षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 400, कुल 408 में से
संदर्भ में पढ़ें६० सिद्धान्तरहस्यम् । ज्ञानसन्ध्यावन्दनादिरूपं शोधकं परमभक्तानामपि व्यवहारे दृश्यते । 'इति स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निक' इति वाक्यात् । तदन्यथानुपपत्त्या भौतिकी शुद्धिवैष्णवा- नामुचितेत्यायाति । अतो भौतिकी शुद्धिर्जलक्षालनादिना शङ्खोदकादिना चाध्यात्मिकी शु- द्धिर्यथाशास्त्रं सम्पादनीया । ननु शुद्धिद्वयं स्नानशङ्खोदकादिना सम्पाद्यम् , अधिदैविकी शुद्धिः समर्पणेन संपन्ना, ततो द्वितीयस्य विशेषतः समर्पणस्य किं प्रयोजनमिति चेत्, श्रूयताम् । भगवते समर्पितानां पदार्थानां भगवदुपयोगकरणाभावेऽपराधः स्यात् । सामान्यतः समर्पितानां भगवदुपयोगं विना स्वोपयोगे तु महानेवापराधसमुदाय आपद्येत । अतः सामान्यतः समर्पितानां भगवदुपयोगकरणरूपं विशेषतः समर्पणमावश्यकमेव । तदेतदुक्तं निवेदिभिः समर्प्यैव सर्वं कुर्यादिति । अत्र ह्यसङ्कुचितवृत्तिना सर्वपदेन लौकिकवैदिकव्यवहारः सर्वोपि गृहीतः । तथा च नित्ये नैमित्तिके च कर्मणि कर्माङ्गदेवताभ्यो यदन्नं देयं तदपि भगवते समर्प्यैव देयमिति स्फुटति स्म । अत एव 'विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश्चापि तद्देयं तदानन्त्याय कल्पत' इत्यादिवचांस्युपलभ्यन्ते । युक्तं चैतत् । 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजनमुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय'मिति प्रह्लादवाक्यात् सर्वे देवा भगवद्भक्ताः । अतस्तेषां भगवदीयत्वाद्भगव- त्प्रसाददाने तेषां प्रसाद एव । ननु सर्वोपि पदार्थो भगवते समर्पणीय इत्युक्तम् , एवं सति केनचिद्देवन्तरोपयुक्तशिष्टवसनादिकं स्वस्मै दत्तं तर्हि तद्भगवते समर्पणीयं न वेत्याकाङ्क्षायां नेत्याहुः न मतं देवदेवस्येत्यादिना । यतो भगवान् देवानामपि देवः पूज्यः स्वामी, अतो भगवद्भुक्तशिष्टं सर्वेभ्योपि देयम्, अन्यभुक्तशिष्टं तु हरये नार्पणीयम् । 'पितृशेषं तु यो दद्याद्धरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति क्लेशभागिन' इत्यादि- निषेधात् । तदेतदाहुः न मतं देवदेवस्येत्यादि । एवमुक्त्वा सिद्धमुपदिशन्ति तस्मादादौ सर्वकार्य इत्यादिना । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । यस्मात् सामिभुक्तं प्रभवे न निवेद्यम् , किन्तु कृष्णोपभुक्तशिष्टेन देवतायजनं स्वस्य भोजनादिव्यवहारश्च शास्त्रसिद्धः, तस्मादादौ सर्वं श्रीकृष्णाय समर्पणीयमित्यर्थः । ननु भगवत्समर्पितस्य पुनः प्रसादत्वेन ग्रहणे दत्तस्यापहारो भवति, अतो न युक्तमित्याशङ्क्य समाधिमाहुः दत्तापहारवचनमित्यादिना । दत्तापहारवचनं भिन्नमार्गपरमित्यन्वयः । दत्तापहारस्य वचनं निषेधकवचनं भिन्नमार्गपरम्, न तु भक्तिमार्गे निषेधः । निषेधस्य प्राप्तिपूर्वकत्वात् । भक्तिमार्गे दत्तापहारस्याप्राप्तत्वात् । अस्मिन् मार्गे हि देहादी- नामात्मना सह भगवते निवेदनम्, न तु दानम्, स्वसत्तानिवृत्तिपूर्वकपरसत्तोपादानस्य