भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 398, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 398

तेषां पञ्चविधानां समर्पणजन्येन स्वस्वामिभावसम्बन्धेन निवृत्तिर्जायते । तत्र शूद्रत्वादयः सहजदोषाः । मरुमगधादिदुष्टदेशस्थित्यादयो दोषा न सर्वेषाम् । ब्राह्मणाद्युत्तमकुलोत्प- न्नेषु सहजदोषाभावात् । मथुरादिशुभदेशवासिषु देशदोषाभावात् । अथवा । देशदोषा अपि सर्वेषां भवन्ति । मथुराद्युत्तमदेशस्थितावपि दुष्टस्वामिकस्थलस्थित्यादिजन्यापवि- त्र्यादिरूपदेशदोषाणां तत्रापि सत्त्वात् । न मन्तव्याः कथञ्चनेति । आत्मसमर्पणात् पूर्वं यावन्तो दोषास्ते सर्वेपि समर्पणनाश्याः, अतो निवेदनान्तरं ते न मन्तव्याः । निवेदनकार्ये भगवत्सेवनादौ प्रतिबन्धका न भवन्तीत्यर्थः । नहि सूर्यनाश्यं तमः सूर्य- प्रकाशे प्रतिबन्धकं भवति । ‘निर्गुणो मदपाश्रयः’ ‘मन्निष्ठं निर्गुणं स्मृत’मित्यादि- वाक्यैर्भगवदीयपदार्थस्य निर्गुणत्वेन समर्पितपदार्थेषु दोषसम्बन्धस्य वक्तुमशक्यत्वात् । दोषाणां तु राजसादिगुणमात्रविषयत्वेन भगवत्सम्बन्धिषु निर्गुणपदार्थेष्वभावात् । एवं निर्दोषत्वे सम्पन्ने तादृशाधिकारिणा किं कर्तव्यमित्याकाङ्क्षायां नवरत्नग्रन्थान्नुसन्धा- नेन तनुजवित्तजभगवत्सेवैव कर्तव्येति फलति । यतो निवेदितानां पदार्थानामुपयोगो भगवत्सेवयैव भवति । देहप्राणेन्द्रियान्तःकरणानां दारागारपुत्रासवित्तानामात्मना सह भगवत्सेवायासमुपयोगः स्फुट एव । एवं सति निवेदनफलं भगवत्सेवा, तत्र निर्दोषता द्वारमिति निष्कर्षः । ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य इत्यर्थतः फल’मिति प्रथमस्कन्धसुबोधिन्यामुक्तत्वात् ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथेति । आत्मसमर्पणं विना कर्मज्ञानयोगादिभिर्न सर्वदोषनिवृत्तिः । इह पूर्वमुक्तेषु पञ्चदोषेषु निखिलदोषाणामन्तर्भाव इति ज्ञापयितुं सर्वपदम् । ‘न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पिताप्राणस्तत्पूरुषनिषेवये’ति षष्ठस्कन्धवचनात् । यद्यपि प्रायश्चित्तेन दोषनिवृत्तिस्तथापि न सर्वात्मना दोषापहारः । ‘कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यत’ इति षष्ठस्कन्धे शुकवाक्यात् । एवं ज्ञानेनापि न सर्वथा दोष- नाशः । ‘नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवये’ति शुकवाक्यात् । भक्त्या तु सकलदोष- निवृत्तिः । ‘केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव गोपति’रिति वाक्ये कार्त्स्न्यपदात् नीहारदृष्टान्ताच्च । एवं निवेदनात् पूर्वं कृतानां दोषाणां निवेदनेन निवृत्तिमुक्त्वा निवेदनान्तरं कदाचित् केनचिदनिवेदितपदार्थेन सम्बन्धे बुद्धिभ्रंशादोषोत्पत्तिः सम्भवेदतो दोषाणामनुत्पत्त्यर्थं दोषोत्पादकपदार्थानां हेयत्वमाहुः असमर्पितवस्तूनामिति । भगवदनुपभुक्तान्नवसनस्रग्गन्धादीनामित्यर्थः । यस्मात् असमर्पितस्य सदोषत्वेन तत्सम्बन्धे स्वस्यापि दोषोत्पत्तिः, तस्मादसमर्पितवस्तूनां वर्जनं कर्तव्यमित्यर्थः । अतएव ‘असमर्पितं तथा विष्णोः श्वमांससदृशं भवेत् । शुनोवि-

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 398, कुल 408 में से · BharatKosha