्वात्तत्र भगवदीयत्वेऽनुसंहिते तदुपदेहभूतप्राकृतगुणजन्यदोषस्य निवृत्तिर्भवतीति । तथा च जीवादिदोषवशात्कृतसेवाङ्गीकारविषयिणी चिन्ता न कार्येत्यर्थः । अत्र सर्वेषामित्यनेन ‘देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय’मिति सप्तमस्कन्धीयप्रह्लादवाक्योक्ताः सर्वेऽपि भजना- धिकारिणः सङ्गृहीताः । जीवपदेन च शरीरविशिष्टश्चेतनः, नतु केवलः, तस्मिन् स्वतो दोषाभावस्यासङ्गश्रुत्या शारीरब्राह्मणे सिद्धत्वात् । देहपदस्य पृथगुक्तिस्तु स्थूलशरीरदोषाणा- मभीक्ष्णमनुभूयमानतया दोषाकरत्वबोधनार्था । यद्वा । जीवपदेनाविद्यासम्बन्धवांश्चेतनः । देहपदेन देहद्वयमिति बोध्यम् । ननु ब्रह्मसम्बन्धकरणमात्राच्चेत्सर्वेषां देहजीवगतसर्वदोष- १. ( ) इदमपि श्रीपुरुषोत्तमानां पाठान्तरम् ।

निवृत्तिः, तदा निर्दुष्टत्वात् प्रतिबन्धकाभावेन तदानीमेव सेवया मुख्यफलप्राप्तिः, गद्ये तादर्थ्येनैव समर्पणस्योक्तत्वात्, तस्य दानहेतुकत्वाद्भगवदिच्छाधीनत्वात्, तदभावेपि सायुज्यप्राप्तिस्तु स्यादेव । तत्र प्रतिबन्धकस्याभावात् सेवायाश्च पूर्वं कृतत्वात्, प्रमाण- सिद्धायास्तस्या नैष्फल्यस्य वक्तुमशक्यत्वात् । तथा सति विवक्षितस्य पुष्टिमर्यादाभक्तिमार्ग- स्यैवोच्छेदः, उपदेशकस्याभावात् । किञ्च, उक्तरीत्या ब्रह्मसम्बन्धकरणोत्तरमपि दोषाणां प्रत्यक्षतोऽनुभूयमानत्वात्तद्विरोधोपीति कथं तन्निवृत्त्यवगतिरित्याकाङ्क्षायां दोषनिवृत्तिस्वरूपं वक्तुं पूर्वं दोषान् गणयंस्तन्निवृत्तिस्वरूपं सपादश्लोकेन भगवानाहेत्याहुर्दोषा इत्यादि । अत्र जीवस्य सहजा दोषा अविद्यासम्बन्धतत्कृताभिमानप्राणधारणप्रयत्नाः । लिङ्गदेहस्य सहजाः कामक्रोधादयः क्षुधादयश्च । स्थूलदेहस्य सहजास्तु मातापितृमलानुषङ्गात्मत्वं रोगादयश्च । देशकालोत्थादयस्तु देहयोरेव, न जीवस्य । ते तद्द्वारा जीव उपचर्यन्ते । तत्र देशोत्था मगधमरुसिन्धुप्रभृतिदेशेषूत्पत्त्या तत्र गमनादिना च जाताः । कालोत्थाः कलिप्रभवा दुर्मुहूर्तप्रभवा अवस्थादिकृताश्च । उत्थशब्दो द्वन्दान्ते श्रूयमाणः प्रत्येकमभि- सम्बध्यते । तेनात्र दोषद्वयम् । एतान् भक्तिमार्गीयेभ्यो दोषेभ्यो व्यावर्तयितुं विशिषन्ति लोकवेदनिरूपिता इति । इदं च विशेषणं देहलीदीपवत् पूर्वापरयोः सम्बध्यत इति पञ्चस्वपि तदन्वयः। उचितं चैतत् । ‘गुणदोषभिदा दृष्टिर्निगमात्ते न हि स्वत’ इत्येकादशस्क- न्ध उद्धववाक्ये गुणदोषयोः श्रुतिमूलकत्वस्य कथनात् लोकस्यापि दूरतस्तदुपजीवकत्वा- दिति । संयोगजाः । बुद्धिपूर्वकं कामेन च सम्यग्ज्ञानोयोगजन्याः । स्पर्शजा अबुद्धिपूर्वकम- कामतश्च जाताः । ते कथञ्चन केनापि श्रौतेन वा स्मार्तेन वा लौकिकेन वा प्रकारेण न मन्तव्याः सेवाप्रतिबन्धकतया न विचारणीयाः । ब्रह्मसम्बन्धकरणोत्तरं देहेन्द्रियप्राणा- न्तःकरणजीवेषु तद्धर्मेषु च भगवदीयत्वेऽनुसंहिते तत्स्वामित्वेन तत्प्रेरकत्वेन च भगवत एवानुसन्धानात्तेषां स्वसम्बन्धित्वनिवृत्तिरिति तेषां स्वरूपतः सत्त्वेपि पारक्यवत् तं प्रत्यकिञ्चि- त्करत्वात्तेषां सेवाप्रतिबन्धकत्वनिवृत्तिरेव निवृत्तित्वेनाभिप्रेता, नतु स्वरूपतो निवृत्तिरत्रा- भिप्रेता । तथा च स्वरूपतः सत्त्वान्न तदानीमेव सायुज्यादिप्राप्तिः, न वा प्रत्यक्षविरोधः । प्रतिबन्धसामर्थ्यस्य निवृत्तत्वाच्च सेवाङ्गीकार इति न काचिदनुपपत्तिरित्यर्थः । नन्वेवंविधाया दोषनिवृत्तेः प्रायश्चित्तादिनापि संभवाद्ब्रह्मसम्बन्धतः को विशेष इत्यत आहुरन्यथेत्यादि । अन्यथा एतदतिहाय सर्वदोषाणां निवृत्तिः कथञ्चन केनापि कर्मज्ञानभक्तिरूपेण साधनेन न, दोषहेतूनां कर्मदेशकालानां विद्यमानत्वात्तैः संयोगस्पर्शाभ्यां तदुत्पत्तिनैयत्यात् । कृते तु ब्रह्मसम्बन्धे दूष्येषु जीवदेहादिषु भगवदीयत्वानुसन्धानात्तेषु स्वसम्बन्धनिवृत्ते- र्दोषाणामकिञ्चित्करत्वमितीदमेव स्वतन्त्रं दोषनिवृत्तिसाधनम्, नान्यदित्यर्थः । अत्रेदं बोध्यम् । एकादशस्कन्धे ‘योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्चे’तिवाक्ये भगवता त्रीणि जीवानां श्रेयःसाधनान्युक्तानि । श्रेयश्च १. नैर्बल्यमिति पाठः ।

दुःखाभावः सुखं चेति । चतुर्थस्कन्धे ‘श्रेयस्त्वं कतमद्राजन्कर्मणात्मन ईहसे । दुःखहानिः सुखावाप्तिः श्रेयस्तन्नेह चेष्यत’ इति नारदेनोक्तम् । तत्र पूर्वं दुःखाभावो मृग्यः । बुद्धेस्तत्रैव प्रथमप्रवृत्तेः । दुःखं च पूर्वोक्तेभ्य एव दोषेभ्यः । दोषाणां च निवृत्तिर्न प्रायश्चित्तकर्मणा आत्यन्तिकी । तदुत्तरमपि पुनः पापे मनःप्रवृत्तिदर्शनात् । 'कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते । अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शन’मिति षष्ठे शुकवाक्याच्च । न च तर्हि ज्ञानात्तन्निवृत्तिरस्तु । ‘यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरु- तेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथे’ति गीतायां भगवद्वाक्याच्चेति शङ्क्यम् । ‘नाश्रतः पथ्यमेवान्नं व्याधयोऽभिभवन्त्युत । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते । तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन च । देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्यघं महदपि वेणुगुल्ममिवानल’ इति त्रिषु प्रथमे पथ्याशनदृष्टान्तेन शनैर्नानासाधनतः क्षेमशब्दोदितज्ञानोत्पत्तिमुक्त्वा, द्वितीये तत्सहकारीणि नवसाधनान्युक्त्वा, तृतीये पापनाशकथनात् । श्रीधरीये तप ऐकाग्र्यम् । ‘मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तप’ इति स्मृतेः । ब्रह्मचर्यं च ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव चे’त्यष्टाङ्गमैथुनाद्विपरीतम् । शमो मनोनिग्रहः । दमो बाह्येन्द्रियनिग्रहः । त्यागो दानम् । सत्यं सत्यभाषणम् । शौचं देहाशुद्धिनिवारक आचारः । यमोऽहिंसादिः । नियमो जपादिरिति तेषां विवरणात् । एवं बहुकालतो दोषनिवृत्तिरिति सहकार्याभाव इदानीं ज्ञानस्योत्पत्तेरेव दुर्घटत्वात्कथञ्चित् भवनेपि सहकारिसंपत्तेर्दुर्लभत्वाच्च । अतः परं भक्तितो दोषनिवृत्तिरवशिष्यते । ‘केचित्केवलया भक्त्या वासुदेव- परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः । न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया । सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः । प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निःपुनन्ति राजेन्द्र सुराभाण्डमिवापगाः । सकृन्मनः कृष्णपदारविन्दयोर्निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्नेपि पश्यन्ति हि चीर्णनिष्कृता’ इति वाक्यैस्तस्या अपि पापनिवारकत्वेनोक्तत्वात् । सा तु ब्रह्मसम्बन्धकरणादेव सिध्यति, न तु तदतिहाय । तथा हि । अत्र प्रथमे ‘केचि’- दितिपेदन तादृशाधिकारिणां दुर्लभत्वं सूचितम् । ‘केवलये’तिपदेन सहकारिनिरपेक्षत्व- बोधनाद्भक्तेर्ज्ञानापेक्षया प्राबल्यं च बोधितम् । ‘कार्त्स्न्य’पदेन नीहारभास्करदृष्टान्तेन च निरन्वयपापध्वंसजनकत्वम् । प्रौढे भास्करे नीहारस्य तथा नाशात् । द्वितीये ‘कृष्णा- र्पितप्राण’ इत्यधिकारिविशेषणेन तस्य कृतब्रह्मसम्बन्धत्वस्य बोधनात् । उचितं चैतत् । अपहतपाप्मनः स्वस्वामित्वेऽनुसंहिते दोषनिवृत्तेर्युक्तत्वादिति । परमयं विशेषः । तथा हि । तत्र तृतीयान्तेन ‘तत्पूरुषनिषेवये’तिपदेन सर्वदा भगवद्भक्तसङ्गत्वं च सूचितम् । तृतीये मार्गोत्कर्षबोधनार्थं भगवद्भक्तस्वरूपबोधनेन दाम्भिकादिसंसर्गत्यागः सूचितः । सि. र. ६

