षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
४८ सिद्धान्तरहस्यम् । पूर्वकाले समर्पणस्य प्राप्तत्वेन तदनुवादवैय्यर्थ्यप्रसङ्गादिति । अतो न कश्चिद्दोषः । एवं सर्वदोषनिवृत्तिस्वरूपं पुनस्तदनुत्पत्त्युपायं पाश्चात्यसमर्पणक्रियादोषराहित्यप्रकारं विरुद्धवाक्यव्यवस्थाया आज्ञानिर्वाहप्रकारं व्यवहारानुरोधेपि दोषासम्भवप्रकारं चोपद्दिश्य तत्फलमाहुः सर्वेषां ब्रह्मता तत इति । तच्छब्दः पूर्वोक्तं साधनसमूहं परामृशति । तथा च तत उक्तरीत्या ब्रह्मसम्बन्धमारभ्य साधनकरणात्सर्वेषामात्मनिवेदिनां ब्रह्मता दोषराहित्यं सर्वत्र साम्यं च भवति । 'निर्दोषं हि समं ब्रह्मे'ति ब्रह्मणस्तादृशत्वात् तदाज्ञायामप्रमादात्तथा भवतीति कलिप्रभृतिदोषाणां तेष्वभावात्तत्कृतसेवायांः प्रभुणाङ्गी- कारे सुखेन फलवत्त्वमित्यर्थः ॥ ७३ ॥ एवं सर्वदोषनिवृत्त्युपायमुपदिश्य, दोषाणां स्वरूपतो विद्यमानत्वे तेषां सेवायाम- प्रतिबन्धकत्वं न सम्यगवगन्तुं शक्यम्, तथा सत्यविश्वासे संशये वा जघन्याधिकारिणां पुनः सर्वनाशापत्तिरिति तन्निवारणार्थं सिंहावलोकनेन पूर्वं परामृशन्तो दृष्टान्तमुखेन तद्दोषनिवृत्त्यवगमोपायमाहुः गङ्गात्वमित्यादि । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८३ ॥ अत्राग्रे दार्ष्टान्तिकवाक्ये तद्वदिति पदात्पूर्वस्मिन् वाक्ये यद्वदिति यथेति वाध्या- हारः । तथा च गङ्गामिलितानां सर्वदोषाणां रथ्योदकादीनां यथा गङ्गात्वम्, गङ्गाया भूयस्त्वात् । यथा च गङ्गात्वे तदितरगुणदोषयोर्मद्विशेषस्य च वर्णना न निरूप्या, सर्वेपि हि गङ्गाजलं पीतम्, गङ्गायां स्नातम्, तेन ममायं ज्वरादिनिवृत्त इत्येव वदन्ति, ज्वराद्यभावं चानुभवन्ति, न तु रथ्योदकादिपानस्नानगुणदोषान्। हि निश्चयेन । अत्रापि ब्रह्मसम्बन्धकरणेपि उक्तरीत्या भगवदीयत्वस्य, चकाराद्भगवदनुसंधानादेश्च बाहुल्यात् तद्वदेव गङ्गासंपृक्तसर्वदोषवदेव पूर्वोक्तपञ्चविधदोषवर्णना न निरूप्या स्यात् । तथा चैवं तेषां स्वरूपतो विद्यमानत्वे ज्ञायमानत्वे अज्ञायमानत्वे वा गङ्गायां तेषामिवैतेषामपि दोषाणां स्वरूपनाश एवेति जघन्याधिकारिभिरप्येवमवगत्य स्वात्मा संरक्षणीयः । श्रुतौ सूत्रेषु च तत्क्रतुन्यायस्य सिद्धत्वात् सर्वदा सर्वत्र भगवदीयत्वानुसन्धानेन भगवदीयत्व- स्यैव सिद्धेरित्यर्थः । इदमत्र प्राचामनुसारेण व्याख्यातम् । मम त्वन्यदपि किञ्चिदत्र प्रतिभाति । यदि ह्येतावन्मात्रमेवात्राभिप्रेतं स्यात्, तदा 'न मन्तव्याः कथञ्चने'त्येतदुक्त्वा 'गङ्गात्व'मित्यादि वदेयुः । तत्रानुक्त्वा 'सर्वेषां ब्रह्मता तत' इति फलकथनोत्तरं यदुक्तम्, तेन फलबोधकताप्यभिप्रेतेति । तथा चात्र पूर्वं ब्रह्मसम्बन्धेन दोषनिवृत्तिमुक्त्वा, अग्रे भाविदोषासंसर्गार्थं यत्समर्पणं भगवद्धर्मानुरोधि- लौकिकव्यवहारानुरोधिभेदेन द्विविधमुक्तम्, तत्राद्यकरणे ब्रह्मतारूपं फलम्, द्वितीय- करणे तु गङ्गासम्पृक्तदोषाणामिवैतदोषाणां निवृत्तिमात्रम् । तेन सेवाफलग्रन्थोक्तमध्यम-
श्रीगिरिधरकृतविवृतिसमेतम् । ४९ जघन्यफलोपयोगि सेवोपकारकत्वं क्रमेण सिध्यतीति । तेन मार्गान्तरे या दोषनिवृत्तिः साधनान्तरमपेक्षते, सात्र सेवाधिकारसम्पादकसंस्कारस्यानुषङ्गिकं फलमित्यतोऽस्य सिद्धान्त- रहस्यत्वमिति च । एवं प्रभुप्रेरणया विभातं यन्मे तदुक्तं नहि तत्स्वबुद्ध्या । अतः स्वदासे करुणां वितन्वन् स एव मत्स्वान्तमलङ्करोतु ॥ १ ॥ यदत्र सदसद्वापि जीवबुद्ध्योदितं क्वचित् । क्षमन्त्वाचार्यचरणास्तं मे मन्तुं कृपालवः ॥ इति श्रीमद्वल्लभाचार्यचरणैकतानपीताम्बरात्मजपुरुषोत्तमविरचितं सिद्धान्तरहस्यविवरणं सम्पूर्णम् । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीगिरिधरकृतविवृतिसमेतम् । स्वीयजीवानुदिधीर्षुः स्वयमाज्ञापयद्धरिः । साक्षाद्यं तमहं वन्दे श्रीवल्लभविभुं सदा ॥ १ ॥ तदाज्ञानन्तरं श्रीमदाचार्यैर्निरूपितम् । तद्वचोविवृतिं कर्तुमारभे तत्प्रसादतः ॥ २ ॥ अथ श्रीमद्वृन्दावनचन्द्रः स्वस्य रासादिक्रीडारूपमलौकिकमनुभावं प्रकटयितु- मिच्छन् स्वमुखारविन्दाधिष्ठात्रलौकिकार्थिखलीलाक्रान्तसर्वश्रीवल्लभाचार्यरूपेण प्रकटी- कृत्य स्वाभिलषितशुद्धपुष्टिमार्गं प्रकटयितुमाज्ञामदात्, ततस्तदाज्ञया एवार्थं निरूपयन्तः श्रीवल्लभाचार्यचरणाः पद्यबन्धेन तमर्थं सपूर्वपीठिकं निरूपयितुं प्रतिजानते श्रावणस्यामले पक्ष इति । श्रावणस्यामले पक्ष एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रवणर्क्षस्य विष्णुदैवत्येन तदुपलक्षितमासस्यापि तथात्वमेवास्तीति स्वयमपि सर्वो- त्तमं वैष्णवमार्गमेव प्रकटयितुमुद्यत इति च विचिन्त्य तद्देवताक एव मासे भगवानाचा- र्यानाज्ञापयदिति तस्यैव ग्रहणम् । तस्यामले मलरहिते सर्वदोषविवर्जिते पक्षे शुक्लपक्ष इति यावत्, तस्मिन् । एकादश्यां विष्णुदैवत्यामेव तिथौ । महानिशि अर्धरात्रे पुष्टि- मार्गोपदेशान्मर्यादाविरुद्धे स्वभक्तैः सह निःशङ्कतया यो निरवध्यानन्दानुभवस्तदाधारभूते पुष्टिरूपे समये । तदा तादृग्भूतेनैव भगवता साक्षादव्यवधानेन । अथवा । साक्षाद्भग- वतान्निरावरणपूर्णपुरुषोत्तमस्तेन । प्रकर्षेण परमकृपापूर्वकं यदुक्तं तदक्षरशः प्रत्यक्षरार्थ-
५० सिद्धान्तरहस्यम् । पूर्वसमुच्यत इत्यर्थः । किञ्च । अत्र श्रावणमासोक्त्यां ऋतुराप वर्षाख्य उक्तो भवति । तस्यायमाशयः । वर्षर्तोः सर्वरसोत्पादकत्वान्निदाघतप्तस्थिरचरतापापहारकत्वादिसद्धर्मवत्त्वा- दत्रोपदिष्टमार्गस्यापि भगवत्सम्बन्धिसर्वरसोत्पादकत्वं सर्वतापापहारकत्वादिकत्वं च सूचितं भवतीति ॥ १ ॥ एवं पूर्वपीठिकामुक्त्वा भगवदुक्तपदार्थमाहुः ब्रह्मेति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ अस्मिन्मार्गे यशोदोत्सङ्गलालित श्रीकृष्णस्यैवोपास्यत्वात् तस्य चाज्ञलोके अवता- रमात्राभ्रमत्वादत्र तद्व्यावृत्त्यर्थं ब्रह्मपदोपादानम् । अथवा । भगवद्वाक्यार्थकथनाद्वेदे इवा- त्रापि ब्रह्मपदम् । तथा च तेन ब्रह्मणा सह देहजीवयोर्यः सम्बन्धः स्वमार्गीयनिवेदनेन तदीयत्वसम्पादनलक्षणस्तत्करणात्सर्वेषां दैवजीवमात्राणां सर्वदोषनिवृत्तिर्भवति । सर्वपदेन देहजीवयोस्तद्धर्मीणां तत्र तत्सम्बन्धिनां च सर्वेषां सम्बन्धिनां यावन्तो दोषास्तेषां सर्वेषां निवृत्तिर्भवति । लापनिका तु, देहजीवयोर्ब्रह्मसम्बन्धकरणात् सर्वेषां तद्धर्मीणां तत्सम्बन्धिनां च सर्वदोषनिवृत्तिर्भवति । यद्वा । सर्वेषामैहिकामुष्मिक- पदार्थमात्राणां देहजीवयोश्च तत्सम्बन्धे सत्येतत्सर्वगतसर्वदोषनिवृत्तिर्भवति । शेषमुभय- त्रापि पूर्ववत् । हीति युक्तोयमर्थः । यद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्ति- र्भवति, नान्यथापीति । ननु अत्र निवेदनशब्दवाच्या किंरूपा भक्तिरुच्यते, दानापर- पर्याया वा, काचिदन्यैव वा । तत्र नाद्या, 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तर' मित्या- दिवचनविरोधात् । नह्येकस्मै देवाय दत्तं वस्तु पुनः तदेवान्यस्मै दातुं शक्यमुचितं वा, तत्र स्वीयत्वाभावात् । स्वीयवस्तुन एव हि दानार्हत्वात् । न द्वितीयः । मानाभावात् । नहि पूर्वोक्तान्निवेदनरूपाद्भिन्नं रूपं कुत्रापि प्रमाणसिद्धमस्ति । अतो विचार्यमाणे तदी- यत्वसम्पादनरूपैव सेति पर्यवस्यति । किञ्च । त्वयापि 'यश्चात्मानं निवेदये'दित्यादि- स्थलेष्वयमेवार्थोऽस्य शब्दस्य वक्तव्यः, अर्थान्तरकल्पनाया अनिर्वाहात् । एवं च सति निवेदनाख्यभक्त्या स्वात्मादिसकलपदार्थमात्रस्य भगवदीयत्वसम्पत्तिर्भवतीति निःप्रत्यूहम- वेहि । अथ निवेदनस्यावश्यकर्तव्यताकत्वमुक्तमेकादशे । 