षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 388, कुल 408 में से
संदर्भ में पढ़ें४८ सिद्धान्तरहस्यम् । पूर्वकाले समर्पणस्य प्राप्तत्वेन तदनुवादवैय्यर्थ्यप्रसङ्गादिति । अतो न कश्चिद्दोषः । एवं सर्वदोषनिवृत्तिस्वरूपं पुनस्तदनुत्पत्त्युपायं पाश्चात्यसमर्पणक्रियादोषराहित्यप्रकारं विरुद्धवाक्यव्यवस्थाया आज्ञानिर्वाहप्रकारं व्यवहारानुरोधेपि दोषासम्भवप्रकारं चोपद्दिश्य तत्फलमाहुः सर्वेषां ब्रह्मता तत इति । तच्छब्दः पूर्वोक्तं साधनसमूहं परामृशति । तथा च तत उक्तरीत्या ब्रह्मसम्बन्धमारभ्य साधनकरणात्सर्वेषामात्मनिवेदिनां ब्रह्मता दोषराहित्यं सर्वत्र साम्यं च भवति । 'निर्दोषं हि समं ब्रह्मे'ति ब्रह्मणस्तादृशत्वात् तदाज्ञायामप्रमादात्तथा भवतीति कलिप्रभृतिदोषाणां तेष्वभावात्तत्कृतसेवायांः प्रभुणाङ्गी- कारे सुखेन फलवत्त्वमित्यर्थः ॥ ७३ ॥ एवं सर्वदोषनिवृत्त्युपायमुपदिश्य, दोषाणां स्वरूपतो विद्यमानत्वे तेषां सेवायाम- प्रतिबन्धकत्वं न सम्यगवगन्तुं शक्यम्, तथा सत्यविश्वासे संशये वा जघन्याधिकारिणां पुनः सर्वनाशापत्तिरिति तन्निवारणार्थं सिंहावलोकनेन पूर्वं परामृशन्तो दृष्टान्तमुखेन तद्दोषनिवृत्त्यवगमोपायमाहुः गङ्गात्वमित्यादि । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८३ ॥ अत्राग्रे दार्ष्टान्तिकवाक्ये तद्वदिति पदात्पूर्वस्मिन् वाक्ये यद्वदिति यथेति वाध्या- हारः । तथा च गङ्गामिलितानां सर्वदोषाणां रथ्योदकादीनां यथा गङ्गात्वम्, गङ्गाया भूयस्त्वात् । यथा च गङ्गात्वे तदितरगुणदोषयोर्मद्विशेषस्य च वर्णना न निरूप्या, सर्वेपि हि गङ्गाजलं पीतम्, गङ्गायां स्नातम्, तेन ममायं ज्वरादिनिवृत्त इत्येव वदन्ति, ज्वराद्यभावं चानुभवन्ति, न तु रथ्योदकादिपानस्नानगुणदोषान्। हि निश्चयेन । अत्रापि ब्रह्मसम्बन्धकरणेपि उक्तरीत्या भगवदीयत्वस्य, चकाराद्भगवदनुसंधानादेश्च बाहुल्यात् तद्वदेव गङ्गासंपृक्तसर्वदोषवदेव पूर्वोक्तपञ्चविधदोषवर्णना न निरूप्या स्यात् । तथा चैवं तेषां स्वरूपतो विद्यमानत्वे ज्ञायमानत्वे अज्ञायमानत्वे वा गङ्गायां तेषामिवैतेषामपि दोषाणां स्वरूपनाश एवेति जघन्याधिकारिभिरप्येवमवगत्य स्वात्मा संरक्षणीयः । श्रुतौ सूत्रेषु च तत्क्रतुन्यायस्य सिद्धत्वात् सर्वदा सर्वत्र भगवदीयत्वानुसन्धानेन भगवदीयत्व- स्यैव सिद्धेरित्यर्थः । इदमत्र प्राचामनुसारेण व्याख्यातम् । मम त्वन्यदपि किञ्चिदत्र प्रतिभाति । यदि ह्येतावन्मात्रमेवात्राभिप्रेतं स्यात्, तदा 'न मन्तव्याः कथञ्चने'त्येतदुक्त्वा 'गङ्गात्व'मित्यादि वदेयुः । तत्रानुक्त्वा 'सर्वेषां ब्रह्मता तत' इति फलकथनोत्तरं यदुक्तम्, तेन फलबोधकताप्यभिप्रेतेति । तथा चात्र पूर्वं ब्रह्मसम्बन्धेन दोषनिवृत्तिमुक्त्वा, अग्रे भाविदोषासंसर्गार्थं यत्समर्पणं भगवद्धर्मानुरोधि- लौकिकव्यवहारानुरोधिभेदेन द्विविधमुक्तम्, तत्राद्यकरणे ब्रह्मतारूपं फलम्, द्वितीय- करणे तु गङ्गासम्पृक्तदोषाणामिवैतदोषाणां निवृत्तिमात्रम् । तेन सेवाफलग्रन्थोक्तमध्यम-