चतुर्थे बहिर्मुखकृतप्रायश्चित्तस्य 'सुराभाण्डमिवापगा' दृष्टान्तेन वैफल्यमुक्त्वा, पञ्चमे सकृद्भग- वच्चरणनिवेशितमनस्तद्गुणरागि येषां जातम्, तेषां यमत्तद्भटदर्शनाभावबोधनेन पापानां निःशेषनाशो निगमितः, ततोऽजामिलोपाख्याने प्रपञ्चितश्च । अतो भगवद्भक्तसङ्गो दाम्भिकतत्सङ्गत्यागः साधनान्तरश्रद्धाराहित्यं भगवद्गुणरागिचित्तत्वं च यदा भवति, तदा तथेति । यतस्तस्यापि निर्णयः श्रीमदाचार्यैस्तत्रत्यनिबन्धे 'भगवत्सेवका ये तु कथञ्चिद्भिन्नतां गताः। सर्वात्मना पापनाशस्तेषामेव भवेत् ध्रुव'मिति कारिकया निरूपितः। एवं सति ये पूर्वं भगवत्सेवकाः कुतश्चन हेतोरिहागताः, तेषामेवार्थेऽयं मार्ग इति त एव ब्रह्मसम्बन्धकरणे तेन निवृत्तसर्वदोषा भवन्ति । त एव च तत्राधिकुर्वन्ति । अत एव निबन्धारम्भे 'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः । भवान्तसम्भवा दैवात्तेषामर्थे निरूप्यत' इत्युक्तम् । एवं च यद्यपि 'सर्वेऽधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृपे'ति माघस्नानविषयकवाक्योक्तदृष्टान्तात् 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति सप्तमस्कन्धीयप्रह्लादवाक्याच्च स्वरूपयोग्यतारूपः सर्वेषामधिकारः, तथापि फलमुख उक्तविधानामेव। अतो ब्रह्मसम्बन्ध- स्तादृशामेव कारणीयः । तादृशत्वं चोत्कटभजनादरजनिकया गुरुशुश्रूषया तदनुकूलप्रश्न- मार्गसञ्चित्तैःस्वभाषाचारैश्चावधारणीयम् । यः पुनः पूर्वं पापाचारः पश्चाद्भगवन्मार्ग उत्कण्ठते, सोप्युपदेश्यः, 'अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यः सम्य- ग्व्यवसितो हि स' इतिवाक्ये तादृशस्यापि साधुतया मन्तव्यत्वकथनात् । 'क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति' इत्यने- नाग्रे तदभिज्ञापकस्यास्यापि कथनाच्च । यस्तु स्वयमनुत्कण्ठः सत्सङ्गात्कुलपारंपर्याद्ध्योपसी- देत्, सोप्युपदेशमर्हति । परं तत्र भगवत्कृपायाः सन्दिग्धत्वात्फलमुखता न निश्चेतुं शक्या। तथापि तदुपदेशेपि न दोषमावहति । सत्सङ्गादिना तथा सम्भावनया कृतत्वात् । स परं परीक्षणीयः। यदि पश्चाच्छ्रद्धते भगवद्धर्मे, तदा तु 'यथा यथा हरिः कृष्णो मनस्याविशते निजे । तथा तथा साधनेषु परिनिष्ठा विवर्धत' इत्याचार्यचरणोक्तात् ज्ञापकान्मार्गरीत्या बोधनीयः । यद्युदास्ते, तदा न बोधनीयः । यदा तु बाहिर्मुख्यं प्रकटयति, तदा तूपेक्षणीयः । 'ईश्वरे तदधीने च बालिशेषु द्विषत्सु च । प्रेममैत्रीकृपोपेक्षा यः करोति स मध्यम' इत्येकादशस्कन्धे योगेश्वरवाक्ये भागवतलक्षणे तथोक्तत्वात् । 'निवेदितात्मभिन्नेषु सदौ- दासीन्यमाचरेत् । प्रावाहिकास्तेपि चेत् स्युरुपेक्षैवोचिता सदे'ति विज्ञप्तौ प्रभुचरणैरपि तथोक्तत्वात् । 'विजातीयजनाक्रान्ते निजधर्मस्य गोपनम् । देशे विधाय सततं स्थे- मित्येव भासते। हरेरेव तथेच्छास्ति सर्वोद्धृतिविरोधिनी । अन्यथाचार्यविमुखाः कथमेत- त्पथि स्थिता' इति पत्रेऽपि तथा लिखितत्वाच्च । तदेतदौच्छृङ्खल्यनिवारणाय मार्गरीति- बोधनाय तत्रान्यथाबुद्ध्यपहाराय च प्रसङ्गादुक्तम् ।


१ इदं पत्रं वेणुनादे मुद्रितम् ।

श्रीपुरुषोत्तमकृतविवरणसमेतम् । ४३ सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । प्राग्भिस्त्वत्र पञ्चविधदोषस्वरूपमात्रं स्वस्वविचारितरीत्योच्यते, न तु प्रासङ्गिकं विचार्यते, न वा प्रत्यक्षविरोधः परिह्रियते । तथा सति तन्मतेनाधुनिकानां जघन्याधि- कारिणां तद्रीत्या दोषनिवृत्त्यादिः क्लेशेन साधयितव्य इति तन्मतं विहाय श्रीरघुनाथानां विवरणमनुसृत्यैवं विवृतम् । श्रीगोकुलनाथैस्त्वत्र पूजामागौक्तदोषाणामेव निवृत्तिर्ब्रह्मसम्ब- न्धेनाभिप्रेयेते । तत्र देहस्य भौतिकत्वाद्वतशुद्धिनिवार्याः सहजाः । 'अपसर्पन्तु ते भूताः' 'पवित्रं कुरु चासन'मित्यादिना आसनादिशुद्धिविधानात्पूजादेशेपि दोषाः सन्तीति देशोत्थाः । 'प्रातर्होमं च कृत्वैव कृत्वा वा ब्रह्मयज्ञकम् । यद्वा माध्याह्निकं कृत्वा पूजयेत्पुरुषोत्तम'- मिति कालविधानादन्यकाले पूजने कालोत्थाः । एतयोरेकपदोपात्तत्वादैक्यम् । लोकनि- रूपितस्तु 'आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिन' इति वाक्यात्पुनरावृत्तिरूपः । वेदनिरू- पितस्तु 'यस्य स्मृत्या चे'ति वाक्योक्तो न्यूनत्वादिः । एतयोरप्यैक्यम् । संयोगजस्त्वभिम- न्त्रितजलादावनभिमन्त्रिततत्संयोगजः । आसादितानां गन्धपुष्पादीनां स्त्रीशूद्रस्पर्शजः । चका- रादन्ये नैवेद्यादौ दृष्ट्यादिजाः । ते न भक्तिमार्गे, न मन्तव्याः, न गण्या इत्येवं व्याख्यानात् । तत्र हेतुस्तु ब्रह्मसम्बन्धकरणमेव । तथा च तदपराधानां भगवतैव निवार- णात्तथेति तदाशयः ॥ २ ॥ प्रकृतमनुसरामः । ननु भवत्वेवं पूर्वदोषनिवृत्तिः, तथापि कर्मदेशकालांनां दोषहे- तूनां विद्यमानत्वात्तैः संयोगाद्युत्पादने ताभ्यां जायमाना दोषाः कथं निवारणीया इत्यत आहुः असमर्पितेत्यादि । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । यस्माद्ब्रह्मसम्बन्धमन्तरेण न सर्वदोषनिवृत्तिस्तस्माद्धेतोः असमर्पितवस्तूनां आत्म- समर्पणोत्तरं लब्धानां 'सर्वलाभोपहरण'मित्युक्तरीत्या भगवत्यनिवेदितानां पदार्थानां वर्जनमाचरेत् । वृजी वर्जने । वर्जनं संसर्गराहित्यम्, तत्कुर्यात् । तानि भगवतेऽनुपहृत्य न स्वयं विनियुञ्जीत । प्रारब्धादयो हि न दृष्टसामग्रीसंपादनरूपव्यापारं विना संयोगस्पर्शाद्युत्पादयन्ति । तत्संपादिता च सामग्र्यसमर्पितैव दोषावहा, नतु समर्पिता, भगवदीयत्वात् । अतोऽसमर्पिताया असंसर्गे संयोगस्पर्शाभ्यां भाविनां दोषाणामसंश्लेषादेव वारणमित्यर्थः । ननु भवत्वेवं कालादिकृतदोषवारणम्, तथापि प्रारब्धवशाद्विद्यमानस्य देहादेर्निर्वाहस्तु भगवदीयेनैवान्नादिना कार्यः । तथा सति स्वस्य स्वामिवस्तुभोगजनितो दोषः सेवां प्रतिबध्नीयात्, अतस्तस्य कथं निवृत्तिरित्यत आहुः निवेदिभिरित्यादि । निवेदिभिरिति करणे तृतीया । निवेदो निवेदनं भगवति समर्पणम्, तद्येषामस्ति, मतु-