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोस्यावशिष्यत' इति । इयं तु भक्तिः प्रेमलक्षणा फलरूपेति बोध्यम् । अन्यच्च तत्रैव । 'मर्त्यो यदा त्यक्तसमस्तधर्मा निवेदितात्मा विचिकित्सितो मे । तदामृतत्वं प्रति- पद्यमानो मयात्मभूयाय च कल्पते वै' इत्यादिभिः । किञ्च । भगवद्भक्तेर्बहुविधत्वेपि श्रवणादिनवविधाया एव मुख्यत्वेन प्रेमलक्षणासाधनत्वेन सर्वत्र प्रसिद्धेर्निवेदनाकरणे तस्या नवविधत्वाभावादपूर्णसाधनरूपायास्तस्या न पूर्णफलजनकत्वं भवतीति तत्करण- स्यावश्यकत्वम् । अत एव श्रीमत्प्रभुचरणैरप्युक्तं नवरत्नप्रकाशे 'आत्मनिवेदिनो हि भगवद्भजनार्हाः, नेतर' इति । ननु देहादीनां समर्पणं तेन च शुद्धिरित्यस्तु नाम, युक्ति-
[शीर्षक:] श्रीगिरिधरकृतविवृतिसमेतम् । ५१
सहत्वात् । किन्तु जीवात्मादिसमर्पणं, तत्रापि स्वस्यैव समर्पकत्वं, तेन च शुद्धिरिति कथ- मुपपत्तिप्रमाणाभ्यामुपपद्यत इति चेत्, तत्र वदामः । इत्थम् । यथा वेदोक्तमर्यादामार्गेपि कर्मकाण्डे विरजाहोमे 'जीवात्मा मे विशुद्ध्यन्ताम् । परमात्मा मे शुद्ध्यन्ता'मित्यादिभिर्जी- वात्मादीनां शोधनम्, तत्रापि स्वस्यैव कर्तृत्वम्, तेन च शुद्धिरपि भवतीत्यादि विधी- यते । ज्ञानकाण्डे तु पुनर्महावाक्येन जीवस्य ब्रह्मैक्यबोधनं तेन च तस्य तदुपपत्तिरित्यपि तैरूच्यते । तथैवास्मिन्नपि मार्गे । तथाहि 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'त्यादिवाक्यैर्भगवदीयानामितरशोधनप्रकार- निषेधा'द्यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाञ्जनसम्प्रयुक्त'मित्यादिभिर्भक्तेर्नवविधायाः शोधकत्वेनोक्तत्वाच्चायमे- वात्र शोधनप्रकार इति तथैवात्र निरूपितमिति सर्वमवदातम् । एवं च सति देहजीवयो- रित्यत्र जीवपदेनात्मत्वाविशेषात्परमात्मादयोपि संगृह्यन्ते । अतस्तेषामपि समर्पणं भवत्ये- वेति युक्तमेव । यतः पुरुषोत्तमस्तु लोकवेदातीतः सर्वेश्वरः सर्वोपास्यः सर्वपरश्च । जीवा- स्तदनतीता अनीश्वरा उपासका अवराश्चेति तस्मिन्नेतेषां समर्पणं युक्तमेवेति सारम् । अथ तत्र दोषाः कियत्प्रकारास्सन्ति इत्याकाङ्क्षायामाहुः दोषाः पञ्चविधा इति । पञ्चप्रकारका दोषाः स्मृताः श्रुतिस्मृत्यादिषु कथिता इत्यर्थः । पाठान्तरे मताः सम्मताः । तानेव पञ्चविधान् गणयन्ति सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः। संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । तत्र देहस्य सहजदोषाः कुण्डगोलकत्वादयः । म्लेच्छत्वचाण्डालत्वादयश्च । जीवस्य तु 'जीवाः स्वभावतो दुष्टा' इति वचनात्तदीयः सहजः स्वभावः स्वतःसिद्धभगवद्वियोगजनि- तार्त्यादिभगवदानन्दतिरोभावरूपः। यतः श्रुतिस्मृत्यादिषु सर्वोपास्यत्वादिधर्मवत्त्वेन श्रुत- स्यापि भगवतो भजनदर्शनादावार्त्याद्यभावः सहजो दोष एव भवति । अथवा । आसुरावेशित्वा- दिकं च जीवस्य सहजो दोषः इत्यादिमाः । द्वितीयानाहुः देशकालोत्था इति । देशो मगधम्लेच्छादिः, तदुत्थाः, कालः कल्पादिरूपस्तदुत्थाः । देशकालयोः प्रायो बहुस्थले सहभावो दृश्यत इत्यनयोरेकरूपता । द्वितीयप्रकारादारभ्य सर्वे दोषाः देहग्रहणानन्तरमेवो- त्पद्यन्त इति ते देहजीवयोः समा एवेति न पृथगुच्यन्ते । तृतीयानाहुः लोकवेदनिरू- पिता इति । लोके परजातीयसिद्धान्नभक्षणादिर्दोषत्वेनोच्यते, न परमार्थतः । एवंविधा लोकनिरूपिताः । अथवा । स्मृत्याद्युक्ताः लोकनिरूपिताः । वेदनिरूपिताः असंस्कृतत्वादयः, आश्रमभ्रष्टत्वादयश्च । अत एवानयोरेकप्रकारता । स्मृत्यादीनामपि वेदमूलकत्वात् । तुरीयानाहुः संयोगजा इति । संयोगः पतितादिसंसर्गः, नीचसेवकादिकं च । तज्जाः । पञ्चमानाहुः स्पर्शजाश्चेति । स्पर्शजा वातव्याधित्वादयः । अगम्यस्पर्शादयश्च । चका-
५२ सिद्धान्तरहस्यम् । रात् कर्मजा अपि कुष्ठापस्मारादयः । कामक्रोधादयो वा । अथवा । लोकवेदनिरूपिता इत्युक्तपञ्चविधानामपि विशेषणम् । पदार्थमात्रस्य लोकवेदनिरूपितत्वात्तद्योगात् । तदा पञ्चमप्रकारकाश्चकारोक्तकर्मजादयः, शेषं प्राग्वत् । एते पञ्चविधा अपि दोषाः पूर्वं तेषु तेषु विद्यमाना अपि निवेदनसमये तदनन्तरं च दैवात् कदाचित्तिष्ठेयुरपि चेत्तथापि कथंचन केनापि प्रकारेण न मन्तव्या न विचारणीया इत्यर्थः । ननु निवेदनकरणमा- त्रेण सहसैव सर्वदोषनिवृत्तिः कथं भवति ? अथ दृश्यते च न तन्निवृत्तिरिति चेत्, मैवम् । मूल एव न मन्तव्या इत्युक्तत्वात् । स्थिता अपि दोषा दोषत्वेन न गणनीया इत्यभि- प्रायेण । एतच्चाग्रे स्वयमेव विशदयिष्यन्ति गङ्गादृष्टान्तेन । अत्रेदमेव शुद्धिस্বরূপमिति सर्वं सुस्थम् । अत एव 'अपि चेत् सुदुराचारः' 'बाध्यमानोपि मद्भक्तः', 'मां हि पार्थ व्यपाश्रित्ये'त्यादि भगवतोक्तम् । 'किरातहूणान्ध्रे'त्यादि शुकेन । अन्यैरप्यन्यत्र बहुशः । ननु प्रायश्चित्तादिना पूर्वं तान्निवार्य पश्चाद्भगवत्सम्बन्धः कुतो न कार्य इति चेत्, तत्राहुः । अन्यथेत्यादि । अन्यथा भगवत्सम्बन्धव्यतिरेकेण सर्वप्रकाराणां दोषाणां कथञ्चन प्रायश्चित्तादिनापि निवृत्तिर्नैव भवति । एतदेवोक्तं षष्ठे । 'न तथा ह्यघवान् राजन् पूयते तपआदिभिः । यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवये'त्यादिभिः । ननु स्वस्य निवेदनकरणानन्तरं स्वात्मना सह ये कलत्रपुत्रादयो निवेदिताः, तेषां पुनः पृथक् पृथक् निवेदनं करणीयं न वेत्याशङ्कायां समाधानं निवेदनान्तरं तस्य स्थिति- प्रकारं, प्रसङ्गात् प्राप्तं स्वरूपसेवाधिकरणं चेति त्रयमप्याहुः असमर्पितवस्तूनामिति । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न समर्पितं वस्तु यैस्ते असमर्पितवस्तवः तेषां वर्जनमाचरेत् । अत्रायामाशयः । यस्मात्स्वात्मना सह कलत्रादीनां निवेदने जातेपि 'सर्वेषां प्रभुसम्बन्धो न प्रत्येक'मिति वाक्यात्तेषामपि भगवत्सम्बन्धे पूर्वसिद्धेपि त एव निवेदिता जाताः, परं न तेषां सम्ब- न्धिवस्त्वाधिकम्, तत्त्वनिवेदितस्थितमिति तेऽसमर्पितवस्तवो जाताः । अतस्ते वर्जनीयाः । तादृशास्ते न स्थापनीयाः । किन्तु पृथक्पृथक् तेषां निवेदनं करणीयम्, यथा तेपि सम- र्पितवस्तवो भवन्तीत्यर्थः । यद्वा । यस्माद्भगवत्सम्बन्ध एव सति सर्वेषां सर्वदोषनिवृत्तिरतो ऽसमर्पितवस्तूनामनिवेदितात्मनामत एव सदोषाणां तेषां वर्जनं तत्सङ्गादिवर्जनमाचरेत् । तादृशां सङ्गादिकं न कुर्यात् । एतदेवोक्तं नवरत्ने । 'निवेदनं तु स्मर्त्तव्यं सर्वथा तादृशै- र्जनै'रिति । द्वितीयमर्थमाहुः असमर्पितेति । यस्मादुपायान्तरैर्न तन्निवृत्तिः, प्रत्युत स्वधर्म- हानिश्च, तस्मात् सर्वदोषनिवृत्त्यर्थं स्वधर्मसिद्धयर्थं भक्तैः परमकाष्ठापन्नदशाप्राप्त्यर्थं च भगवदसमर्पितवस्तुमात्रस्य स्वस्मिन् लौकिकवैदिकस्वकार्यमात्रे च विनियोगो न कार्यः, किन्तु समर्पितस्यैव वस्तुन इत्यर्थः । एतेन निवेदनानन्तरं तस्य भगवत्स्वरूपसेवापि कर्तव्यत्वेन सर्वथा प्राप्ता । अन्यथा प्रतिक्षणं तत्तद्वस्तुसमर्पणा सम्भवति । तृतीयः ।
