भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 394, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 394

५४ सिद्धान्तरहस्यम् ।

जनकेन पृष्ट आविर्होत्र उवाच। 'कर्माकर्मविकर्मे'त्यारभ्याग्रे 'य आशु हृदयग्रन्थि निर्जिहीर्षुः परात्मनः । विधिनोपचरेद्देवं तन्त्रोक्तेन च केशव'मित्यादिप्रश्नोत्तरैः । अतस्तानि वाक्यानि तादृग्भक्तिपराणि इत्यत्रानवकाशपराहतानि इति सर्वथा नोपेक्षणीयानीत्यर्थः। अन्यथा 'त्वयो- पभुक्तस्रग्गन्ध', 'अम्बरीष नवं वस्त्रम्', 'विष्णोर्निवेदितान्नेन', 'मुकुन्दाशनशेषं तु' इत्या- दिवाक्यसहस्राण्यगतिकानि भवेयुः । चिरात् प्रदृश्यमानप्रागाचार्यचरणपरम्परा अप्य- प्रामाणिक्य एव च तिष्ठेरन् । नतु पूर्वोक्तमार्गेषु सङ्कल्पपूर्वकं वैधप्रकारेण निवेद्यत इति भक्तिमार्गे तन्निषेधो युक्त एव । अथैतन्मार्गीयैः केन प्रकारेण भगवद्वस्तुसमर्पणं कार्यमित्याकाङ्क्षायामाहुः सेवका- नामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । लोके ह्यस्मिन् सेवकानां व्यवहारः यथा प्रकर्षेण सिध्यति, तथा तेन प्रकारेण सर्वं समर्प्य सर्वं कार्यमात्रं कार्यं कर्तव्यमित्यर्थः । स व्यवहारो यथा सेवकैस्तु स्वप्रभोरग्रे सेवकभावेनैव सर्वं वस्तुसमर्पणं क्रियते, तथैव स्थीयते च, एवं व्यवहारो लोके प्रसिद्धो भवति । अयं भगवदग्रे सेवकभावेन सर्वं वस्तु समर्प्य तथैव च तिष्ठतीति भगवानप्येनं सेवकत्वेनैव मनुतेऽनुगृह्णाति च । एवं प्रकारकं ज्ञानं यथा सर्वलोकानां भवति, तथा सर्व- समर्पणं कार्यं तथैव स्थेयं च । अत्राप्ययमाशयः । यथा सेवको गृहदासस्तेन स्वीयं वस्तु- मात्रं पूर्वमेव स्वप्रभवे सर्वथा निवेद्यते, पश्चात् प्रभुणा स्वप्रसादत्वेन यद्दीयते तेनैव स्वोप- भोगः सर्वोपि क्रियत इति सर्वदा सर्वत्र दृश्यते श्रूयते च, तथैवानेनापि भगवदग्रे व्यवह- र्तव्यमिति दिक् । समर्पणग्रहणे प्रमाणवाक्यानि तु 'त्वयोपभुक्ते'त्यादीनि पूर्वमेवोक्तानि । ननु भगवान् पुरुषोत्तमत्वादलौकिक इति तस्मिन् सेवादिकरणमप्यलौकिकप्रकारेणैवोचित- मिति स्मृतिपुराणाद्युपदिष्टं सेवाप्रकारमनुक्त्वा लोकरीत्या सेवाकरणोपदेशे को हेतुरिति चेत् । न । अत्रोच्यते । स्मृत्याद्युक्तप्रकारास्तु विधिबोधिता इति तदधीनत्वात् तदधीनस्वरूपपर्य- वसायिन एव । अस्मिन् मार्गे तु पुरुषोत्तम एव भजनीय इति । तस्य च 'न रोधयति मां योगो,' 'नाहं वेदै'रित्यादिभिर्विध्यनधीनत्वादत्र वैधप्रकाराणामकिञ्चित्करत्वेन लोक- सिद्ध एव सः प्रदर्शित इत्यवधेयम् । तर्ह्यस्यापि मार्गस्य लौकिकत्वं भवतीति चेत् । न । 'लोकवल्लीलाकैवल्य'मित्युक्तेर्लोकवद्दृश्यमानापि सा भगवदीयकृतसेवा वस्तुसमर्पणादिरूपा भगवत्कृततत्स्वीकारतद्गताङ्गीकारादिरूपा चालौकिक्येव । यद्यपि 'न रोधयति मा'मित्या- दिभिर्भगवतो विध्यनधीनत्वमात्रं तूक्तमेव, तथापि तादृशसेवाप्रकारो नोक्त इति स प्रकारोत्र प्रदर्शितः । तर्ह्यस्य प्रकारस्यैव स्मृत्याद्यनुक्तत्वादमूलकत्वमिति चेत् । न । 'यदृच्छया तुष्यते हरि'रिति शूद्रवृत्तेरेव भगवत्तोषहेतुत्वमुक्तम् । यतः सा तु न वैधा, मन्त्राद्यधीना वा, तेषां तत्र नाधिकारात् । अत एतत्सर्वं विचार्यैवाचार्यैर्लोककृतसेवादृष्टान्त उक्त इति सर्वमवदातम् ।