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यंतरण है:

४४ सिद्धान्तरहस्यम् । चार्थे णिनिः । तानि निवेदनानि तैर्निर्वाहकणभूतैः समर्प्यैव सर्वं कुर्यात् । स्वात्मसमर्पणाव- सरे भगवते निवेदितैर्दारादिभिश्चेतनैर्गृहवित्तादिभिरचेतनैश्च यत् कुर्यात्, तत्सर्वं भग- वते तेषां यथोचितविनियोगरूपं समर्पणं विधायैव कुर्यात् । 'शास्त्रे निवेदनं दानं ह्यर्पणं त्रिविधं स्मृतम् । निवेदनं समुद्दिश्य द्रव्यस्य ज्ञापनं मतम् । दानं स्वकीयत्यागः पर- स्वापादनं विधेः । अर्पणं स्वामिभोग्यस्य स्वामिने ज्ञापनं मतम् । सूदृष्टान्तदृष्टेन तदेवं त्रिविधं प्रमे'ति कचिद्वैष्णवनिबन्धे दर्शनात् । अत एवात्र 'निवेद्ये'त्यनुक्त्वा 'सम- र्प्यै'ति शब्दान्तरमुक्तम् । समुपसर्गश्च भावपूर्वकत्वाद्योक्तः । तथा च चेतनान् भगवत्से- वायां विनियुञ्जन्नचेतनान् गृहवित्तादीनुपयोजयन्नन्नादीन्नैवेद्यरूपेण वस्त्रालङ्कारादींश्चोचि- तविनियोगे नियोजयन् 'त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासा- स्तव मायां जयेमही'त्युक्तरीत्या तद्दत्तप्रसादत्वेन तत्तदुपयुञ्जीत । इति स्थितिः । एषा निर्दुष्टा भक्तिमार्गमर्यादा । अत्र सर्वपदेन लौकिकं वैदिकं च यदिधित्सितं कार्यं तदुच्यते, निवेदिभिरिति वस्तुविशेषणेन समर्पणक्रियया च सर्वत्र शेषित्वेन भगवतः स्मरणं बोध्यते । तथा चैवं तत्प्रसादेन स्वकीयसर्वनिर्वाहे क्रियमाणे स्वामिनैव तन्निर्वाहार्थं स्वीयवस्तूनां प्रसादत्वेन दत्तत्वस्यानुसंधानात् न तद्भोगेन दोष इत्यर्थः । न चोक्तवाक्यस्यावतार- कालिकविषयत्वादिदानीं प्रसाददानानुसंधानस्याहार्यत्वात्तेन कथं दोषनिवृत्तिरिति शङ्क्यम् । एतादृशानुसंधानस्यापि फलसाधकत्वात् । 'इति शेषां मया दत्तां शिरसाधाय सादरम् । उद्वासयेच्चेदुद्वासं ज्योतिर्ज्योतिषि तत्पुन'रिति भगवद्वाक्येन तथा निश्चयात् । एतदेव पुरा- णान्तरेप्युक्तम् । 'अम्बरीष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा विष्णूपभोग्यं तु सदा सेव्यं हि वैष्णवै'रिति । 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पत' इति च । न चैवं प्रक्षालनपङ्क न्यायापत्त्या गार्हवस्तूनां समर्पणात्पूर्वं भगवदीयत्वमेव नाङ्गीकार्यम् । आत्मसमर्पणावसरे वित्तोल्लेखस्य भाविनि परलोक इव भूते वित्तेप्यभिमानमात्रनिवृत्त्यर्थत्वेन तदानीं भगवदीयत्वानापादकत्वादिति वाच्यम् । समर्प- णात्पूर्वमपि वस्तुतः सर्वस्य भगवदीयत्वेन त्यक्ते स्वाभिमाने सुतरां तथात्वेनोक्तरीतिं विना पूर्वोक्तदोषानपायात् । न च 'यावद्ध्रियेत जठरं तावत्स्वत्वं हि देहिनाम् । अधिकं योभि- मन्येत स स्तेनो दण्डमर्हति' इति सप्तमस्कन्धवाक्यात् निर्वाहमात्रार्थग्रहणे दोषस्य न सम्भव इति वाच्यम् । तस्य सामान्यत्वात् । आत्मनिवेदनमुपक्रम्य तदपाठात् । तावताभि- मानजनितदोषाभावेप्यभिमानस्य विद्यमानत्वेनैतदपेक्षया पूर्वोक्तस्यैवोत्कृष्टत्वादिति । एवमत्र सर्ववस्तुसमर्पणोपदेशेन स्वामिवस्तुग्रहणदोषो निवारितः । अतः परं समर्पणं यथा न दुष्यति, तं प्रकारं वक्तुं पूर्वं दूषितसंसर्गनिषेधमाहुः न मतमित्यादि । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ देवदेवस्य पूज्यानामपि पूज्यस्य भगवतः । सामिभुक्तस्यार्धभुक्तस्य समर्पणं

श्रीपुरुषोत्तमकृतविवरणसमेतम् । ४५ न मतम् । सुखदुःखान्यतरसाक्षात्कारो हि भोगः, तद्विषयं भुक्तम् । तथा च यत उद्धृत्य ग्रहणाद्यनन्तरं शिष्टे भुक्तशेषत्वव्यवहारः, तत्सामिभुक्तम् । वस्तुनः सदसत्त्वादिप- रीक्षार्थं तत उद्धृत्य मुखादौ क्षेपे आघ्राणे हस्तलापने वा शिष्टस्य न सामिभुक्तत्वम् । तच्छिष्टे भुक्तशेषव्यवहाराभावात् । तत्रापि बीजं स्वस्य तद्दर्शनाद्युत्तरं तद्बुभुक्षाभावो बुभु- क्षोत्तरं तदुपादानाद्यन्ताभावो वा । यदि पुनः कस्यचिद्बुभुक्षोत्पत्तिः, तदा तस्य चेतनस्यै- वापराधित्वम् । मानसिकव्यभिचारादिव । नत्वचेतनस्य वस्तुनः सामिभुक्तत्वम् । यदा तु बुभुक्षोत्तरमिन्द्रियव्यापारः, तदा तु वस्तुन्यपि दोष इति तादृशस्य समर्पणं क्रियादूष- कत्वात् न संमतमित्यर्थः । एवञ्च यच्छ्रीगोकुलनाथार्थंभगवदर्थं सम्पादितेषु पदार्थेषु कदा- चित्केनचित्तन्मध्यात्किञ्चित्स्वार्थमन्यार्थं वा गृहीत्वा विनियुक्तं चेत्, तदा तस्य पदार्थस्य यत्सामिभुक्तत्वमुक्तम्, तदत्र कैमुतिकादेव सिद्धं ज्ञेयम् । यत्पुनस्त एव स्वोपभोगार्थ- मानीतं वस्त्रादिकं किञ्चित्स्वोपयुक्तमात्रं भगवते समर्प्य तस्योपयोगं कृत्वा तदवशिष्टं चेत्स- मपर्यितुमिच्छति, तदपि सामिभुक्तं जातमिति न समर्पणीयमित्याहुः । तत्र स्वोपभोगार्थ- त्वाभिसंधानमेव दूषकताबीजम् । तादृशस्य समर्पितस्य ग्रहणे भगवद्दत्तप्रसादत्वबुद्धेः कर्तु- मशक्यत्वात् गौणत्वाच्चेति मम प्रतिभाति । तथा भगवद्वस्तुबुभुक्षापराधे तु, ममायमप- राधो निवर्तताम्, पुनश्च माभूदिति दीनभावनपूर्वकं भगवान्नेव प्रार्थनीयो, वज्रचिह्नयुक्ततच्च- रणारविन्दध्यानं च कार्यम्, दैन्यस्य भगवत्तोषणहेतुत्वात् । 'यच्छौचनिःसृतसरित्प्रवरोद- केन तीर्थेन मूर्ध्वधिकृतेन शिवः शिवोभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्द'मिति तृतीयस्कन्धे श्रीकपिलवाक्याच्च । भक्तेः पापनाशकत्वस्य पूर्वं साधितत्वेन तद्ध्यानात्मकस्मरणेपि तथात्वसौचित्याच्च । किञ्च । भगवच्चरणचिह्नभूताङ्कुश- ध्यानमपि कार्यम् । 'अङ्कुशो नागशिक्षायै यावद्भवति पुत्रक । तादृशं तद्भवेच्चिह्न'मिति पाद्मे चरणचिह्नाध्याये तादृगाकारस्य शिक्षार्थत्वाभिधानात् । पञ्चाध्यायां 'लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभि'रित्यत्र सुबोधिन्यां मनोनिग्रहार्थमङ्कुशस्थापनमिति तत्तात्पर्य- कथनाच्चेति मम प्रतिभातं प्रसङ्गादुक्तम् । एवं दूषितसंसर्गनिषेधमुक्त्वा समर्पणादूषणप्रकारमाहुः तस्मादित्यादि । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । यस्मादसमर्पितसंसर्गः सामिभुक्तसमर्पणं चायुक्तम्, तस्मात्सर्वस्मिन्वौदिके स्मार्ते लौकिके च कार्ये आदौ ततः प्रागेव सर्वेषां तत्रतत्रापेक्षितानां वस्तूनां समर्पणं मतं संमत- मित्यर्थः । तत्प्रकारस्त्वेवं प्रतिभाति । गारुडे । 'जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् । इह नित्यक्रियां कुर्मः स्निग्धास्ते वैष्णवाश्च ते' इति वैष्णवलक्षणवाक्यात्, एकादशस्कन्धे च 'सन्ध्योपास्यादिकर्माणि विधिना नोदितानि मे । पूजान्तैः कल्पयेत्सम्यक् संकल्पः कर्मपावन'