श्रीगिरिधरकृतविवृतिसमेतम् । ५३ समर्पितकलत्रादिविनियोगे समर्पितवस्तुमात्रविनियोगे च निषेधमुक्त्वा समर्पितस्यैव ग्रहणं वदन्तस्तत्समर्पणे प्रकारमप्यापातत आहुः निवेदिभिरिति । सहेति शेषः । तथाच सद्यःकृतात्मनिवेदनः निवेदिभिः सह चिरात्कृतात्मनिवेदनैः सदभ्यस्तसकलसेवाप्रकारैः सह मिलित्वा तदुक्ततद्दर्शितप्रकारेण समर्प्यैव भगवति निवेद्यैव पश्चात् सर्वं कलत्रादीनां भगवत्सेवा दिविनियोगरूपं स्वार्थं च वस्तु विनियोगरूपं अन्यदपि लौकिकं वैदिकं च विवाहायागादिरूपं कार्यमात्रं कुर्यात् । इति स्थितिमार्गमर्यादा स्थितिपदेनेयमेव निश्चला भक्तिमार्गमर्यादा, नान्यापीति ज्ञाप्यते । किञ्च । निवेदिभिः सहेतिपदं सर्वं कुर्यादित्यनेनापि लापनीयम् । तथा च पूर्ववस्तुनो भगवति समर्पणे पश्चात्स्वविनियोगसमयेपि तैः सहभावः कार्य इत्यर्थः । एतेन सत्सङ्गदुःसङ्गयोर्विधिन्निषेधौ च तस्योक्तौ भवतः । अथ विस्तीर्णवस्त्रादिके तन्मध्यात् पूर्वं स्वार्थे स्थापयित्वा तदुद्वरितं किञ्चित् स्वल्पे स्वरूपे तावदेवापेक्षितमिति मत्वा तत्समर्पयितुमिच्छेन्नेत्याहुः न मतमिति । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । देवानांमपि देवस्य सर्वनियामकस्य सर्वोपास्यस्य सामिभुक्तसमर्पणं स्वेनान्यैर्वा यद्वस्तुमध्यात् पूर्वमुपभुक्तं भवति तदुद्वरितं वस्तु पश्चाद्भगवति निवेदयितुमिच्छेच्चेत्, तद्भगवतो मतं सम्मतं सिद्धान्तो वा न भवतीत्यर्थः । एवमन्नादिसर्वपदार्थेषु व्यवहर्त्तव्यम्। पुनरिममेवार्थं स्थूणाखननन्यायेन दृढयन्त आहुः तस्मादिति । यस्मात्कारणात् प्रकारा- न्तरेण व्यवहारे कृते, प्राक्कृतदोषाणामनिवृत्तिः, नूतनानां प्रत्युत प्रवृत्तिः, स्वधर्महा- निश्च, तस्मादादावेव सर्वकार्येषु तत्तत्कार्यं कर्तुमिच्छन् तत्तदुपयुक्तसर्ववस्तुनः समर्पणं कुर्यात् । एवं च सति नित्यनैमित्तिककार्यमात्रोपयुक्तवस्तुमात्रस्य पूर्वं यथायोग्यप्रकारेण भगवति विनियोगे जाते पश्चात्तद्दत्तप्रसादत्वेन स्वव्यवहारोपयोगः कर्तव्य इति सिद्धम् । ननु 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मिति भगवतैवोक्तत्वात् तन्निवेदना- नन्तरं तदेव वस्तु स्वयमुपभुञ्जीतेति कथमुच्येतेति चेत्तत्राहुः दत्तापहारवचनमिति । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । अत्र वचनं वाक्यमिति स्थलद्वयेप्येकवचनं जात्यभिप्रायेण । तत्र दत्तापहारव- चनानि 'त्वयि दीपावलोकं म' इत्यादीनि । तथाचान्यान्यपि सकलं वस्त्रमाल्यादिकं हरेः हरिसम्बन्धि हरये यन्निवेदितं तत्तदनन्तरं न ग्राह्यं, स्वयं न गृह्णीयादेवंबोधकानि अनि- वेदितश्राद्धादिबोधकानि च यानि वाक्यानि तानि सर्वाणि भिन्नमार्गपराणि वैधभक्तिमार्ग- पराणि । पूजारूपं कर्म तच्छेषतया या भक्तिस्तत्पराणि, न शुद्धभक्तिमार्गपराणि । अत एवंबोधकं वाक्यसहस्रं भिन्नमार्गपरं मतं सम्मतम् । तत्र पूजायाः कर्मत्वमुक्तमेकादशे 'कर्मयोगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते पर'मिति
५४ सिद्धान्तरहस्यम् ।
जनकेन पृष्ट आविर्होत्र उवाच। 'कर्माकर्मविकर्मे'त्यारभ्याग्रे 'य आशु हृदयग्रन्थि निर्जिहीर्षुः परात्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशव'मित्यादिप्रश्नोत्तरैः । अतस्तानि वाक्यानि तादृग्भक्तिपराणि इत्यत्रानवकाशपराहतानि इति सर्वथा नोपेक्षणीयानीत्यर्थः। अन्यथा 'त्वयो- पभुक्तस्रग्गन्ध', 'अम्बरीष नवं वस्त्रम्', 'विष्णोर्निवेदितान्नेन', 'मुकुन्दाशनशेषं तु' इत्या- दिवाक्यसहस्राण्यगतिकानि भवेयुः । चिरात् प्रदृश्यमानप्रागाचार्यचरणपरम्परा अप्य- प्रामाणिक्य एव च तिष्ठेरन् । नतु पूर्वोक्तमार्गेषु सङ्कल्पपूर्वकं वैधप्रकारेण निवेद्यत इति भक्तिमार्गे तन्निषेधो युक्त एव । अथैतन्मार्गीयैः केन प्रकारेण भगवद्वस्तुसमर्पणं कार्यमित्याकाङ्क्षायामाहुः सेवका- नामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । लोके ह्यस्मिन् सेवकानां व्यवहारः यथा प्रकर्षेण सिध्यति, तथा तेन प्रकारेण सर्वं समर्प्य सर्वं कार्यमात्रं कार्यं कर्तव्यमित्यर्थः । स व्यवहारो यथा सेवकैस्तु स्वप्रभोरग्रे सेवकभावेनैव सर्वं वस्तुसमर्पणं क्रियते, तथैव स्थीयते च, एवं व्यवहारो लोके प्रसिद्धो भवति । अयं भगवदग्रे सेवकभावेन सर्वं वस्तु समर्प्य तथैव च तिष्ठतीति भगवानप्येनं सेवकत्वेनैव मनुतेऽनुगृह्णाति च । एवं प्रकारकं ज्ञानं यथा सर्वलोकानां भवति, तथा सर्व- समर्पणं कार्यं तथैव स्थेयं च । अत्राप्ययमाशयः । यथा सेवको गृहदासस्तेन स्वीयं वस्तु- मात्रं पूर्वमेव स्वप्रभवे सर्वथा निवेद्यते, पश्चात् प्रभुणा स्वप्रसादत्वेन यद्दीयते तेनैव स्वोप- भोगः सर्वोपि क्रियत इति सर्वदा सर्वत्र दृश्यते श्रूयते च, तथैवानेनापि भगवदग्रे व्यवह- र्तव्यमिति दिक् । समर्पणग्रहणे प्रमाणवाक्यानि तु 'त्वयोपभुक्ते'त्यादीनि पूर्वमेवोक्तानि । ननु भगवान् पुरुषोत्तमत्वादलौकिक इति तस्मिन् सेवादिकरणमप्यलौकिकप्रकारेणैवोचित- मिति स्मृतिपुराणाद्युपदिष्टं सेवाप्रकारमनुक्त्वा लोकरीत्या सेवाकरणोपदेशे को हेतुरिति चेत् । न । अत्रोच्यते । स्मृत्याद्युक्तप्रकारास्तु विधिबोधिता इति तदधीनत्वात् तदधीनस्वरूपपर्य- वसायिन एव । अस्मिन् मार्गे तु पुरुषोत्तम एव भजनीय इति । तस्य च 'न रोधयति मां योगो,' 'नाहं वेदै'रित्यादिभिर्विध्यनधीनत्वादत्र वैधप्रकाराणामकिञ्चित्करत्वेन लोक- सिद्ध एव सः प्रदर्शित इत्यवधेयम् । तर्ह्यस्यापि मार्गस्य लौकिकत्वं भवतीति चेत् । न । 'लोकवल्लीलाकैवल्य'मित्युक्तेर्लोकवद्दृश्यमानापि सा भगवदीयकृतसेवा वस्तुसमर्पणादिरूपा भगवत्कृततत्स्वीकारतद्गताङ्गीकारादिरूपा चालौकिक्येव । यद्यपि 'न रोधयति मा'मित्या- दिभिर्भगवतो विध्यनधीनत्वमात्रं तूक्तमेव, तथापि तादृशसेवाप्रकारो नोक्त इति स प्रकारोत्र प्रदर्शितः । तर्ह्यस्य प्रकारस्यैव स्मृत्याद्यनुक्तत्वादमूलकत्वमिति चेत् । न । 'यदृच्छया तुष्यते हरि'रिति शूद्रवृत्तेरेव भगवत्तोषहेतुत्वमुक्तम् । यतः सा तु न वैधा, मन्त्राद्यधीना वा, तेषां तत्र नाधिकारात् । अत एतत्सर्वं विचार्यैवाचार्यैर्लोककृतसेवादृष्टान्त उक्त इति सर्वमवदातम् ।
