षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 398, कुल 408 में से
संदर्भ में पढ़ेंतेषां पञ्चविधानां समर्पणजन्येन स्वस्वामिभावसम्बन्धेन निवृत्तिर्जायते । तत्र शूद्रत्वादयः सहजदोषाः । मरुमगधादिदुष्टदेशस्थित्यादयो दोषा न सर्वेषाम् । ब्राह्मणाद्युत्तमकुलोत्प- न्नेषु सहजदोषाभावात् । मथुरादिशुभदेशवासिषु देशदोषाभावात् । अथवा । देशदोषा अपि सर्वेषां भवन्ति । मथुराद्युत्तमदेशस्थितावपि दुष्टस्वामिकस्थलस्थित्यादिजन्यापवि- त्र्यादिरूपदेशदोषाणां तत्रापि सत्त्वात् । न मन्तव्याः कथञ्चनेति । आत्मसमर्पणात् पूर्वं यावन्तो दोषास्ते सर्वेपि समर्पणनाश्याः, अतो निवेदनान्तरं ते न मन्तव्याः । निवेदनकार्ये भगवत्सेवनादौ प्रतिबन्धका न भवन्तीत्यर्थः । नहि सूर्यनाश्यं तमः सूर्य- प्रकाशे प्रतिबन्धकं भवति । ‘निर्गुणो मदपाश्रयः’ ‘मन्निष्ठं निर्गुणं स्मृत’मित्यादि- वाक्यैर्भगवदीयपदार्थस्य निर्गुणत्वेन समर्पितपदार्थेषु दोषसम्बन्धस्य वक्तुमशक्यत्वात् । दोषाणां तु राजसादिगुणमात्रविषयत्वेन भगवत्सम्बन्धिषु निर्गुणपदार्थेष्वभावात् । एवं निर्दोषत्वे सम्पन्ने तादृशाधिकारिणा किं कर्तव्यमित्याकाङ्क्षायां नवरत्नग्रन्थान्नुसन्धा- नेन तनुजवित्तजभगवत्सेवैव कर्तव्येति फलति । यतो निवेदितानां पदार्थानामुपयोगो भगवत्सेवयैव भवति । देहप्राणेन्द्रियान्तःकरणानां दारागारपुत्रासवित्तानामात्मना सह भगवत्सेवायासमुपयोगः स्फुट एव । एवं सति निवेदनफलं भगवत्सेवा, तत्र निर्दोषता द्वारमिति निष्कर्षः । ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य इत्यर्थतः फल’मिति प्रथमस्कन्धसुबोधिन्यामुक्तत्वात् ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथेति । आत्मसमर्पणं विना कर्मज्ञानयोगादिभिर्न सर्वदोषनिवृत्तिः । इह पूर्वमुक्तेषु पञ्चदोषेषु निखिलदोषाणामन्तर्भाव इति ज्ञापयितुं सर्वपदम् । ‘न तथा ह्यघवान् राजन् पूयेत तपआदिभिः । यथा कृष्णार्पिताप्राणस्तत्पूरुषनिषेवये’ति षष्ठस्कन्धवचनात् । यद्यपि प्रायश्चित्तेन दोषनिवृत्तिस्तथापि न सर्वात्मना दोषापहारः । ‘कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यत’ इति षष्ठस्कन्धे शुकवाक्यात् । एवं ज्ञानेनापि न सर्वथा दोष- नाशः । ‘नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवये’ति शुकवाक्यात् । भक्त्या तु सकलदोष- निवृत्तिः । ‘केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव गोपति’रिति वाक्ये कार्त्स्न्यपदात् नीहारदृष्टान्ताच्च । एवं निवेदनात् पूर्वं कृतानां दोषाणां निवेदनेन निवृत्तिमुक्त्वा निवेदनान्तरं कदाचित् केनचिदनिवेदितपदार्थेन सम्बन्धे बुद्धिभ्रंशादोषोत्पत्तिः सम्भवेदतो दोषाणामनुत्पत्त्यर्थं दोषोत्पादकपदार्थानां हेयत्वमाहुः असमर्पितवस्तूनामिति । भगवदनुपभुक्तान्नवसनस्रग्गन्धादीनामित्यर्थः । यस्मात् असमर्पितस्य सदोषत्वेन तत्सम्बन्धे स्वस्यापि दोषोत्पत्तिः, तस्मादसमर्पितवस्तूनां वर्जनं कर्तव्यमित्यर्थः । अतएव ‘असमर्पितं तथा विष्णोः श्वमांससदृशं भवेत् । शुनोवि-