४६ सिद्धान्तरहस्यम् । इति वाक्याच्च स्वस्य भगवदाज्ञाकारित्वं श्रौतस्मार्तकर्मणां भगवदाज्ञाप्राप्तत्वं चानुसन्धाय, विष्णुधर्मोत्तरे शंकरगीतासु 'अपृष्ट्वा यस्तु यां काञ्चित्क्रियां नारभते हरिम् । असंभिन्ना- र्थ मर्यादस्तस्य तुष्यति केशव' इति वाक्यात्स्वधर्मत्वाच्च तत्करणार्थं भगवद्विज्ञप्तिं कृत्वा तत्संभारान् संभृत्य कर्मकरणार्थं पुनराज्ञां प्रार्थ्य महापाकादेः समर्पयितुमशक्यत्वान्मनसा वाचा च समर्पणं कुर्यात् । श्राद्धार्थे स्वल्पे पाके तु प्रत्यक्षवस्तूनां सिद्धानामेव समर्पणं कुर्यात् । एवं लौकिकेपि पूर्वं कृत्वा पश्चात्तत्तत्कार्यं कुर्यादिति । न च विज्ञापने समर्पणव्यव- हाराभावान्नैवमिति शङ्क्यम् । विज्ञापनं विशेषेण ज्ञापनमर्थस्य सम्यग्बोधनमिति यावत् । तत्र तु प्रयोगो दृश्यते । समर्पकमिदं वाक्यम्, असमर्पकोयं शब्द इति विदुषां व्यवहारात् । एतस्य च सम्यग्बोधन एव पर्यवसानात् । एवं निवेदनपदेपि बोध्यम् । 'निवेदितोज्झिरसे'त्यादौ तथा दर्शनादिति । ननु भवत्वेवमुक्तरीत्या सर्वसमर्पणे दोषाभावः, तथापि 'भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भििरादृते'त्युद्धवप्रश्ने, भगवता यदा 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्या- दिना भक्तिमार्ग उपदिष्टः, तत्र 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मित्याज्ञप्तम्, तदकरणादाज्ञाभङ्गदोषः कथं निरसनीय इत्यतस्तदनूद्य तद्विषयव्यवस्थामाहुः दत्तापहारे- त्यादि । दत्तस्य भगवते समर्पितस्य अपहारः, पुनर्जीवोपयोगाय ग्रहणमुच्यते, निषिद्धतया कथ्यते यस्मिन्, तद्दत्तापहारवचनम्, 'अपि दीपावलोकम्' इत्यादिजातीयकं वाक्यं भक्ति- मार्गोपदेशे वर्तत इति शेषः । तथा च हरेः सम्बन्धिसकलं सर्वं समर्प्यापि न ग्राह्यमि- त्येवमर्थकं भिन्नमार्गपरं विवक्षितभक्तिमार्गादन्यमार्गविषयं मतं विचारितम् । अयमर्थः । इदं हि वाक्यमेकादशाध्याये भगवति निश्चलमनोधारणाशक्तौ 'यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चल'मित्यादिना तदनुकल्पकथने या भक्तिरुपासनशेषत्वेनोक्ता, तत्प्रकार उद्धवेन पृष्टे, 'मल्लिङ्गमद्भक्तजने'त्याद्यष्टभिस्तन्मार्ग उपदिष्टस्तेषु वर्तते । तत्र च यथा स्वलिङ्गदर्शनादयो धर्माः पृथगुक्ताः, तथा वैदिकी तान्त्रिकी दीक्षापि पृथगुक्ता, सा नास्मिन्मार्गे, भक्तिमार्गीयोपदेशस्यात्र विवक्षितत्वात् । तथा दास्येनात्मनिवेदनमपि तथोक्तम्, तदपि नात्र पृथग्धर्मत्वेन । अधिकाररूपतया तस्यात्र पूर्वं विवक्षितत्वात् । तथाग्रे 'सूर्योऽग्निर्ब्राह्मणा गाव'इत्यादिना पूजास्थानान्येकादश निर्दिष्टानि । समाप्तौ च 'इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवये'ति तथा कृतौ भक्तिलाभः, तया स्वस्मृतिः फलत्वेनोक्ता । विवक्षितो मार्गस्तु 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखे'ति सुगोप्यकथनं प्रतिज्ञाय, ततो द्वादशाध्याये तां भक्तिमुक्त्वा, ततोग्रे षडध्याय्या अन्यदपि तत्प्रश्नानुसारेणोक्त्वा, पश्चादूनविंशे 'आख्याहि विश्वेश्वर विश्वमूर्ते', 'त्वद्भक्तियोगं च महद्विमृग्य'मिति महदभिलषितभक्तिप्रश्ने पुनस्तेन कृते, भगवता 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मिति द्वादशाध्यायोक्तां भक्तिं परामृश्य, तत्परमकारणत्वेन कथितार्थपुनरावृत्तिं प्रतिज्ञाय, 'श्रद्धामृतकथायां मे' इत्यादिभिश्चतुर्भिरुक्त्वा, 'एवं धर्मैर्मनुष्याणामुद्धवात्म-

निवेदिनाम्। मयि संजायते भक्तिः कोऽन्योऽर्थोस्यावशिष्यत' इति पञ्चमे पूर्वोक्तभक्तिप्राप्त्या पुरुषार्थसमाप्तिमुक्त्वा, समाप्यते। अतोधिकारभेदात्साधनभेदात्फलभेदाच्च भक्तिमार्गयोर्भेदे सिद्धे दत्तापहारबोधकं वाक्यं यत्रोक्तम्, तत्तज्जातीयपरमेव, नैतन्मार्गपरम्, अतो नात्र समर्पितस्य पुनः समर्प्यग्रहणे आज्ञाभङ्गदोषो वाक्यविरोधो वेति बोध्यम्। ननु भवत्वेवं वाक्यविरोधपरिहारादिकम्, तथापि सर्वकार्यादौ सर्ववस्तुसमर्पण- मसमर्पितवस्तूनां वर्जनाचरणं च यदुक्तम्, तदशक्योपदेशरूपम्। न हि सर्वाणि कार्याणि पूर्वं ज्ञातुं शक्यन्ते। ज्वरादिपथ्यत्वेन वैद्यैस्तदानीं देयत्वेनोक्तस्य पूर्वं ज्ञातुमशक्यत्वात्। तथा केनचिद्दासेन सम्बन्धिना वा शिष्येण वा इष्येन वा सविनयं बलादिना वा स्वगृहे भोजने वस्त्रालङ्कारादेर्वा दाने तत्र तत्कर्तुमशक्यत्वेन असमर्पितवर्जनस्य कर्तुमशक्यत्वात्। तथा सति कथं तत्र स्वधर्मनिर्वाह इत्यत आहुः सेवकानामित्यादि। सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥७॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः। सेवन्ते ये ते सेवकाः सेवाकर्तार इति यावत्। यथा लोके तेषां व्यवहारः प्रसिद्धोस्ति, तथा समर्प्यैव कार्यम्। निष्कपटसेवकाः स्वगुरुं वा स्वप्रभुं वा कार्यात् पूर्वं पश्चाद्वा कचि- त्कालद्वयेपि वा विज्ञापयन्तीति तथा समर्प्य व्यवहरणीयम्। विज्ञापनेपि समर्पणपदप्रयोगस्य साधितत्वात्। किञ्च। गुणसन्निपातरूपो मनोमात्रेन्द्रियासुव्यापारो हि व्यवहारः। स यथा सेवकानां प्रसिध्यति संपद्यते, तथा समर्प्यैव कार्यम्। 'उद्यतस्य हि कामस्य प्रतिवादो न शक्यते। अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुन'रिति वाक्यात्कामः प्रतिवदितुमशक्यः। तथा च स्वस्य किञ्चिद्वस्तुबुभुक्षोत्पत्तौ प्रभवे विज्ञाप्य, तत्कृत्वा समर्प्य, पश्चाद्भोक्तव्यम्। 'यद्यदि- ष्टतमं लोके यच्चापि प्रियमात्मनः। तत्तन्निवेदयेन् मह्यं तदानन्त्याय कल्पत'इत्येकादशस्कन्धे सदादृतभक्तिकथने भगद्वाक्यात्। एवं स्वाशक्त्या सर्वपाककरणाशक्तौ स्वार्थं जातिकुल- मर्यादानिर्वाहाय तावन्मात्रपाकं कृत्वा समर्पणेपि न दोषः। लोकव्यवहारस्य तथैव सिद्धेः। एतावान्परं विशेषो यदूनविंशाध्याये भक्तिपरमकारणत्वेनात्मनिवेदिनां ये धर्मा उक्ताः 'श्रद्धामृतकथायां म'इत्यादिना सार्धैश्चतुर्भिः, तत्र सर्वकामविवर्जनस्य भगवदर्थे तद्विरोधि- नामर्थभोगसुखानां परित्यागस्य च कथनात्तद्विरुद्धमिदं मुख्यसाधनकक्षां नारोहति, तस्मादेवं कुर्वता 'जुषमाणश्च तान्कामा'निति न्यायेन ग्लानिः स्थाप्या, 'अशक्ये वा सुशक्ये वा सर्वथा शरणं हरि'रिति च भावनीयम्। अङ्कुशवज्रयुक्तं चरणं च ध्यातव्यम्। येनायं मनोदोषः सः शीघ्रं निवर्तेत इति प्रसङ्गादुक्तम्। न च समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वानुशासनादत्र समर्प्येति प्रयोगेण कार्यात्पूर्वकालिकत्वं समर्पणस्य लभ्यत इति कथं पश्चादित्युक्यत इति शङ्क्यम्। अत्र सेवकीयलोकव्यवहारवद्भगवत्सेवकव्यवहार- सिद्ध्यर्थं तथाकरणस्य विधेयत्वेन समर्प्येत्यस्य कार्यविशेषणतामात्रे तात्पर्यण अनूदित- तया कालबोधने तात्पर्याभावात्। अन्यथा सर्वादौ समर्पणवाक्येनैव सर्वकार्य-