दीक्षितलालूभट्टकृतटीकासमेतम् । ५५ ननु एवं कृतेऽग्रे तस्य किं फलं भवतीत्याकाङ्क्षायामाहुः सर्वेषामिति । ततस्तदनन्तरं पूर्वस्मिन् स्थितानां गुणानां दोषाणां च ब्रह्मता । भगवदीयत्वेन भगवद्रूपतैव भवति । भगवदी- यानां भगवद्रूपता तु भगवतैवोक्ता 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,' 'नोद्धवोऽण्वपि मन्न्यून' इत्यादि । तथात्वे जाते न तेषु पुनर्देाषत्वं, कदाचिदपि न तिष्ठतीति भावः। यथा कामादयो भगवति निवेदिताश्चेत्तदीया भूत्वा न पुनर्देाषत्वाय कल्पन्ते, किन्तु प्रत्युत सर्वलौकिकफलसाधकत्वायैवेति दिक् । तदुक्तम् । 'न मय्यावेशितधियां कामः कामाय कल्पते' 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वे'त्यादिभिः। ननु तथापि दोषाणां ब्रह्मरूपता प्रत्यक्षतया कुत्रापि दृष्टा नेति प्रत्यक्षवादिनां बहि- र्मुखानां शङ्कां परिहरन्तो गङ्गादृष्टान्तेन तमेवार्थं प्रत्यक्षं दर्शयन्त आहुः गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा प्रणालादिकुत्सितस्थानेभ्यो गङ्गायां समागतानां जलानां तद्गतदोषाणां च गङ्गा- त्वमेव सम्पद्यते, तदनन्तरं या तत्र गुणदोषादिवर्णना, कथनरूपा, सा संयोगानन्तरं तत्र गङ्गात्वे जाते निरूप्या कथनीया न स्यात् । अथवा । सा वर्णना यथा तदनन्तरं गङ्गात्वेनैव निरूप्या, कथनीया स्यात्, न क्वापि दोषत्वेन, तद्वदेवात्रापि भगवति सर्वस्व- निवेदनानन्तरं स्थितानामपि दोषाणां भगवदीयत्वमेवेति ज्ञात्वा तथैव कथनीयं करणीयं च, नान्यथा कथमपीति निगर्वः । इति श्रीविठ्ठलनाथचरणैकतानगिरिधरकृतौ सिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । दीक्षितश्रीलालूभट्टकृतटीकासमेतम् । श्रीमद्गोपतनितम्बनीमणिनिजप्राणप्रियानिर्मित- क्रीडाम्भोनिधिरासमण्डललसद्राकावधूनायकम् । कोटीन्दुद्युतिवन्दितं स्मरमनोहारित्विषानन्दितम् वन्दे वेदशिरःसमीडितगुणं गोवर्धनैशं प्रभुम् ॥ १ ॥ जयन्ति वल्लभाचार्यविठ्ठलेशाङ्घ्रिरेणवः । कुशलाः स्वीकृतस्वान्तमोहध्वान्तनिवारणे ॥ २ ॥ अथ श्रीमदाचार्यचरणाः पुष्टिमार्गीयजीवानां पुष्टिमार्गेऽङ्गीकारं चिकीर्षवः साक्षात् पुष्टिपुरुषोत्तममुखसरसीरुहोद्गतानि वाक्यानि स्वमात्रविषयीभूतानि भगवत्कृपापात्राणां निजोपदेशविषयकश्रद्धाधिक्यसम्पादनार्थं ग्रन्थरूपेण सङ्गतिपूर्वकं निरूपयन्ति श्राव-
५६ सिद्धान्तरहस्यम् । णस्यामले पक्ष इत्यादिना । श्रावणशुक्लैकादश्यामर्धरात्रसमये श्रीमदाचार्यान् प्रति पुष्टि- जीवोद्धारार्थं परमकाष्ठापन्नेन परब्रह्मणा श्रीकृष्णेन स्वयमाविर्भूयोपदेशः कृतः । स एवा- स्मिन् ग्रन्थे सर्वोपि विराजते । स एष प्रत्यहं विमृश्यमानो मार्गपद्धतिं प्रदर्शयत्यतो मयाचार्यवर्यकृपालब्धबोधेन तदर्थो निरूप्यते श्रावणस्येत्यादि । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणस्य वैष्णवत्वात् स गृहीतः । उपदिश्यमानमार्गस्य निर्मलतावोधनाय शुक्लपक्षः । अत एवामले पक्षे इत्यत्रामलपद्मुक्तम् । एकादश्या वैष्णवतित्थित्वात् सा गृहीता । अर्धरात्रसमयस्य पूर्णपुरुषोत्तमप्राकट्याधिकरणत्वात् तत्समये प्राकट्यम् । 'अथ सर्वगुणोपेत' इत्याद्यष्टभिः सार्धैः श्लोकैः समानसङ्ख्याकाः सार्धा अष्टौ श्लोकाः पूर्णपुरुषो- त्तमप्रादुर्भावसूचकाः । साक्षाद्भगवतेति । भगवान् परमकाष्ठापन्नः स्वयमेवाविर्भूयो- क्तवान्, न त्वंशेन कलया विभूतिरूपेणावेशरूपेण वेति ज्ञापकं साक्षात्पदम् । अथवा । साक्षात् पदस्य प्रोक्तमित्यनेनान्वयः । तथा च भगवता साक्षादेवोक्तम्, न तु दूतादि- द्वारा । न वा स्वप्नादिद्वारेति बोध्यते स्म । अक्षरश इति । भगवदुक्तस्यैकस्याप्यक्षर- स्यार्थो न त्यक्त इत्यर्थः । अथवा । श्लोकरूपेणैव भगवतोक्तमिति त एव श्लोका ब्रह्मस- म्बन्धकरणादित्यारभ्य तद्बदत्रापि चैव हीत्यन्ता अत्र ग्रन्थे धृताः । सङ्गत्यर्थं प्रथम- श्लोकः श्रीमदाचार्यैर्विरचित इति ज्ञातव्यम् । इदमत्राकूतम् । तृतीयस्कन्धनिबन्ध- विवृत्तौ भगवता प्रोक्तं यद्भगवदीया वदन्ति, तद्भागवतमिति निरूपितम् । अतः साक्षाद्भग- वता प्रोक्तमिदमिति भवत्यस्य भागवतत्वम् । तथा च यथा साक्षाद्भगवता चतुःश्लोकी- रूपं भागवतं ब्रह्मणे प्रोक्तम्, यथा वा मैत्रेयाय प्रोक्तम्, तस्य भागवतत्वम्, एवं श्रीमदाचार्यान् प्रति साक्षाद्भगवता प्रोक्तमिदमपि भागवतमेवेति ग्रन्थान्तरापेक्षया अस्य वैशिष्ट्यमनुसन्धेयम् । अत एव सिद्धान्तरहस्यमिति नामधेयमेतस्य । ब्रह्मसम्बन्धकरणात् सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धकरणादिति । ब्रह्मणा सह सम्बन्धः स्वस्वामिभावलक्षणो देहेन्द्रि- यप्राणान्तःकरणदारागारपुत्रादीनां आत्मनश्च तदीयत्वमिति यावत् । तस्य करणाद्ब्रह्म- सहितपञ्चाक्षरनिवेदनमन्त्रस्योपदेशेन स्फुटीकरणादित्यर्थः । यद्यपि जीवानां सहजहरि- दासत्वेन स्वस्वामिभावसम्बन्धः सिद्धोस्ति, तथापि संसारदशायां बहिर्मुख्येन विस्मृतः स एतेनोपदेशेन ह्याविर्भाव्यते । 'क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु'रित्यष्टमस्कन्धे विन्ध्यावलिवाक्यात् प्रपञ्चस्य सर्वस्यापि भगवत्क्रीडार्थं निर्मि- तत्वेन भगवदीयत्वात् प्रपञ्चान्तर्गतदेहादीनामपि भगवदीयत्वं वर्तत एव, तथापि 'स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु'रित्युक्त्या कुधीत्वप्रयुक्तो देहादावाहंममाभिमानः, स एतेन
दीक्षितालालभट्टकृतटीकासमेतम् । ५७ स्रगद्यमन्त्रेण नाश्यते, ततश्च तदीयत्वं स्फुटीभवति । सेयमात्मनिवेदनरूपा भक्तिः सर्वथा संपादनीया । 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदनम् । एवं धर्मैर्मनुष्याणा- मुद्धवात्मनिवेदिनाम् । मयि संजायते भक्तिः कोन्योऽर्थोसावशिष्यत' इति भगवद्वाक्यात् । सर्वेषां देहजीवयोः सर्वदोषनिवृत्तिर्हि इति । सर्वेषामिति नात्र वर्णाश्रमादिनियमः, किन्तु प्राणिमात्रसेदं कर्तव्यमित्यर्थः । 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा, भजन्मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति सप्तमस्कन्धे प्रह्लादवाक्यात् । 'मां हि पार्थ व्यपाश्रित्य येपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेपि यान्ति परां गति'- मिति भगवद्गीतासूक्तत्वात् । 'सर्वेधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप' इति पुराणा- न्तरवाक्याच्च । देहजीवयोः सर्वदोषनिवृत्तिरिति । देहदोषा जीवदोषाश्च निवर्तन्ते, देहजीवयोः समर्पितत्वेन भगवदीयत्वादित्यर्थः । देहपदमिन्द्रियप्राणान्तःकरणोपलक्षकम् । तथा च देहेन्द्रियप्राणान्तःकरणजीवानां सर्वदोषनिवृत्तिः, समर्पितत्वेन भगवदङ्गीकारात् । एतत्तु भगवत्संबन्धे युक्तमेवेति हिशब्दः सूचयति । दोषाः पञ्चविधाः स्मृता इति । स्मृता इति प्रमाणमुक्तम् ॥ २ ॥ तान् गणयन्ति सहजा देशकालोत्था इत्यादिना । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ इह सहजदोषदेशोत्थदोषकालोत्थदोषसंयोगजन्यदोषस्पर्शजदोषश्चेति पञ्च दोषाः । लोकवेदनिरूपिता इति तु विशेषणम् । लोकशब्देन स्मृतिपुराणादि ग्राह्यम् । तत्र केचन देहस्य, अपरे तु जीवस्येति विवेचनीयम् । तत्रापि देहदोषाणां जीवेपि सम्बन्धो देहाध्यासात् । ते सर्वेपि दोषा आत्मसमर्पणरूपया भक्त्या निवर्तन्ते । 'तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नश'इति भगवद्वाक्येन भक्तिमात्रस्य सर्वदोषनिवारकत्वात् । पञ्चविधदोषास्तु प्रथमस्कन्धसप्तमाध्याये 'भक्तानामभयंकरत्वात्वमेको दह्यमानानामप- वर्गोसि संसृते'रित्यस्य सुबोधिन्यां कर्मजाः कालजाः स्वभावजा मायोद्भवा देशो- द्भवाश्चेति पञ्चोक्तास्त एवात्राप्युक्ता इति ज्ञेयम् । तत्र स्वभावजा दोषा इह सहजपदेनोक्ताः । कालजा देशोद्भवाश्च देशकालोत्था इत्यनेन । मायोद्भवास्ते संयोगज- पदेन निरूपिताः । अविद्यासंयोगजन्यत्वात् । कर्मजाः स्पर्शजपदेनाभिहिताः । एवं पञ्चविधा दोषाः । तत्र सहजाः स्त्रीत्वशूद्रत्वादयः । तेपि निवेदननाश्याः । 'मां हि पार्थ व्यपाश्रित्य येपि स्युः पापयोनयः । स्त्रियो वैश्यास्तथा शूद्रास्तेपि यान्ति परां गति'मिति वाक्यात् । देशदोषा मरुमगधसौराष्ट्रदुष्टदेशस्थित्यादयः । कालदोषाः कलिकालप्रभवाः शरीराशुद्ध्यादयः । एते त्रयो देहदोषाः । अविद्यासंयोगजन्याः संयोगजास्तु भगवद्भजन- सद्धर्मबहिर्मुखरूपाः । जीवदोषा एते । स्पर्शजा दुष्टकर्मस्पर्शेनोत्पन्नाः पातित्यादयः । सां. र. ८
