षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 399, कुल 408 में से
संदर्भ में पढ़ेंश्रीदीक्षितलालूभट्टकृतटीकासमेतम् । ५९ ष्ठासमं चान्नं नीरं तत्सुरया सम'मित्यादिवाक्यैरसमर्पितसम्बन्धे दोषबाहुल्यं गीयते । एवमसमर्पितवस्तूनां हेयत्वकथनेन तत्सम्बन्धं निराकृत्य दोषानुत्पत्तिप्रकारमुक्त्वा देहादिनिर्वाहार्थं कृतात्मनिवेदनः प्रेमासक्तिव्यसनसर्वात्मभावान्तभक्तिहेतुभूताधिदैविकी- शुद्ध्यर्थं च भक्तिमार्गीयमुपायमाहुः निवेदिभिः समर्प्यैव सर्वं कुर्यादिति । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदनं निवेदः, निवेदो येषामस्ति ते निवेदिनः पदार्थाः अन्नादयः, तैः निवेदिभिः पदार्थैः सर्वं भक्षणादिव्यवहारं कुर्यात्, परन्तु समर्प्यैव कुर्यात् । अत्रेदं आकूतम् । सगद्यप- ञ्चाक्षरमन्त्रग्रहणावसरे सर्वेपि स्वकीयाः पदार्था देहादयो दारागारादयश्च भूतभविष्यद्वर्तमान- कालसम्बन्धिनो निवेदिता ब्रह्मसम्बन्धिनो निर्दुष्टा बभूवुः । अतस्ते सर्वेपि पदार्था निवेदिपद- वाच्याः, तेषां पुनः समर्पणं नाम तत्तदवसरे भगवदुपयोगकरणम्, अतो मन्त्रग्रहणावसरे निवे- दितानामन्नादीनां भगवदुपयोगं कृत्वा भगवदुपयुक्तशिष्टेन भक्षणादिव्यवहारं कुर्यादिति । तथा च पञ्चाक्षरमन्त्रग्रहणेन स्वकीयपदार्थानां ब्रह्मसम्बन्धः स तु सामान्यतः समर्पणम् । पुनस्तदु- योगिकरणं विशेषतः समर्पणं ज्ञेयम् । एवं समर्पितात्मनः सर्वे पदार्था भगवदीयत्वान्निर्दुष्टा- स्तान् भगवदुपयुक्तान् कृत्वा तद्दत्तप्रसादत्वेन भक्षणादिव्यवहारो भक्तिमार्गे प्रशस्तः । तदुक्तं श्रीप्रभुचरणैर्नवरत्नप्रकाशे 'तद्दत्तप्रसादत्वेन स्वोपभोगकृतिरुचिततरे'ति । प्रसादत्वेन ग्रहणं कृतार्थतासम्पादकम् । 'त्वयोपभुक्तस्रग्गन्धवासोलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमही'त्येकादशस्कन्धे श्रीमदुद्धववाक्यात् । अतः सामान्यसमर्पणविशेषसमर्पणो- भयसूचनार्थं निवेदिभिः समर्प्येति पदद्वयेन निवेदनमुक्तम् । इदं त्विह विशिष्यावधेयम् । निवेदनमन्त्रग्रहणेन ब्रह्मसम्बन्धे सर्वेषां पदार्थानामन्नादीनां या शुद्धिः सा त्वाधिदैविकी । तस्यां सिद्धायामपि दुष्टस्पर्शादिदोषनिवृत्तये भगवन्नामाभिमन्त्रितजलप्रोक्षणादिजन्या जलक्षालनादिजन्या भौतिकी शुद्धिः कर्तव्या । एवं शङ्खोदकतुलसीगोपालमन्त्रशरण- मन्त्रोच्चारणादिनाध्यात्मिकी शुद्धिः, सापि कर्तव्यैव । श्रीमदाचार्यवर्यैस्तु पुष्टिमार्गे या विशेषतः समर्पणजन्या शुद्धिः सात्र ग्रन्थे निरूपिता । सामान्यतो भौतिकी शुद्धिस्तु स्मृतिपुराणधर्मशास्त्रप्राप्तैवेति सा नोक्ता, नैतावता तस्या निषेधः । अतः सा यथाशास्त्रं विधेयैव । अतएव भगवत्सेवार्थं स्नात्वा गच्छतो निवेदितात्मनः पुंसो मध्ये निषिद्ध- स्पर्शदोषनिवारणार्थं पुनः स्नानादिना शुद्धिस्सम्पादनमार्याणां व्यवहारः । एवमेव पात्रादीनां यथाशास्त्रं शुद्धिकरणमस्मत्सम्प्रदायेऽस्ति । अत एव पुत्रजन्मनि वृद्धिसूतके देहाशुद्धिं मन्वाना न भगवच्चरणौ स्पृशन्ति । दशदिवसानन्तरं यथापूर्वमाचरन्ति, तावता कालेन शुद्धेः शास्त्रसिद्धत्वात् । सेयं भौतिकी शुद्धिर्न निवेदनहेतुका । अन्यथा देहादीनां समर्पितत्वेन सकलाशुद्धिसम्बन्धस्य वक्तुमशक्यतया स्नानादिशुद्धेर्निष्प्रयोजनकत्वं स्यात् ।