४८ सिद्धान्तरहस्यम् । पूर्वकाले समर्पणस्य प्राप्तत्वेन तदनुवादवैय्यर्थ्यप्रसङ्गादिति । अतो न कश्चिद्दोषः । एवं सर्वदोषनिवृत्तिस्वरूपं पुनस्तदनुत्पत्त्युपायं पाश्चात्यसमर्पणक्रियादोषराहित्यप्रकारं विरुद्धवाक्यव्यवस्थाया आज्ञानिर्वाहप्रकारं व्यवहारानुरोधेपि दोषासम्भवप्रकारं चोपद्दिश्य तत्फलमाहुः सर्वेषां ब्रह्मता तत इति । तच्छब्दः पूर्वोक्तं साधनसमूहं परामृशति । तथा च तत उक्तरीत्या ब्रह्मसम्बन्धमारभ्य साधनकरणात्सर्वेषामात्मनिवेदिनां ब्रह्मता दोषराहित्यं सर्वत्र साम्यं च भवति । 'निर्दोषं हि समं ब्रह्मे'ति ब्रह्मणस्तादृशत्वात् तदाज्ञायामप्रमादात्तथा भवतीति कलिप्रभृतिदोषाणां तेष्वभावात्तत्कृतसेवायांः प्रभुणाङ्गी- कारे सुखेन फलवत्त्वमित्यर्थः ॥ ७३ ॥ एवं सर्वदोषनिवृत्त्युपायमुपदिश्य, दोषाणां स्वरूपतो विद्यमानत्वे तेषां सेवायाम- प्रतिबन्धकत्वं न सम्यगवगन्तुं शक्यम्, तथा सत्यविश्वासे संशये वा जघन्याधिकारिणां पुनः सर्वनाशापत्तिरिति तन्निवारणार्थं सिंहावलोकनेन पूर्वं परामृशन्तो दृष्टान्तमुखेन तद्दोषनिवृत्त्यवगमोपायमाहुः गङ्गात्वमित्यादि । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८३ ॥ अत्राग्रे दार्ष्टान्तिकवाक्ये तद्वदिति पदात्पूर्वस्मिन् वाक्ये यद्वदिति यथेति वाध्या- हारः । तथा च गङ्गामिलितानां सर्वदोषाणां रथ्योदकादीनां यथा गङ्गात्वम्, गङ्गाया भूयस्त्वात् । यथा च गङ्गात्वे तदितरगुणदोषयोर्मद्विशेषस्य च वर्णना न निरूप्या, सर्वेपि हि गङ्गाजलं पीतम्, गङ्गायां स्नातम्, तेन ममायं ज्वरादिनिवृत्त इत्येव वदन्ति, ज्वराद्यभावं चानुभवन्ति, न तु रथ्योदकादिपानस्नानगुणदोषान्। हि निश्चयेन । अत्रापि ब्रह्मसम्बन्धकरणेपि उक्तरीत्या भगवदीयत्वस्य, चकाराद्भगवदनुसंधानादेश्च बाहुल्यात् तद्वदेव गङ्गासंपृक्तसर्वदोषवदेव पूर्वोक्तपञ्चविधदोषवर्णना न निरूप्या स्यात् । तथा चैवं तेषां स्वरूपतो विद्यमानत्वे ज्ञायमानत्वे अज्ञायमानत्वे वा गङ्गायां तेषामिवैतेषामपि दोषाणां स्वरूपनाश एवेति जघन्याधिकारिभिरप्येवमवगत्य स्वात्मा संरक्षणीयः । श्रुतौ सूत्रेषु च तत्क्रतुन्यायस्य सिद्धत्वात् सर्वदा सर्वत्र भगवदीयत्वानुसन्धानेन भगवदीयत्व- स्यैव सिद्धेरित्यर्थः । इदमत्र प्राचामनुसारेण व्याख्यातम् । मम त्वन्यदपि किञ्चिदत्र प्रतिभाति । यदि ह्येतावन्मात्रमेवात्राभिप्रेतं स्यात्, तदा 'न मन्तव्याः कथञ्चने'त्येतदुक्त्वा 'गङ्गात्व'मित्यादि वदेयुः । तत्रानुक्त्वा 'सर्वेषां ब्रह्मता तत' इति फलकथनोत्तरं यदुक्तम्, तेन फलबोधकताप्यभिप्रेतेति । तथा चात्र पूर्वं ब्रह्मसम्बन्धेन दोषनिवृत्तिमुक्त्वा, अग्रे भाविदोषासंसर्गार्थं यत्समर्पणं भगवद्धर्मानुरोधि- लौकिकव्यवहारानुरोधिभेदेन द्विविधमुक्तम्, तत्राद्यकरणे ब्रह्मतारूपं फलम्, द्वितीय- करणे तु गङ्गासम्पृक्तदोषाणामिवैतदोषाणां निवृत्तिमात्रम् । तेन सेवाफलग्रन्थोक्तमध्यम-

श्रीगिरिधरकृतविवृतिसमेतम् । ४९ जघन्यफलोपयोगि सेवोपकारकत्वं क्रमेण सिध्यतीति । तेन मार्गान्तरे या दोषनिवृत्तिः साधनान्तरमपेक्षते, सात्र सेवाधिकारसम्पादकसंस्कारस्यानुषङ्गिकं फलमित्यतोऽस्य सिद्धान्त- रहस्यत्वमिति च । एवं प्रभुप्रेरणया विभातं यन्मे तदुक्तं नहि तत्स्वबुद्ध्या । अतः स्वदासे करुणां वितन्वन् स एव मत्स्वान्तमलङ्करोतु ॥ १ ॥ यदत्र सदसद्वापि जीवबुद्ध्योदितं क्वचित् । क्षमन्त्वाचार्यचरणास्तं मे मन्तुं कृपालवः ॥ इति श्रीमद्वल्लभाचार्यचरणैकतानपीताम्बरात्मजपुरुषोत्तमविरचितं सिद्धान्तरहस्यविवरणं सम्पूर्णम् । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीगिरिधरकृतविवृतिसमेतम् । स्वीयजीवानुदिधीर्षुः स्वयमाज्ञापयद्धरिः । साक्षाद्यं तमहं वन्दे श्रीवल्लभविभुं सदा ॥ १ ॥ तदाज्ञानन्तरं श्रीमदाचार्यैर्निरूपितम् । तद्वचोविवृतिं कर्तुमारभे तत्प्रसादतः ॥ २ ॥ अथ श्रीमद्वृन्दावनचन्द्रः स्वस्य रासादिक्रीडारूपमलौकिकमनुभावं प्रकटयितु- मिच्छन् स्वमुखारविन्दाधिष्ठात्रलौकिकार्थिखलीलाक्रान्तसर्वश्रीवल्लभाचार्यरूपेण प्रकटी- कृत्य स्वाभिलषितशुद्धपुष्टिमार्गं प्रकटयितुमाज्ञामदात्, ततस्तदाज्ञया एवार्थं निरूपयन्तः श्रीवल्लभाचार्यचरणाः पद्यबन्धेन तमर्थं सपूर्वपीठिकं निरूपयितुं प्रतिजानते श्रावणस्यामले पक्ष इति । श्रावणस्यामले पक्ष एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रवणर्क्षस्य विष्णुदैवत्येन तदुपलक्षितमासस्यापि तथात्वमेवास्तीति स्वयमपि सर्वो- त्तमं वैष्णवमार्गमेव प्रकटयितुमुद्यत इति च विचिन्त्य तद्देवताक एव मासे भगवानाचा- र्यानाज्ञापयदिति तस्यैव ग्रहणम् । तस्यामले मलरहिते सर्वदोषविवर्जिते पक्षे शुक्लपक्ष इति यावत्, तस्मिन् । एकादश्यां विष्णुदैवत्यामेव तिथौ । महानिशि अर्धरात्रे पुष्टि- मार्गोपदेशान्मर्यादाविरुद्धे स्वभक्तैः सह निःशङ्कतया यो निरवध्यानन्दानुभवस्तदाधारभूते पुष्टिरूपे समये । तदा तादृग्भूतेनैव भगवता साक्षादव्यवधानेन । अथवा । साक्षाद्भग- वतान्निरावरणपूर्णपुरुषोत्तमस्तेन । प्रकर्षेण परमकृपापूर्वकं यदुक्तं तदक्षरशः प्रत्यक्षरार्थ-