तेषां पञ्चविधानां समर्पणजन्येन स्वस्वामिभावसम्बन्धेन निवृत्तिर्जायते । तत्र शूद्रत्वादयः सहजदोषाः । मरुमगधादिदुष्टदेशस्थित्यादयो दोषा न सर्वेषाम् । ब्राह्मणाद्युत्तमकुलोत्प- न्नेषु सहजदोषाभावात् । मथुरादिशुभदेशवासिषु देशदोषाभावात् । अथवा । देशदोषा अपि सर्वेषां भवन्ति । मथुराद्युत्तमदेशस्थितावपि दुष्टस्वामिकस्थलस्थित्यादिजन्यापवि- त्र्यादिरूपदेशदोषाणां तत्रापि सत्त्वात् । न मन्तव्याः कथञ्चनेति । आत्मसमर्पणात् पूर्वं यावन्तो दोषास्ते सर्वेपि समर्पणनाश्याः, अतो निवेदनान्तरं ते न मन्तव्याः । निवेदनकार्ये भगवत्सेवनादौ प्रतिबन्धका न भवन्तीत्यर्थः । नहि सूर्यनाश्यं तमः सूर्य- प्रकाशे प्रतिबन्धकं भवति । ‘निर्गुणो मदपाश्रयः’ ‘मन्निष्ठं निर्गुणं स्मृत’मित्यादि- वाक्यैर्भगवदीयपदार्थस्य निर्गुणत्वेन समर्पितपदार्थेषु दोषसम्बन्धस्य वक्तुमशक्यत्वात् । दोषाणां तु राजसादिगुणमात्रविषयत्वेन भगवत्सम्बन्धिषु निर्गुणपदार्थेष्वभावात् । एवं निर्दोषत्वे सम्पन्ने तादृशाधिकारिणा किं कर्तव्यमित्याकाङ्क्षायां नवरत्नग्रन्थान्नुसन्धा- नेन तनुजवित्तजभगवत्सेवैव कर्तव्येति फलति । यतो निवेदितानां पदार्थानामुपयोगो भगवत्सेवयैव भवति । देहप्राणेन्द्रियान्तःकरणानां दारागारपुत्रासवित्तानामात्मना सह भगवत्सेवायासमुपयोगः स्फुट एव । एवं सति निवेदनफलं भगवत्सेवा, तत्र निर्दोषता द्वारमिति निष्कर्षः । ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य इत्यर्थतः फल’मिति प्रथमस्कन्धसुबोधिन्यामुक्तत्वात् ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथेति । आत्मसमर्पणं विना कर्मज्ञानयोगादिभिर्न सर्वदोषनिवृत्तिः । इह पूर्वमुक्तेषु पञ्चदोषेषु निखिलदोषाणामन्तर्भाव इति ज्ञापयितुं सर्वपदम् । ‘न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पिताप्राणस्तत्पूरुषनिषेवये’ति षष्ठस्कन्धवचनात् । यद्यपि प्रायश्चित्तेन दोषनिवृत्तिस्तथापि न सर्वात्मना दोषापहारः । ‘कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यत’ इति षष्ठस्कन्धे शुकवाक्यात् । एवं ज्ञानेनापि न सर्वथा दोष- नाशः । ‘नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवये’ति शुकवाक्यात् । भक्त्या तु सकलदोष- निवृत्तिः । ‘केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव गोपति’रिति वाक्ये कार्त्स्न्यपदात् नीहारदृष्टान्ताच्च । एवं निवेदनात् पूर्वं कृतानां दोषाणां निवेदनेन निवृत्तिमुक्त्वा निवेदनान्तरं कदाचित् केनचिदनिवेदितपदार्थेन सम्बन्धे बुद्धिभ्रंशादोषोत्पत्तिः सम्भवेदतो दोषाणामनुत्पत्त्यर्थं दोषोत्पादकपदार्थानां हेयत्वमाहुः असमर्पितवस्तूनामिति । भगवदनुपभुक्तान्नवसनस्रग्गन्धादीनामित्यर्थः । यस्मात् असमर्पितस्य सदोषत्वेन तत्सम्बन्धे स्वस्यापि दोषोत्पत्तिः, तस्मादसमर्पितवस्तूनां वर्जनं कर्तव्यमित्यर्थः । अतएव ‘असमर्पितं तथा विष्णोः श्वमांससदृशं भवेत् । शुनोवि-
श्रीदीक्षितलालूभट्टकृतटीकासमेतम् । ५९ ष्ठासमं चान्नं नीरं तत्सुरया सम'मित्यादिवाक्यैरसमर्पितसम्बन्धे दोषबाहुल्यं गीयते । एवमसमर्पितवस्तूनां हेयत्वकथनेन तत्सम्बन्धं निराकृत्य दोषानुत्पत्तिप्रकारमुक्त्वा देहादिनिर्वाहार्थं कृतात्मनिवेदनः प्रेमासक्तिव्यसनसर्वात्मभावान्तभक्तिहेतुभूताधिदैविकी- शुद्ध्यर्थं च भक्तिमार्गीयमुपायमाहुः निवेदिभिः समर्प्यैव सर्वं कुर्यादिति । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदनं निवेदः, निवेदो येषामस्ति ते निवेदिनः पदार्थाः अन्नादयः, तैः निवेदिभिः पदार्थैः सर्वं भक्षणादिव्यवहारं कुर्यात्, परन्तु समर्प्यैव कुर्यात् । अत्रेदं आकूतम् । सगद्यप- ञ्चाक्षरमन्त्रग्रहणावसरे सर्वेपि स्वकीयाः पदार्था देहादयो दारागारादयश्च भूतभविष्यद्वर्तमान- कालसम्बन्धिनो निवेदिता ब्रह्मसम्बन्धिनो निर्दुष्टा बभूवुः । अतस्ते सर्वेपि पदार्था निवेदिपद- वाच्याः, तेषां पुनः समर्पणं नाम तत्तदवसरे भगवदुपयोगकरणम्, अतो मन्त्रग्रहणावसरे निवे- दितानामन्नादीनां भगवदुपयोगं कृत्वा भगवदुपयुक्तशिष्टेन भक्षणादिव्यवहारं कुर्यादिति । तथा च पञ्चाक्षरमन्त्रग्रहणेन स्वकीयपदार्थानां ब्रह्मसम्बन्धः स तु सामान्यतः समर्पणम् । पुनस्तदु- योगिकरणं विशेषतः समर्पणं ज्ञेयम् । एवं समर्पितात्मनः सर्वे पदार्था भगवदीयत्वान्निर्दुष्टा- स्तान् भगवदुपयुक्तान् कृत्वा तद्दत्तप्रसादत्वेन भक्षणादिव्यवहारो भक्तिमार्गे प्रशस्तः । तदुक्तं श्रीप्रभुचरणैर्नवरत्नप्रकाशे 'तद्दत्तप्रसादत्वेन स्वोपभोगकृतिरुचिततरे'ति । प्रसादत्वेन ग्रहणं कृतार्थतासम्पादकम् । 'त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमही'त्येकादशस्कन्धे श्रीमदुद्धववाक्यात् । अतः सामान्यसमर्पणविशेषसमर्पणो- भयसूचनार्थं निवेदिभिः समर्प्येति पदद्वयेन निवेदनमुक्तम् । इदं त्विह विशिष्यावधेयम् । निवेदनमन्त्रग्रहणेन ब्रह्मसम्बन्धे सर्वेषां पदार्थानामन्नादीनां या शुद्धिः सा त्वाधिदैविकी । तस्यां सिद्धायामपि दुष्टस्पर्शादिदोषनिवृत्तये भगवन्नामाभिमन्त्रितजलप्रोक्षणादिजन्या जलक्षालनादिजन्या भौतिकी शुद्धिः कर्तव्या । एवं शङ्खोदकतुलसीगोपालमन्त्रशरण- मन्त्रोच्चारणादिनाध्यात्मिकी शुद्धिः, सापि कर्तव्यैव । श्रीमदाचार्यवर्यैस्तु पुष्टिमार्गे या विशेषतः समर्पणजन्या शुद्धिः सात्र ग्रन्थे निरूपिता । सामान्यतो भौतिकी शुद्धिस्तु स्मृतिपुराणधर्मशास्त्रप्राप्तैवेति सा नोक्ता, नैतावता तस्या निषेधः । अतः सा यथाशास्त्रं विधेयैव । अतएव भगवत्सेवार्थं स्नात्वा गच्छतो निवेदितात्मनः पुंसो मध्ये निषिद्ध- स्पर्शदोषनिवारणार्थं पुनः स्नानादिना शुद्धिस्सम्पादनमार्याणां व्यवहारः । एवमेव पात्रादीनां यथाशास्त्रं शुद्धिकरणमस्मत्सम्प्रदायेऽस्ति । अत एव पुत्रजन्मनि वृद्धिसूतके देहाशुद्धिं मन्वाना न भगवच्चरणौ स्पृशन्ति । दशदिवसानन्तरं यथापूर्वमाचरन्ति, तावता कालेन शुद्धेः शास्त्रसिद्धत्वात् । सेयं भौतिकी शुद्धिर्न निवेदनहेतुका । अन्यथा देहादीनां समर्पितत्वेन सकलाशुद्धिसम्बन्धस्य वक्तुमशक्यतया स्नानादिशुद्धेर्निष्प्रयोजनकत्वं स्यात् ।
