षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 395, कुल 408 में से
संदर्भ में पढ़ेंदीक्षितलालूभट्टकृतटीकासमेतम् । ५५ ननु एवं कृतेऽग्रे तस्य किं फलं भवतीत्याकाङ्क्षायामाहुः सर्वेषामिति । ततस्तदनन्तरं पूर्वस्मिन् स्थितानां गुणानां दोषाणां च ब्रह्मता । भगवदीयत्वेन भगवद्रूपतैव भवति । भगवदी- यानां भगवद्रूपता तु भगवतैवोक्ता 'ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्,' 'नोद्धवोऽण्वपि मन्न्यून' इत्यादि । तथात्वे जाते न तेषु पुनर्देाषत्वं, कदाचिदपि न तिष्ठतीति भावः। यथा कामादयो भगवति निवेदिताश्चेत्तदीया भूत्वा न पुनर्देाषत्वाय कल्पन्ते, किन्तु प्रत्युत सर्वलौकिकफलसाधकत्वायैवेति दिक् । तदुक्तम् । 'न मय्यावेशितधियां कामः कामाय कल्पते' 'कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव वे'त्यादिभिः। ननु तथापि दोषाणां ब्रह्मरूपता प्रत्यक्षतया कुत्रापि दृष्टा नेति प्रत्यक्षवादिनां बहि- र्मुखानां शङ्कां परिहरन्तो गङ्गादृष्टान्तेन तमेवार्थं प्रत्यक्षं दर्शयन्त आहुः गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा प्रणालादिकुत्सितस्थानेभ्यो गङ्गायां समागतानां जलानां तद्गतदोषाणां च गङ्गा- त्वमेव सम्पद्यते, तदनन्तरं या तत्र गुणदोषादिवर्णना, कथनरूपा, सा संयोगानन्तरं तत्र गङ्गात्वे जाते निरूप्या कथनीया न स्यात् । अथवा । सा वर्णना यथा तदनन्तरं गङ्गात्वेनैव निरूप्या, कथनीया स्यात्, न क्वापि दोषत्वेन, तद्वदेवात्रापि भगवति सर्वस्व- निवेदनानन्तरं स्थितानामपि दोषाणां भगवदीयत्वमेवेति ज्ञात्वा तथैव कथनीयं करणीयं च, नान्यथा कथमपीति निगर्वः । इति श्रीविठ्ठलनाथचरणैकतानगिरिधरकृतौ सिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । दीक्षितश्रीलालूभट्टकृतटीकासमेतम् । श्रीमद्गोपतनितम्बनीमणिनिजप्राणप्रियानिर्मित- क्रीडाम्भोनिधिरासमण्डललसद्राकावधूनायकम् । कोटीन्दुद्युतिवन्दितं स्मरमनोहारित्विषानन्दितम् वन्दे वेदशिरःसमीडितगुणं गोवर्धनैशं प्रभुम् ॥ १ ॥ जयन्ति वल्लभाचार्यविठ्ठलेशाङ्घ्रिरेणवः । कुशलाः स्वीकृतस्वान्तमोहध्वान्तनिवारणे ॥ २ ॥ अथ श्रीमदाचार्यचरणाः पुष्टिमार्गीयजीवानां पुष्टिमार्गेऽङ्गीकारं चिकीर्षवः साक्षात् पुष्टिपुरुषोत्तममुखसरसीरुहोद्गतानि वाक्यानि स्वमात्रविषयीभूतानि भगवत्कृपापात्राणां निजोपदेशविषयकश्रद्धाधिक्यसम्पादनार्थं ग्रन्थरूपेण सङ्गतिपूर्वकं निरूपयन्ति श्राव-