५० सिद्धान्तरहस्यम् । पूर्वसमुच्यत इत्यर्थः । किञ्च । अत्र श्रावणमासोक्त्यां ऋतुराप वर्षाख्य उक्तो भवति । तस्यायमाशयः । वर्षर्तोः सर्वरसोत्पादकत्वान्निदाघतप्तस्थिरचरतापापहारकत्वादिसद्धर्मवत्त्वा- दत्रोपदिष्टमार्गस्यापि भगवत्सम्बन्धिसर्वरसोत्पादकत्वं सर्वतापापहारकत्वादिकत्वं च सूचितं भवतीति ॥ १ ॥ एवं पूर्वपीठिकामुक्त्वा भगवदुक्तपदार्थमाहुः ब्रह्मेति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ अस्मिन्मार्गे यशोदोत्सङ्गलालित श्रीकृष्णस्यैवोपास्यत्वात् तस्य चाज्ञलोके अवता- रमात्राभ्रमत्वादत्र तद्व्यावृत्त्यर्थं ब्रह्मपदोपादानम् । अथवा । भगवद्वाक्यार्थकथनाद्वेदे इवा- त्रापि ब्रह्मपदम् । तथा च तेन ब्रह्मणा सह देहजीवयोर्यः सम्बन्धः स्वमार्गीयनिवेदनेन तदीयत्वसम्पादनलक्षणस्तत्करणात्सर्वेषां दैवजीवमात्राणां सर्वदोषनिवृत्तिर्भवति । सर्वपदेन देहजीवयोस्तद्धर्मीणां तत्र तत्सम्बन्धिनां च सर्वेषां सम्बन्धिनां यावन्तो दोषास्तेषां सर्वेषां निवृत्तिर्भवति । लापनिका तु, देहजीवयोर्ब्रह्मसम्बन्धकरणात् सर्वेषां तद्धर्मीणां तत्सम्बन्धिनां च सर्वदोषनिवृत्तिर्भवति । यद्वा । सर्वेषामैहिकामुष्मिक- पदार्थमात्राणां देहजीवयोश्च तत्सम्बन्धे सत्येतत्सर्वगतसर्वदोषनिवृत्तिर्भवति । शेषमुभय- त्रापि पूर्ववत् । हीति युक्तोयमर्थः । यद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्ति- र्भवति, नान्यथापीति । ननु अत्र निवेदनशब्दवाच्या किंरूपा भक्तिरुच्यते, दानापर- पर्याया वा, काचिदन्यैव वा । तत्र नाद्या, 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तर' मित्या- दिवचनविरोधात् । नह्येकस्मै देवाय दत्तं वस्तु पुनः तदेवान्यस्मै दातुं शक्यमुचितं वा, तत्र स्वीयत्वाभावात् । स्वीयवस्तुन एव हि दानार्हत्वात् । न द्वितीयः । मानाभावात् । नहि पूर्वोक्तान्निवेदनरूपाद्भिन्नं रूपं कुत्रापि प्रमाणसिद्धमस्ति । अतो विचार्यमाणे तदी- यत्वसम्पादनरूपैव सेति पर्यवस्यति । किञ्च । त्वयापि 'यश्चात्मानं निवेदये'दित्यादि- स्थलेष्वयमेवार्थोऽस्य शब्दस्य वक्तव्यः, अर्थान्तरकल्पनाया अनिर्वाहात् । एवं च सति निवेदनाख्यभक्त्या स्वात्मादिसकलपदार्थमात्रस्य भगवदीयत्वसम्पत्तिर्भवतीति निःप्रत्यूहम- वेहि । अथ निवेदनस्यावश्यकर्तव्यताकत्वमुक्तमेकादशे । 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोस्यावशिष्यत' इति । इयं तु भक्तिः प्रेमलक्षणा फलरूपेति बोध्यम् । अन्यच्च तत्रैव । 'मर्त्यो यदा त्यक्तसमस्तधर्मा निवेदितात्मा विचिकित्सितो मे । तदामृतत्वं प्रति- पद्यमानो मयात्मभूयाय च कल्पते वै' इत्यादिभिः । किञ्च । भगवद्भक्तेर्बहुविधत्वेपि श्रवणादिनवविधाया एव मुख्यत्वेन प्रेमलक्षणासाधनत्वेन सर्वत्र प्रसिद्धेर्निवेदनाकरणे तस्या नवविधत्वाभावादपूर्णसाधनरूपायास्तस्या न पूर्णफलजनकत्वं भवतीति तत्करण- स्यावश्यकत्वम् । अत एव श्रीमत्प्रभुचरणैरप्युक्तं नवरत्नप्रकाशे 'आत्मनिवेदिनो हि भगवद्भजनार्हाः, नेतर' इति । ननु देहादीनां समर्पणं तेन च शुद्धिरित्यस्तु नाम, युक्ति-

[शीर्षक:] श्रीगिरिधरकृतविवृतिसमेतम् । ५१

सहत्वात् । किन्तु जीवात्मादिसमर्पणं, तत्रापि स्वस्यैव समर्पकत्वं, तेन च शुद्धिरिति कथ- मुपपत्तिप्रमाणाभ्यामुपपद्यत इति चेत्, तत्र वदामः । इत्थम् । यथा वेदोक्तमर्यादामार्गेपि कर्मकाण्डे विरजाहोमे 'जीवात्मा मे विशुद्ध्यन्ताम् । परमात्मा मे शुद्ध्यन्ता'मित्यादिभिर्जी- वात्मादीनां शोधनम्, तत्रापि स्वस्यैव कर्तृत्वम्, तेन च शुद्धिरपि भवतीत्यादि विधी- यते । ज्ञानकाण्डे तु पुनर्महावाक्येन जीवस्य ब्रह्मैक्यबोधनं तेन च तस्य तदुपपत्तिरित्यपि तैरूच्यते । तथैवास्मिन्नपि मार्गे । तथाहि 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'त्यादिवाक्यैर्भगवदीयानामितरशोधनप्रकार- निषेधा'द्यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्त'मित्यादिभिर्भक्तेर्नवविधायाः शोधकत्वेनोक्तत्वाच्चायमे- वात्र शोधनप्रकार इति तथैवात्र निरूपितमिति सर्वमवदातम् । एवं च सति देहजीवयो- रित्यत्र जीवपदेनात्मत्वाविशेषात्परमात्मादयोपि संगृह्यन्ते । अतस्तेषामपि समर्पणं भवत्ये- वेति युक्तमेव । यतः पुरुषोत्तमस्तु लोकवेदातीतः सर्वेश्वरः सर्वोपास्यः सर्वपरश्च । जीवा- स्तदनतीता अनीश्वरा उपासका अवराश्चेति तस्मिन्नेतेषां समर्पणं युक्तमेवेति सारम् । अथ तत्र दोषाः कियत्प्रकारास्सन्ति इत्याकाङ्क्षायामाहुः दोषाः पञ्चविधा इति । पञ्चप्रकारका दोषाः स्मृताः श्रुतिस्मृत्यादिषु कथिता इत्यर्थः । पाठान्तरे मताः सम्मताः । तानेव पञ्चविधान् गणयन्ति सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः। संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । तत्र देहस्य सहजदोषाः कुण्डगोलकत्वादयः । म्लेच्छत्वचाण्डालत्वादयश्च । जीवस्य तु 'जीवाः स्वभावतो दुष्टा' इति वचनात्तदीयः सहजः स्वभावः स्वतःसिद्धभगवद्वियोगजनि- तार्त्यादिभगवदानन्दतिरोभावरूपः। यतः श्रुतिस्मृत्यादिषु सर्वोपास्यत्वादिधर्मवत्त्वेन श्रुत- स्यापि भगवतो भजनदर्शनादावार्त्याद्यभावः सहजो दोष एव भवति । अथवा । आसुरावेशित्वा- दिकं च जीवस्य सहजो दोषः इत्यादिमाः । द्वितीयानाहुः देशकालोत्था इति । देशो मगधम्लेच्छादिः, तदुत्थाः, कालः कल्पादिरूपस्तदुत्थाः । देशकालयोः प्रायो बहुस्थले सहभावो दृश्यत इत्यनयोरेकरूपता । द्वितीयप्रकारादारभ्य सर्वे दोषाः देहग्रहणानन्तरमेवो- त्पद्यन्त इति ते देहजीवयोः समा एवेति न पृथगुच्यन्ते । तृतीयानाहुः लोकवेदनिरू- पिता इति । लोके परजातीयसिद्धान्नभक्षणादिर्दोषत्वेनोच्यते, न परमार्थतः । एवंविधा लोकनिरूपिताः । अथवा । स्मृत्याद्युक्ताः लोकनिरूपिताः । वेदनिरूपिताः असंस्कृतत्वादयः, आश्रमभ्रष्टत्वादयश्च । अत एवानयोरेकप्रकारता । स्मृत्यादीनामपि वेदमूलकत्वात् । तुरीयानाहुः संयोगजा इति । संयोगः पतितादिसंसर्गः, नीचसेवकादिकं च । तज्जाः । पञ्चमानाहुः स्पर्शजाश्चेति । स्पर्शजा वातव्याधित्वादयः । अगम्यस्पर्शादयश्च । चका-

५२ सिद्धान्तरहस्यम् । रात् कर्मजा अपि कुष्ठापस्मारादयः । कामक्रोधादयो वा । अथवा । लोकवेदनिरूपिता इत्युक्तपञ्चविधानामपि विशेषणम् । पदार्थमात्रस्य लोकवेदनिरूपितत्वात्तद्योगात् । तदा पञ्चमप्रकारकाश्चकारोक्तकर्मजादयः, शेषं प्राग्वत् । एते पञ्चविधा अपि दोषाः पूर्वं तेषु तेषु विद्यमाना अपि निवेदनसमये तदनन्तरं च दैवात् कदाचित्तिष्ठेयुरपि चेत्तथापि कथंचन केनापि प्रकारेण न मन्तव्या न विचारणीया इत्यर्थः । ननु निवेदनकरणमा- त्रेण सहसैव सर्वदोषनिवृत्तिः कथं भवति ? अथ दृश्यते च न तन्निवृत्तिरिति चेत्, मैवम् । मूल एव न मन्तव्या इत्युक्तत्वात् । स्थिता अपि दोषा दोषत्वेन न गणनीया इत्यभि- प्रायेण । एतच्चाग्रे स्वयमेव विशदयिष्यन्ति गङ्गादृष्टान्तेन । अत्रेदमेव शुद्धिस্বরূপमिति सर्वं सुस्थम् । अत एव 'अपि चेत् सुदुराचारः' 'बाध्यमानोपि मद्भक्तः', 'मां हि पार्थ व्यपाश्रित्ये'त्यादि भगवतोक्तम् । 'किरातहूणान्ध्रे'त्यादि शुकेन । अन्यैरप्यन्यत्र बहुशः । ननु प्रायश्चित्तादिना पूर्वं तान्निवार्य पश्चाद्भगवत्सम्बन्धः कुतो न कार्य इति चेत्, तत्राहुः । अन्यथेत्यादि । अन्यथा भगवत्सम्बन्धव्यतिरेकेण सर्वप्रकाराणां दोषाणां कथञ्चन प्रायश्चित्तादिनापि निवृत्तिर्नैव भवति । एतदेवोक्तं षष्ठे । 'न तथा ह्यघवान् राजन् पूयते तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवये'त्यादिभिः । ननु स्वस्य निवेदनकरणानन्तरं स्वात्मना सह ये कलत्रपुत्रादयो निवेदिताः, तेषां पुनः पृथक् पृथक् निवेदनं करणीयं न वेत्याशङ्कायां समाधानं निवेदनान्तरं तस्य स्थिति- प्रकारं, प्रसङ्गात् प्राप्तं स्वरूपसेवाधिकरणं चेति त्रयमप्याहुः असमर्पितवस्तूनामिति । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न समर्पितं वस्तु यैस्ते असमर्पितवस्तवः तेषां वर्जनमाचरेत् । अत्रायामाशयः । यस्मात्स्वात्मना सह कलत्रादीनां निवेदने जातेपि 'सर्वेषां प्रभुसम्बन्धो न प्रत्येक'मिति वाक्यात्तेषामपि भगवत्सम्बन्धे पूर्वसिद्धेपि त एव निवेदिता जाताः, परं न तेषां सम्ब- न्धिवस्त्वाधिकम्, तत्त्वनिवेदितस्थितमिति तेऽसमर्पितवस्तवो जाताः । अतस्ते वर्जनीयाः । तादृशास्ते न स्थापनीयाः । किन्तु पृथक्पृथक् तेषां निवेदनं करणीयम्, यथा तेपि सम- र्पितवस्तवो भवन्तीत्यर्थः । यद्वा । यस्माद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्तिरतो ऽसमर्पितवस्तूनामनिवेदितात्मनामत एव सदोषाणां तेषां वर्जनं तत्सङ्गादिवर्जनमाचरेत् । तादृशां सङ्गादिकं न कुर्यात् । एतदेवोक्तं नवरत्ने । 'निवेदनं तु स्मर्त्तव्यं सर्वथा तादृशै- र्जनै'रिति । द्वितीयमर्थमाहुः असमर्पितेति । यस्मादुपायान्तरैर्न तन्निवृत्तिः, प्रत्युत स्वधर्म- हानिश्च, तस्मात् सर्वदोषनिवृत्त्यर्थं स्वधर्मसिद्धयर्थं भक्तैः परमकाष्ठापन्नदशाप्राप्त्यर्थं च भगवदसमर्पितवस्तुमात्रस्य स्वस्मिन् लौकिकवैदिकस्वकार्यमात्रे च विनियोगो न कार्यः, किन्तु समर्पितस्यैव वस्तुन इत्यर्थः । एतेन निवेदनानन्तरं तस्य भगवत्स्वरूपसेवापि कर्तव्यत्वेन सर्वथा प्राप्ता । अन्यथा प्रतिक्षणं तत्तद्वस्तुसमर्पणा सम्भवति । तृतीयः ।