६० सिद्धान्तरहस्यम् । ज्ञानसन्ध्यावन्दनादिरूपं शोधकं परमभक्तानामपि व्यवहारे दृश्यते । 'इति स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निक' इति वाक्यात् । तदन्यथानुपपत्त्या भौतिकी शुद्धिवैष्णवा- नामुचितेत्यायाति । अतो भौतिकी शुद्धिर्जलक्षालनादिना शङ्खोदकादिना चाध्यात्मिकी शु- द्धिर्यथाशास्त्रं सम्पादनीया । ननु शुद्धिद्वयं स्नानशङ्खोदकादिना सम्पाद्यम् , अधिदैविकी शुद्धिः समर्पणेन संपन्ना, ततो द्वितीयस्य विशेषतः समर्पणस्य किं प्रयोजनमिति चेत्, श्रूयताम् । भगवते समर्पितानां पदार्थानां भगवदुपयोगकरणाभावेऽपराधः स्यात् । सामान्यतः समर्पितानां भगवदुपयोगं विना स्वोपयोगे तु महानेवापराधसमुदाय आपद्येत । अतः सामान्यतः समर्पितानां भगवदुपयोगकरणरूपं विशेषतः समर्पणमावश्यकमेव । तदेतदुक्तं निवेदिभिः समर्प्यैव सर्वं कुर्यादिति । अत्र ह्यसङ्कुचितवृत्तिना सर्वपदेन लौकिकवैदिकव्यवहारः सर्वोपि गृहीतः । तथा च नित्ये नैमित्तिके च कर्मणि कर्माङ्गदेवताभ्यो यदन्नं देयं तदपि भगवते समर्प्यैव देयमिति स्फुटति स्म । अत एव 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पत' इत्यादिवचांस्युपलभ्यन्ते । युक्तं चैतत् । 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजनमुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति प्रह्लादवाक्यात् सर्वे देवा भगवद्भक्ताः । अतस्तेषां भगवदीयत्वाद्भगव- त्प्रसाददाने तेषां प्रसाद एव । ननु सर्वोपि पदार्थो भगवते समर्पणीय इत्युक्तम् , एवं सति केनचिद्देवन्तरोपयुक्तशिष्टवसनादिकं स्वस्मै दत्तं तर्हि तद्भगवते समर्पणीयं न वेत्याकाङ्क्षायां नेत्याहुः न मतं देवदेवस्येत्यादिना । यतो भगवान् देवानामपि देवः पूज्यः स्वामी, अतो भगवद्भुक्तशिष्टं सर्वेभ्योपि देयम्, अन्यभुक्तशिष्टं तु हरये नार्पणीयम् । 'पितृशेषं तु यो दद्याद्धरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति क्लेशभागिन' इत्यादि- निषेधात् । तदेतदाहुः न मतं देवदेवस्येत्यादि । एवमुक्त्वा सिद्धमुपदिशन्ति तस्मादादौ सर्वकार्य इत्यादिना । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । यस्मात् सामिभुक्तं प्रभवे न निवेद्यम् , किन्तु कृष्णोपभुक्तशिष्टेन देवतायजनं स्वस्य भोजनादिव्यवहारश्च शास्त्रसिद्धः, तस्मादादौ सर्वं श्रीकृष्णाय समर्पणीयमित्यर्थः । ननु भगवत्समर्पितस्य पुनः प्रसादत्वेन ग्रहणे दत्तस्यापहारो भवति, अतो न युक्तमित्याशङ्क्य समाधिमाहुः दत्तापहारवचनमित्यादिना । दत्तापहारवचनं भिन्नमार्गपरमित्यन्वयः । दत्तापहारस्य वचनं निषेधकवचनं भिन्नमार्गपरम्, न तु भक्तिमार्गे निषेधः । निषेधस्य प्राप्तिपूर्वकत्वात् । भक्तिमार्गे दत्तापहारस्याप्राप्तत्वात् । अस्मिन् मार्गे हि देहादी- नामात्मना सह भगवते निवेदनम्, न तु दानम्, स्वसत्तानिवृत्तिपूर्वकपरसत्तोपादानस्य
दीक्षितलालूभट्टकृतटीकासमेतम् । ६१ दानलक्षणत्वात् । इदं तु ‘क्रीडाभाण्डं विश्वमिदं’ इति चतुर्थस्कन्धवाक्यात् निवेद्ये देहादौ भगवत्सत्तायाः सर्वदा विद्यमानतया स्वसत्ताया अभावात् । अत एव परसत्तो- पादानमपि न संभवति । सर्वस्य पदार्थजातस्य भगवदीयत्वात् । किन्तु भगवदीयस्यैव पदार्थस्य भगवते समर्पणमिति नात्र दानम् । दानाभावेन दत्तापहारोपि नैवास्तीति भक्तिमार्गभिन्नमार्गे निषेधप्रवृत्तिरिति भावः । तस्मान्निवेदितस्य भगवदुपभुक्तशिष्टस्य ग्रहणे निषेधाभावात् प्रभुदत्तप्रसादत्वेन ग्रहणं विधेयमेव । एतदेव नवरत्नप्रकाशे श्रीमत्- प्रभुचरणैरवादि ‘दाने हि न स्वविनियोगो न तु निवेदन’ इति । ननु मास्तु दत्तापहार- स्तथापि ‘अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित’मित्यनेन निवेदितग्रहणस्य निषेधात् कथं निवेदितस्वीकार इत्याशङ्क्य समादधते तथा च सकलं हरेः न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतमिति । इति वाक्यमित्यत्र इतिशब्दः प्रकारे । तथा हरेः सकलं न ग्राह्यमिति प्रकारकं वाक्यं ‘अपि दीपावलोकं मे’ इत्यादिरूपं भिन्नमार्गपरम्, न तु भक्तिमार्गपरमित्यर्थः । अपि च । समर्पणगद्यसमाप्तौ दासत्वस्य निरूपितत्वादङ्गीकारे दासधर्मस्य भगवदुच्छिष्टग्रहणस्योचिततरत्वमेव । श्रीमदुद्धवेनापि भगवदुच्छिष्टग्रहणस्य दासधर्मत्वबोधनाय ‘उच्छिष्टभोजिनो दासास्तव मायां जयेमही’त्यत्र दासपदमभाणि । दास्यं च सर्वथा कर्तव्यमेव । ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदन’मिति प्रह्लादेन नवविधभक्तिषु दास्यस्य गणनात् । अस्मिन्नेव सप्तमस्कन्धे श्रीनारदेन ‘श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मनिवेदन’मित्यनेन नवविधभक्तौ दास्यस्योपादानात् । तत्रापि ‘नृणामयं परो धर्मः सर्वेषां समुदाहृत’ इत्युक्त्यावश्यकत्वस्य सूचनाच्च । ननु सप्तमस्कन्धे ‘हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेते’त्यत्र त्यागस्यो- क्तत्वात् त्याग एव कर्तव्यः, तथा सति भिक्षावृत्त्या कस्यचिद्वैष्णवस्य गृहाद्देहनिर्वाहकमात्रं भगवदुपभुक्तशिष्टं गृहीत्वा निष्प्रत्यूहं भगवद्भजनं कार्यम्, किमर्थं दारागारसम्पादनं चेत्याशङ्क्य दारादिसम्पादनप्रयोजनं देहादिनिर्वाहप्रकारं चाहुः सेवकानां यथेत्यारभ्य, तथा कार्यं समर्प्यैवेत्यन्तेन । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । सेवकानामिति । भगवतः श्रीविग्रहं सेवमानानामित्यर्थः । तेषां यथा लोके सर्वोपि व्यवहारः भगवत्सेवारूपः सेवोपयोगिलौकिकभोजनादिरूपो वैदिकः पुत्रोपन- यनविवाहादिरूपश्च स यथा येन प्रकारेण सिध्यति । तथा कर्तव्यम् । तथा सति स्त्रीपुत्रादिभिः सह कृष्णसेवा सिध्यति । तदभावे तु सेवाया न निर्वाहः । अतः स्त्रीपुत्रादि- सम्पादनं कृष्णसेवार्थमिति प्रयोजनं सिद्धम् । अनिवेदिताः स्त्रीपुत्रादयो बाहिर्मुख्यं जनय- न्यतस्तन्निवृत्त्यर्थं स्त्रीपुत्रादीनां निवेदनमावश्यकम् । तदेतदुक्तं तथा कार्यं समर्प्यैवेति ।
६२ सिद्धान्तरहस्यम् । भगवतापि 'दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन'मित्यनेन निवेद्यत्वेन दारादयो निर्दिष्टाः । निवेदनस्य किं फलमित्याकाङ्क्षायां 'उद्धवात्मनिवेदिनां मयि संजायते भक्ति'- रित्युक्त्या भक्तिशब्दवाच्या सैवैव फलत्वेन निर्दिष्टा । भक्तिशब्दस्य सेवाऽर्थः । भजेसेवायां- मिति धातुपाठात् । 'भज इत्येष वै धातुः सेवायां परिकीर्तित' इति तन्त्राच्च । तथा च सिद्धमेतत् । दारादिसङ्ग्रहस्तन्निवेदनं च कृष्णसेवाऽर्थम् । कृष्णसेवा हि सर्वथैव कर्तव्या । 'तज्जन्म तानि कर्माणि तदायूस्तन्मनोवचः । नृणां येनेह विश्वात्मा सेव्यते हरिरीश्वर' इति नारदवाक्यात् । 'करौ च तत्कर्मकरौ मनश्च शावौ करौ नो कुरुतः सपर्याम् । करौ हरेर्मन्दिर- मार्जनादि'ष्वित्यादिवचःपुञ्जाच्च । 'यैर्जन्म लब्धं नृषु भारताजिरे मुकुन्दसेवौपयिकं स्पृहा हि न' इति पञ्चमस्कन्धे देववाक्ये सर्वदेवतास्पृहणीयत्वस्याभिधानाच्च । अतः सेवार्थं गृहाश्रम- स्तन्निर्वाहार्थं लौकिको ज्ञातिसम्बन्धिव्यवहारो ब्राह्मणभोजनादिरूपो यज्ञोपवीतविवाहादिक- र्मसु कर्माङ्गभूतदेवतापूजनादिव्यवहारश्च सर्वथा कर्तव्य एव । परम्परया कृष्णसेवोपयोगि- त्वात् । परन्तु स सर्वोऽपि भगवते समर्प्यैव भगवदुपभुक्तशिष्टेन कार्यः । एतद्बोधकं समर्प्यै- वेत्यत्रचैवेपदं एतदभिसंधाय 'सेवकानां यथा लोके' इत्यत्र सेवकपदं दत्तमाचार्यवर्यैः । अनेन सेवाभिलाषिणां गृहाश्रमः सर्वाश्रमेभ्यो बलीयानित्युक्तं भवति । यस्य तु गृहे भगवत्सेवायां अभावस्तद्विषयकानि गृहलाघववचनानि । अत एव 'हित्वात्मपातं गृहमन्धकूप'मित्यात्रात्मपात- त्वमन्धकूपत्वं च विशेषणद्वयमुक्तम् । न हि भगवदीयानां गृहमन्धकूपं भवति । वेदान्तरत्न- रूपस्याखिलपुरुषार्थदातुर्भगवतो विराजमत्वात् । अतः सर्वं सुस्थम् । गृहाश्रमाभिप्रायेणैव भगवन्तं प्रति विज्ञापयता उद्धवेन 'त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिता' इत्यत्र वसन- भूषणाद्यलङ्कृतत्वं श्रीकृष्णदासानामुक्तम् । अन्यथा त्यागपक्षे भूषणवसनाद्यलङ्कारो नोचित इति न वेदत् । अतो गृहाश्रमं सम्पाद्य भगवते सर्वं निवेद्य कृष्णोपभुक्तशिष्टेन देहादि- निर्वाहे न किञ्चिद्दूषणम् । 