श्रीगिरिधरकृतविवृतिसमेतम् । ५३ समर्पितकलत्रादिविनियोगे समर्पितवस्तुमात्रविनियोगे च निषेधमुक्त्वा समर्पितस्यैव ग्रहणं वदन्तस्तत्समर्पणे प्रकारमप्यापातत आहुः निवेदिभिरिति । सहेति शेषः । तथाच सद्यःकृतात्मनिवेदनः निवेदिभिः सह चिरात्कृतात्मनिवेदनैः सदभ्यस्तसकलसेवाप्रकारैः सह मिलित्वा तदुक्ततद्दर्शितप्रकारेण समर्प्यैव भगवति निवेद्यैव पश्चात् सर्वं कलत्रादीनां भगवत्सेवा दिविनियोगरूपं स्वार्थं च वस्तु विनियोगरूपं अन्यदपि लौकिकं वैदिकं च विवाहायागादिरूपं कार्यमात्रं कुर्यात् । इति स्थितिमार्गमर्यादा स्थितिपदेनेयमेव निश्चला भक्तिमार्गमर्यादा, नान्यापीति ज्ञाप्यते । किञ्च । निवेदिभिः सहेतिपदं सर्वं कुर्यादित्यनेनापि लापनीयम् । तथा च पूर्ववस्तुनो भगवति समर्पणे पश्चात्स्वविनियोगसमयेपि तैः सहभावः कार्य इत्यर्थः । एतेन सत्सङ्गदुःसङ्गयोर्विधिन्निषेधौ च तस्योक्तौ भवतः । अथ विस्तीर्णवस्त्रादिके तन्मध्यात् पूर्वं स्वार्थे स्थापयित्वा तदुद्वरितं किञ्चित् स्वल्पे स्वरूपे तावदेवापेक्षितमिति मत्वा तत्समर्पयितुमिच्छेन्नेत्याहुः न मतमिति । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । देवानांमपि देवस्य सर्वनियामकस्य सर्वोपास्यस्य सामिभुक्तसमर्पणं स्वेनान्यैर्वा यद्वस्तुमध्यात् पूर्वमुपभुक्तं भवति तदुद्वरितं वस्तु पश्चाद्भगवति निवेदयितुमिच्छेच्चेत्, तद्भगवतो मतं सम्मतं सिद्धान्तो वा न भवतीत्यर्थः । एवमन्नादिसर्वपदार्थेषु व्यवहर्त्तव्यम्। पुनरिममेवार्थं स्थूणाखननन्यायेन दृढयन्त आहुः तस्मादिति । यस्मात्कारणात् प्रकारा- न्तरेण व्यवहारे कृते, प्राक्कृतदोषाणामनिवृत्तिः, नूतनानां प्रत्युत प्रवृत्तिः, स्वधर्महा- निश्च, तस्मादादावेव सर्वकार्येषु तत्तत्कार्यं कर्तुमिच्छन् तत्तदुपयुक्तसर्ववस्तुनः समर्पणं कुर्यात् । एवं च सति नित्यनैमित्तिककार्यमात्रोपयुक्तवस्तुमात्रस्य पूर्वं यथायोग्यप्रकारेण भगवति विनियोगे जाते पश्चात्तद्दत्तप्रसादत्वेन स्वव्यवहारोपयोगः कर्तव्य इति सिद्धम् । ननु 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मिति भगवतैवोक्तत्वात् तन्निवेदना- नन्तरं तदेव वस्तु स्वयमुपभुञ्जीतेति कथमुच्येतेति चेत्तत्राहुः दत्तापहारवचनमिति । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । अत्र वचनं वाक्यमिति स्थलद्वयेप्येकवचनं जात्यभिप्रायेण । तत्र दत्तापहारव- चनानि 'त्वयि दीपावलोकं म' इत्यादीनि । तथाचान्यान्यपि सकलं वस्त्रमाल्यादिकं हरेः हरिसम्बन्धि हरये यन्निवेदितं तत्तदनन्तरं न ग्राह्यं, स्वयं न गृह्णीयादेवंबोधकानि अनि- वेदितश्राद्धादिबोधकानि च यानि वाक्यानि तानि सर्वाणि भिन्नमार्गपराणि वैधभक्तिमार्ग- पराणि । पूजारूपं कर्म तच्छेषतया या भक्तिस्तत्पराणि, न शुद्धभक्तिमार्गपराणि । अत एवंबोधकं वाक्यसहस्रं भिन्नमार्गपरं मतं सम्मतम् । तत्र पूजायाः कर्मत्वमुक्तमेकादशे 'कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते पर'मिति

५४ सिद्धान्तरहस्यम् ।

जनकेन पृष्ट आविर्होत्र उवाच। 'कर्माकर्मविकर्मे'त्यारभ्याग्रे 'य आशु हृदयग्रन्थि निर्जिहीर्षुः परात्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशव'मित्यादिप्रश्नोत्तरैः । अतस्तानि वाक्यानि तादृग्भक्तिपराणि इत्यत्रानवकाशपराहतानि इति सर्वथा नोपेक्षणीयानीत्यर्थः। अन्यथा 'त्वयो- पभुक्तस्रग्गन्ध', 'अम्बरीष नवं वस्त्रम्', 'विष्णोर्निवेदितान्नेन', 'मुकुन्दाशनशेषं तु' इत्या- दिवाक्यसहस्राण्यगतिकानि भवेयुः । चिरात् प्रदृश्यमानप्रागाचार्यचरणपरम्परा अप्य- प्रामाणिक्य एव च तिष्ठेरन् । नतु पूर्वोक्तमार्गेषु सङ्कल्पपूर्वकं वैधप्रकारेण निवेद्यत इति भक्तिमार्गे तन्निषेधो युक्त एव । अथैतन्मार्गीयैः केन प्रकारेण भगवद्वस्तुसमर्पणं कार्यमित्याकाङ्क्षायामाहुः सेवका- नामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । लोके ह्यस्मिन् सेवकानां व्यवहारः यथा प्रकर्षेण सिध्यति, तथा तेन प्रकारेण सर्वं समर्प्य सर्वं कार्यमात्रं कार्यं कर्तव्यमित्यर्थः । स व्यवहारो यथा सेवकैस्तु स्वप्रभोरग्रे सेवकभावेनैव सर्वं वस्तुसमर्पणं क्रियते, तथैव स्थीयते च, एवं व्यवहारो लोके प्रसिद्धो भवति । अयं भगवदग्रे सेवकभावेन सर्वं वस्तु समर्प्य तथैव च तिष्ठतीति भगवानप्येनं सेवकत्वेनैव मनुतेऽनुगृह्णाति च । एवं प्रकारकं ज्ञानं यथा सर्वलोकानां भवति, तथा सर्व- समर्पणं कार्यं तथैव स्थेयं च । अत्राप्ययमाशयः । यथा सेवको गृहदासस्तेन स्वीयं वस्तु- मात्रं पूर्वमेव स्वप्रभवे सर्वथा निवेद्यते, पश्चात् प्रभुणा स्वप्रसादत्वेन यद्दीयते तेनैव स्वोप- भोगः सर्वोपि क्रियत इति सर्वदा सर्वत्र दृश्यते श्रूयते च, तथैवानेनापि भगवदग्रे व्यवह- र्तव्यमिति दिक् । समर्पणग्रहणे प्रमाणवाक्यानि तु 'त्वयोपभुक्ते'त्यादीनि पूर्वमेवोक्तानि । ननु भगवान् पुरुषोत्तमत्वादलौकिक इति तस्मिन् सेवादिकरणमप्यलौकिकप्रकारेणैवोचित- मिति स्मृतिपुराणाद्युपदिष्टं सेवाप्रकारमनुक्त्वा लोकरीत्या सेवाकरणोपदेशे को हेतुरिति चेत् । न । अत्रोच्यते । स्मृत्याद्युक्तप्रकारास्तु विधिबोधिता इति तदधीनत्वात् तदधीनस्वरूपपर्य- वसायिन एव । अस्मिन् मार्गे तु पुरुषोत्तम एव भजनीय इति । तस्य च 'न रोधयति मां योगो,' 'नाहं वेदै'रित्यादिभिर्विध्यनधीनत्वादत्र वैधप्रकाराणामकिञ्चित्करत्वेन लोक- सिद्ध एव सः प्रदर्शित इत्यवधेयम् । तर्ह्यस्यापि मार्गस्य लौकिकत्वं भवतीति चेत् । न । 'लोकवल्लीलाकैवल्य'मित्युक्तेर्लोकवद्दृश्यमानापि सा भगवदीयकृतसेवा वस्तुसमर्पणादिरूपा भगवत्कृततत्स्वीकारतद्गताङ्गीकारादिरूपा चालौकिक्येव । यद्यपि 'न रोधयति मा'मित्या- दिभिर्भगवतो विध्यनधीनत्वमात्रं तूक्तमेव, तथापि तादृशसेवाप्रकारो नोक्त इति स प्रकारोत्र प्रदर्शितः । तर्ह्यस्य प्रकारस्यैव स्मृत्याद्यनुक्तत्वादमूलकत्वमिति चेत् । न । 'यदृच्छया तुष्यते हरि'रिति शूद्रवृत्तेरेव भगवत्तोषहेतुत्वमुक्तम् । यतः सा तु न वैधा, मन्त्राद्यधीना वा, तेषां तत्र नाधिकारात् । अत एतत्सर्वं विचार्यैवाचार्यैर्लोककृतसेवादृष्टान्त उक्त इति सर्वमवदातम् ।