'अम्बरीष नवं वस्त्रं फलमन्नं रसादिकम् । कृत्वा विष्णूपभोग्यं तु सदा सेव्यं हि वैष्णवै'रित्यादिपुराणान्तरवचःसमुदायादिति दिक्। 'अम्बरीष नवं वस्त्र'मित्यत्र नवपदेन अन्यभुक्तस्य निवेदनं निषिद्धमिति ज्ञेयम् । एवं पूर्वोक्तप्रकारेण भगवन्तं भजमानस्य फलमाहुः सर्वेषां ब्रह्मता तत इति । आत्मना सह समर्पितानां देहादीनां दारागारपुत्रादीनां च ब्रह्मता भवति । निर्दोषत्वप्रकटसच्चिदानन्दत्वरूपाक्षरब्रह्मधर्मास्तेष्वाविर्भूता भवन्तीत्यर्थः । पूर्वमतथाभूतस्य भक्त्या ब्रह्मत्वप्राप्तौ दृष्टान्तमाहुः गङ्गात्वं सर्वदोषाणामित्यादिना । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ ३/२ ॥ सर्वे दोषा येषु तानि सर्वदोषाणि रथ्यादिजलानि । तेषां गङ्गाप्रवाहप्रवेशे यथा गङ्गा- त्वम्, तथा निवेदनेन ब्रह्मत्वं भवतीत्यर्थः । गङ्गाप्रवेशे रथ्यादिसलिलानां सर्वे दोषा निवर्तन्ते, ततो निर्दुष्टवारीणां गङ्गात्वम्, न तु दोषाणां गङ्गात्वम्, तेषां गङ्गासम्बन्धनाश्यत्वात् ।
श्रीदीक्षितलालूभट्टकृतटीकासमेतम् । ६३ अतो ‘गङ्गात्वं सर्वदोषाणा’मित्यत्र सर्वदोषपदे बहुव्रीहिर्ज्ञेयः । तथाच सर्वदोषाणां दोष- युक्तानां जलानां दोषनिवृत्त्या गङ्गात्वमित्यर्थो भवति । एवमिहापि निवेदनेन गतदो- षाणां ब्रह्मत्वमाकलनीयम् । गुणदोषादिवर्णना गङ्गात्वे न निरूप्या स्यादिति । गङ्गात्वे इति सप्तमी । गङ्गात्वे सति निर्दोषादिवर्णना न निरूप्या स्यात् । अस्मिन् प्रवाहे ब्राह्मणजलं पतितम्, तच्छुद्धमस्ति, रथ्याजलं निषिद्धमस्तीत्यादिरूपा गुणदोष- वर्णना गुणदोषकथा न निरूप्या, किन्तु सर्वमेव जलं गङ्गामिलितं गङ्गैवेति निर्धारः । तद्वदत्रापीति । अत्रापि निवेदनेपीत्यर्थः । निवेदने हि सर्वस्य ब्रह्मत्वं तुल्यम्, न वर्णाश्र- मादिगुणदोषविचारः । अपि तु सर्वस्य भगवदङ्गीकृतत्वमिति भावः । निखिलोवनिषद्ध्येयो बालकृष्णो व्रजाधिपः । तदङ्घ्रौ बालकृष्णेन मया सर्वं समर्पितम् ॥ १ ॥ निवेदनविचारः । अथेदं विचार्यते किं नाम निवेदनम्, किं प्रयोजनकम्, कतिप्रकारकं चेति । तत्र ‘दारान् सुतान् गृहान् प्राणान् यत्परस्मै निवेदन’मित्यत्र दारादयो निवेद्यत्वेन निर्दिष्टाः । ‘एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिना’मित्यात्मपदेन देहजीवौ निवेद्यत्वे- नोक्तौ, आत्मशब्दस्योभयवाचकत्वात् । तथा च आत्मनो जीवस्य देहेन दारादिभिः सह भगवत्सेवोपयोगिकरणमात्मनिवेदनम् । तच्च त्रिविधम् । ‘अज्ञानादथवा ज्ञानात्कृत- मात्मनिवेदनम् । यैः कृष्णसात्कृतात्प्राणैस्तेषां का परिवेदने’ति नवरत्नग्रन्थात् । तत्र कृष्णसात्कृतात्प्राणैर्यदात्मनिवेदनं तदुत्तमम् । भगवत्स्वरूपस्वस्वरूपनिवेदनस्वरूप- ज्ञानपूर्वकं आत्मनिवेदनं तन्मध्यमम् । प्रेमज्ञानोभयराहित्येन केवलं पुष्टिमार्गीयगुरुमु- खोद्गतसगद्यपञ्चाक्षरमन्त्रोच्चारणजन्यमात्मनिवेदनं तृतीयम् । एवं त्रिप्रकारके निवेदने यदुत्तमं तत्प्रेमोत्पत्तिपश्चाद्भावि । द्वितीयं पुष्टिमार्गीयग्रन्थाध्ययनगुरूपदेशजन्यज्ञानान- न्तरोत्पत्तिकम् । तृतीयं तु केवलं पुष्टिमार्गीयगुरुमुखोत्थसगद्यपञ्चाक्षरमन्त्रोपदेशोत्तर- भावि । नवरत्ने अज्ञानाद्यन्निवेदनमुक्तम्, तत्पञ्चाक्षरमन्त्रोपदेशमात्रजन्यमिति बोद्धव्यम् । एवं त्रिप्रकारकनिवेदनस्य प्रयोजनं भगवत्सेवा । तया कृतार्थत्वम् । ‘उद्धवात्मनिवेदिनां मयि संजायते भक्तिः कोन्योर्थोस्यावशिष्यते’ इति वाक्यात् । इह वाक्ये आत्मनिवेदना- नन्तरं भक्तिशब्देन प्रेमसेवामुक्त्वा ‘कोन्योर्थोसावशिष्यत’ इत्यनेन कृतार्थत्वमुक्तम् । ननु पित्रा कृते निवेदने पुत्रस्य भगवदीयत्वे सिद्धे पुनः पुत्रेण किमर्थं निवेदनं विधेय- मिति चेत्, सत्यम् । भगवदीयत्वेपि स्वदेहादौ स्वकीयत्वाध्यासनिवृत्तिमन्तरेण न
६४ सिद्धान्तरहस्यम् । भगवदीयत्वबुद्धिरुपपद्यते । अतः सर्वैरेव स्वस्वाध्यासनिवृत्तये पृथक् पृथङ्निवेदनं कार्यम्, सर्वानैव जीवानधिकृत्य निवेदनस्य विहितत्वात् । ‘सख्यमात्मनिवेदनं नृणामयं परो धर्मः सर्वेषां समुदाहृत’ इति सप्तमस्कन्धे युधिष्ठिरं प्रति नारदवाक्यात् । अतः शास्त्रसिद्ध- त्वात् पृथक्पृथगनुष्ठेयम् । तथाच विशेषतो भगवदीयत्वं सेत्स्यति, अधिकस्याधिकं फलमिति न्यायात् । यथार्जुनस्य वैष्णवत्वेन पूतत्त्वेपि पौत्रपरीक्षिद्धत्तया विशेषतः पूत- त्वम् । ‘त्रिःसप्तभिः पिता पूत’ इति प्रल्हादं प्रति भगवद्वाक्यात् । यस्य वंशे वैष्णव उत्पन्नः स पवित्रो भवत्येवेति सर्वसत्सम्मतम् । स्वयं वैष्णवो वैष्णववंशकर्ता चेद्विशेषतः पूतो भवति । अधिकं तत्रानुप्रविष्टम्, न तु तद्धानिरिति न्यायात् । एवं निवेदनेपि ज्ञेयम् । ननु अज्ञानात्केवलमन्त्रोच्चारणेन कथं निवेदनसिद्धिरिति चेत्, सत्यम् । ज्ञानाभावेन केवलं मन्त्रोच्चारणेनापि धर्मसिद्धेर्बालादावुपलभ्यमानत्वात्तन्यायेनात्रापि निवेदनसिद्धि- रित्याकलितव्यम् । बालो हि दानादिधर्मं कुर्वन् पित्रादिशिक्षया दातुमहं समुत्सृज इत्यादिपदमुच्चारयन् स्वरूपमजानन्नपि दानफलमाप्नोति । तथात्र स समर्पणगद्यपञ्चाक्ष- रमन्त्रोच्चारणे समर्पयामीति पदमुच्चारयंस्तत्स्वरूपमजानन्नपि समर्पणफलमवाप्नोति । यथा वा रोगाद्यातुरकृतधर्मे मूर्खकृतधर्मे शब्दोच्चारणमात्रेण सिद्धिः, एवमुच्चारणमात्रेण निवे- दनसिद्धिरिति मङ्गलमखिलम् । ननु एकगुरूपदेशग्रहणे दम्पत्योः परस्परं भ्रातृत्वाद्या- पत्तिः, तद्द्विया गुरुपार्थक्यमेव कर्तव्यम्, न त्वेकगुरुत्वमिति चेत्, न । ‘आचारो धर्ममार्गश्च गुरुर्मन्त्रश्च देवताः । दम्पत्यपत्यभृत्येषु एकीकृत्य महत्फल’मिति साधनदीपिकास्थ- पाद्मोत्तरखण्डवाक्यात् । देहजसम्बन्ध एव तथात्वेन पारमार्थिकेस्मिन्निवेदनमन्त्रो- पदेशसम्बन्धे गुर्वैक्येपि दोषाभावात् । अयमेव गुरुत्वरूपः सम्बन्धो न लौकिकः, किन्तु भगवत्प्राप्तिसाधनत्वात् अलौकिकः, अलौकिकसम्बन्धस्य लौकिकपदार्थे दोषजन- कत्वं नास्त्येव । अतो नैकगुरुत्वे दम्पत्योर्भ्रातृभगिनीत्वापातः । ‘अन्नदाता भयत्राता पत्नीतातस्तथैव च । विद्यादाता जन्मदाता पञ्चैते पितरो नृणा’मिति ब्रह्मवैवर्तीयब्रह्मखण्ड- दशमाध्याये सूतवाक्ये पितृत्वादिविधौ पितृवत्पूज्यतामात्रमभिप्रेतम् । अन्यथान्नदात्रा- दीनां पितृत्वेन दम्पत्योरेकपोषकत्वे एककर्तृकभयत्राणे च भ्रातृभगिनीभावापत्तिरिति विवाहवैय्यर्थ्यमेव स्यात् । एवं गुरावपि पितृवत्पूज्यतामात्रमभिप्रेतम् । न त्वेकगुरुकत्व- सम्बन्धे भ्रातृत्वमतो दम्पतिभ्यां भक्तिमार्गे गुर्वैक्यकरणं न दोषायेति दिक् । किञ्च । भारते आश्वमेधिके उत्तङ्कोपाख्याने गौतमेन उत्तङ्काय स्वशिष्याय स्वसुता परिणायिते- त्युक्तम् । ‘इत्थं च परितुष्टं मां विजानीहि भृगूद्वहे’त्यारभ्य ‘ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनी’मित्यन्तेन । कार्तिकमाहात्म्ये च ‘अपुत्रः स च शिष्याय चन्द्रनाम्ने ददौ सुता’ मित्युक्तम् । अतो ज्ञायते गुरुपुत्र्या विवाहेपि दोषो नास्ति । गुरुपुत्र्यां गुरुतल्पातिदेशो व्यभिचारेण तथात्वे विवक्षितो, न तु विवाहे । अन्यथोत्तङ्के चन्द्रनाम्नि च गुरुतल्पगामित्वं स्यात्, अत उक्तैव व्यवस्था सुधीभिरादर्तव्या । एवं भक्तिमार्गीय-
श्रीशाचार्यमतानुवर्तिकृतटीकासमेतम् । ६५ शिष्टसम्प्रदायसिद्धपद्धतिके सन्मार्गीयनिवेदनप्रकारे दूषणलेशोपि नास्तीति निर्दुष्टः पन्था अस्मदाचार्याणामार्याणां च । गोवर्धनेशपदपङ्कजलब्धिहेतुः श्रीवल्लभैर्निगदितात्मनिवेदनाख्या ॥ श्रीविठ्ठलप्रकटिता हरिभक्तिरेषा चर्तुं वाञ्छितफलानयमलाश्रितानाम् ॥ १ ॥ इति श्रीमद्गोवर्धनधरश्रीवल्लभाचार्यवरश्रीविठ्ठलेश्वरचरणानुचरसेवकेन लालूभट्टोपनामविदितदीक्षितबालकृष्णेन विरचिता सिद्धान्त- रहस्यटीका सम्पूर्णा । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीशाचार्यमतानुवर्तिकृतसंवादविवृतिसमेतम् । श्रीवल्लभं नमस्कृत्य तन्मुखोक्तीर्विभाव्य च । क्रियते भक्तिसिद्धान्तरहस्यविवृतिर्मया ॥ १ ॥ अथ श्रीगोपीजनवल्लभः क्वचिच्छ्रावणस्यामले पक्षे एकादश्यां महानिशि प्रादुर्भूय भगवान् अनन्तशयनस्वरूपे१ समर्पितं सितोपलखण्डं स्ववदने निक्षिप्य तदर्पितपवित्रमालिकाः परिधाय प्रोवाच 'श्रीवल्लभ, भवत्प्राकट्यं ममैव स्वास्यात् कृतमस्ति, तेनात्मनिवेदनद्वारा जीवोद्धारणे विलम्बो न कार्य' इति । तदनु कीदृशं तदिति प्रश्ने, भगवान् सगद्यं 'तवा- स्मी'तिपूर्वकं स्वसिद्धान्तरहस्यं समुपदिष्टवान् । तथाहि । एकदा श्रीवल्लभाचार्या धृतव्रताः श्रीगोकुले श्रीयमुनातीरे समुपासीना भगवन्तं श्रीगोपीजनवल्लभं साक्षाद् दृष्टवन्तः । तत्र यदनुभवन्ति स्म, तदेव स्वयमावेदयन्ति श्रावणस्येत्यादिश्लोकैरष्टभिः सार्धैः । धर्मधर्म्य-२ भिप्रायेण दृष्टान्तेन च । प्रथमं प्रतिज्ञावाक्येनाहुः श्रावणस्येति । श्रावणस्यामले पक्ष एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ साक्षादाविर्भूतेन भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ ननु भगवन्, सर्वदोषनिधाने कलौ तथाविधदेहात्मनामेषां जीवानां कथं कस्मात् समुद्धार इति पृष्टो भगवानाह ब्रह्मसम्बन्धकरणादिति । १. शालिग्रामे । २. षड् गुणा धर्मीः, सप्तमो धर्मों, श्रीभगवदभिप्रायेण । सि० र० ९
६६ सिद्धान्तरहस्य । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ निर्दोषं हि समं ब्रह्माहम्, तस्मिन् सम्बन्धस्य करणात् साधकतमात् सद्यपञ्चा- क्षरकथनात् । अंशत्वेपि 'पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्यया'विति भक्ति- मार्गीयात्मसमर्पणपरपर्यायनिवेदनद्वारा सेवकत्वकरणादित्यर्थः । ननु केषां तत्करणमिति चेत्, अत्राह सर्वेषामिति । दैवमध्ये उच्चनीचानामपि स्त्रीपुंनपुंसकानाम् । ननु तत्र देहे- न्द्रियान्तःकरणप्राणजीवसत्त्वात् कुत्र तत्करणमित्यत्राह देहजीवयोरिति । प्राणेन्द्रियान्तः- करणोपचिते देहे जीवेपि । तदा किं भविष्यतीत्याशङ्कायामाहुः सर्वदोषनिवृत्तिर्हीति । ब्रह्म हि निर्दोषं सममिति तत्र सम्बन्धकरणे सा न्याय्येति हिशब्देन सूच्यते । ननु के ते दोषा इत्याकाङ्क्षायामाहुः दोषाः पञ्चविधाः स्मृता इति ॥ २ ॥ ननु किमाख्या तेषाम्, तत्राह सहजा इत्यादिन्त्रिभिः पादैः । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ एते श्रीगोकुलेशोत्सवादिभिर्विवृता एवेति न प्रतन्यन्ते । नन्वेते कथं चिन्त्या इति तत्राह न मन्तव्याः कथञ्चनेति । सत्त्वेन न मन्तव्याः, किन्तु समूलं निवृत्ता इत्यग्रे तु सावधानतया स्थेयमिति भावः ॥ ३ ॥ ननु शास्त्रेषु दोषनिवृत्त्यर्थं भूतशुद्ध्यादिरूपं प्रकारान्तरमपि श्रूयत ( क्रियते ) इति चेत्, तत्राह अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ प्रकारान्तरेणैतदुक्तसर्वदोषाणां कथञ्चन न निवृत्तिः, किन्तु यथाकथञ्चित् केषा- ञ्चिदेवेत्यर्थः । ननु स्वस्याहन्तास्पदानां सधर्माणां देहेन्द्रियप्राणान्तःकरणात्मनां ब्रह्मणि सम्बन्धे समर्पणाख्ये कृतेप्यवशिष्टानां ममतास्पदानां वस्तूनामत्तथात्वे दोषतादवस्थ्यमेवे- त्याशङ्कायामाह असमर्पितेति । तेषामपि समर्पणं यथायोग्यं विधेयमित्यर्थः ॥ ४ ॥ ननु स्वयमेव कृतं कथं तत् सेत्स्यतीत्यत्राह निवेदिभिरिति । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ आत्मनिवेदिभिर्महापुरुषैर्द्वारा ( गुरुभिरिति बहुत्वं पूज्यत्वेन ज्ञेयम् ) सर्वं दारा- गारपुत्राप्तवित्तेहपरादिकं समर्प्य कुर्यात्, स्वान्नादिकं समर्प्य गृह्णीयादिति भक्तिमार्गमर्यादा । ३. वैष्णवत्वकरणात् । ४. सधर्मक.
श्रीशाचार्यमतानुवर्तिकृतटीकासमेतम् । ६७ 'महापुरुषेण निवेदिता' इत्युक्तत्वात् । ननु मतान्तरेऽर्धभुक्तसमर्पणं विधीयते, तथात्रापि न वेत्याशङ्कायामाह भगवान् न मतमिति । न तन्मम मतम् , कुतः, तत्राह देवदेवस्येति । साधारणो देवोपि नैवमङ्गीकुरुते, कथं देवदेवोऽहं तदुच्छिष्टमङ्गीकुर्यामिति भावः ॥ ५ ॥ तर्हि कथं विधेयमित्यत्राह तस्मादादाविति । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सर्वकार्ये लौकिकवैदिके च, अनिषिद्धप्रियसर्ववस्तुसमर्पणं कार्यम् , अत्र बहूनि प्रमाणवचनानि दर्शितानि तैरेव । ननु तर्हि भगवते दत्तस्यापहरणे स्वोपभोगार्थं दोष एव, अनपहरणेऽनिर्वाह इत्युभयतःपाशा रज्जुरेवेत्याशङ्कायामाह, दत्तापहारवचनं, हरेस्तन्न ग्राह्यमिति वाक्यं च भिन्नमार्गपरं मतम् , दानधर्मपूजामार्गपरम् , न तु शुद्धभक्तिमार्ग- परम् । यत्स्वसत्ताकमेव हि दीयते, परसत्तामापाद्यते, तन्न ग्राह्यम् । तथा च सकलं नैवेद्यं तथावादिना न ग्राह्यमित्यापत्तौ सदाचारविरोधः । यद्वा । वस्तुतो हरेः सकलं सर्वमिति किमनेन दत्तम् , यदपहरणे दोषः । किञ्च, नेदमपहरणम् , किन्तु तत्प्रसाददत्त- वस्तुग्रहणं वस्तुतोपि तदीयस्यैव वस्तुनो नितरां वेदनं ज्ञापनं समर्पणं सेवकधर्मः ॥ ६ ॥ कथं तर्हि वर्तितव्यम् , तत्राह सेवकानां यथेति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । तदुच्छेषग्रहणेन वर्तितव्यम् । ततः समर्पणात् सर्वेषां ब्रह्मता निर्दोषतात्मकता ॥७॥ ननु कथं तथा प्रतीयेतेत्यत्राह दृष्टान्तेन गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वेन निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८१/२ ॥ इति श्रीवल्लभाचार्यविरचितं सिद्धान्तरहस्यं समाप्तम् । सर्वेषां दोषवतां जलानामिव गङ्गासम्बन्धे गङ्गात्वम् , गुणदोषादिवर्णना, जलानां गङ्गात्वेन यथा निरूप्या, तद्वदेवात्रापि निश्चेयम् ॥ ८ ॥ इति श्रीभगवत्सन्मुखश्रीवल्लभाचार्यकृतभक्तिसिद्धान्तरहस्यसंवादस्य विवृतिः श्रीशाचार्यवर्यमतानुवर्तिना कृता संपूर्णा ।