दीक्षितलालूभट्टकृतटीकासमेतम् । ५५ ननु एवं कृतेऽग्रे तस्य किं फलं भवतीत्याकाङ्क्षायामाहुः सर्वेषामिति । ततस्तदनन्तरं पूर्वस्मिन् स्थितानां गुणानां दोषाणां च ब्रह्मता । भगवदीयत्वेन भगवद्रूपतैव भवति । भगवदी- यानां भगवद्रूपता तु भगवतैवोक्ता 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,' 'नोद्धवोऽण्वपि मन्न्यून' इत्यादि । तथात्वे जाते न तेषु पुनर्देाषत्वं, कदाचिदपि न तिष्ठतीति भावः। यथा कामादयो भगवति निवेदिताश्चेत्तदीया भूत्वा न पुनर्देाषत्वाय कल्पन्ते, किन्तु प्रत्युत सर्वलौकिकफलसाधकत्वायैवेति दिक् । तदुक्तम् । 'न मय्यावेशितधियां कामः कामाय कल्पते' 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वे'त्यादिभिः। ननु तथापि दोषाणां ब्रह्मरूपता प्रत्यक्षतया कुत्रापि दृष्टा नेति प्रत्यक्षवादिनां बहि- र्मुखानां शङ्कां परिहरन्तो गङ्गादृष्टान्तेन तमेवार्थं प्रत्यक्षं दर्शयन्त आहुः गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा प्रणालादिकुत्सितस्थानेभ्यो गङ्गायां समागतानां जलानां तद्गतदोषाणां च गङ्गा- त्वमेव सम्पद्यते, तदनन्तरं या तत्र गुणदोषादिवर्णना, कथनरूपा, सा संयोगानन्तरं तत्र गङ्गात्वे जाते निरूप्या कथनीया न स्यात् । अथवा । सा वर्णना यथा तदनन्तरं गङ्गात्वेनैव निरूप्या, कथनीया स्यात्, न क्वापि दोषत्वेन, तद्वदेवात्रापि भगवति सर्वस्व- निवेदनानन्तरं स्थितानामपि दोषाणां भगवदीयत्वमेवेति ज्ञात्वा तथैव कथनीयं करणीयं च, नान्यथा कथमपीति निगर्वः । इति श्रीविठ्ठलनाथचरणैकतानगिरिधरकृतौ सिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । दीक्षितश्रीलालूभट्टकृतटीकासमेतम् । श्रीमद्गोपतनितम्बनीमणिनिजप्राणप्रियानिर्मित- क्रीडाम्भोनिधिरासमण्डललसद्राकावधूनायकम् । कोटीन्दुद्युतिवन्दितं स्मरमनोहारित्विषानन्दितम् वन्दे वेदशिरःसमीडितगुणं गोवर्धनैशं प्रभुम् ॥ १ ॥ जयन्ति वल्लभाचार्यविठ्ठलेशाङ्घ्रिरेणवः । कुशलाः स्वीकृतस्वान्तमोहध्वान्तनिवारणे ॥ २ ॥ अथ श्रीमदाचार्यचरणाः पुष्टिमार्गीयजीवानां पुष्टिमार्गेऽङ्गीकारं चिकीर्षवः साक्षात् पुष्टिपुरुषोत्तममुखसरसीरुहोद्गतानि वाक्यानि स्वमात्रविषयीभूतानि भगवत्कृपापात्राणां निजोपदेशविषयकश्रद्धाधिक्यसम्पादनार्थं ग्रन्थरूपेण सङ्गतिपूर्वकं निरूपयन्ति श्राव-

५६ सिद्धान्तरहस्यम् । णस्यामले पक्ष इत्यादिना । श्रावणशुक्लैकादश्यामर्धरात्रसमये श्रीमदाचार्यान् प्रति पुष्टि- जीवोद्धारार्थं परमकाष्ठापन्नेन परब्रह्मणा श्रीकृष्णेन स्वयमाविर्भूयोपदेशः कृतः । स एवा- स्मिन् ग्रन्थे सर्वोपि विराजते । स एष प्रत्यहं विमृश्यमानो मार्गपद्धतिं प्रदर्शयत्यतो मयाचार्यवर्यकृपालब्धबोधेन तदर्थो निरूप्यते श्रावणस्येत्यादि । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणस्य वैष्णवत्वात् स गृहीतः । उपदिश्यमानमार्गस्य निर्मलतावोधनाय शुक्लपक्षः । अत एवामले पक्षे इत्यत्रामलपद्मुक्तम् । एकादश्या वैष्णवतित्थित्वात् सा गृहीता । अर्धरात्रसमयस्य पूर्णपुरुषोत्तमप्राकट्याधिकरणत्वात् तत्समये प्राकट्यम् । 'अथ सर्वगुणोपेत' इत्याद्यष्टभिः सार्धैः श्लोकैः समानसङ्ख्याकाः सार्धा अष्टौ श्लोकाः पूर्णपुरुषो- त्तमप्रादुर्भावसूचकाः । साक्षाद्भगवतेति । भगवान् परमकाष्ठापन्नः स्वयमेवाविर्भूयो- क्तवान्, न त्वंशेन कलया विभूतिरूपेणावेशरूपेण वेति ज्ञापकं साक्षात्पदम् । अथवा । साक्षात् पदस्य प्रोक्तमित्यनेनान्वयः । तथा च भगवता साक्षादेवोक्तम्, न तु दूतादि- द्वारा । न वा स्वप्नादिद्वारेति बोध्यते स्म । अक्षरश इति । भगवदुक्तस्यैकस्याप्यक्षर- स्यार्थो न त्यक्त इत्यर्थः । अथवा । श्लोकरूपेणैव भगवतोक्तमिति त एव श्लोका ब्रह्मस- म्बन्धकरणादित्यारभ्य तद्बदत्रापि चैव हीत्यन्ता अत्र ग्रन्थे धृताः । सङ्गत्यर्थं प्रथम- श्लोकः श्रीमदाचार्यैर्विरचित इति ज्ञातव्यम् । इदमत्राकूतम् । तृतीयस्कन्धनिबन्ध- विवृत्तौ भगवता प्रोक्तं यद्भगवदीया वदन्ति, तद्भागवतमिति निरूपितम् । अतः साक्षाद्भग- वता प्रोक्तमिदमिति भवत्यस्य भागवतत्वम् । तथा च यथा साक्षाद्भगवता चतुःश्लोकी- रूपं भागवतं ब्रह्मणे प्रोक्तम्, यथा वा मैत्रेयाय प्रोक्तम्, तस्य भागवतत्वम्, एवं श्रीमदाचार्यान् प्रति साक्षाद्भगवता प्रोक्तमिदमपि भागवतमेवेति ग्रन्थान्तरापेक्षया अस्य वैशिष्ट्यमनुसन्धेयम् । अत एव सिद्धान्तरहस्यमिति नामधेयमेतस्य । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धकरणादिति । ब्रह्मणा सह सम्बन्धः स्वस्वामिभावलक्षणो देहेन्द्रि- यप्राणान्तःकरणदारागारपुत्रादीनां आत्मनश्च तदीयत्वमिति यावत् । तस्य करणाद्ब्रह्म- सहितपञ्चाक्षरनिवेदनमन्त्रस्योपदेशेन स्फुटीकरणादित्यर्थः । यद्यपि जीवानां सहजहरि- दासत्वेन स्वस्वामिभावसम्बन्धः सिद्धोस्ति, तथापि संसारदशायां बहिर्मुख्येन विस्मृतः स एतेनोपदेशेन ह्याविर्भाव्यते । 'क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु'रित्यष्टमस्कन्धे विन्ध्यावलिवाक्यात् प्रपञ्चस्य सर्वस्यापि भगवत्क्रीडार्थं निर्मि- तत्वेन भगवदीयत्वात् प्रपञ्चान्तर्गतदेहादीनामपि भगवदीयत्वं वर्तत एव, तथापि 'स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु'रित्युक्त्या कुधीत्वप्रयुक्तो देहादावाहंममाभिमानः, स एतेन