षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 407, कुल 408 में से
संदर्भ में पढ़ेंश्रीशाचार्यमतानुवर्तिकृतटीकासमेतम् । ६७ 'महापुरुषेण निवेदिता' इत्युक्तत्वात् । ननु मतान्तरेऽर्धभुक्तसमर्पणं विधीयते, तथात्रापि न वेत्याशङ्कायामाह भगवान् न मतमिति । न तन्मम मतम् , कुतः, तत्राह देवदेवस्येति । साधारणो देवोपि नैवमङ्गीकुरुते, कथं देवदेवोऽहं तदुच्छिष्टमङ्गीकुर्यामिति भावः ॥ ५ ॥ तर्हि कथं विधेयमित्यत्राह तस्मादादाविति । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सर्वकार्ये लौकिकवैदिके च, अनिषिद्धप्रियसर्ववस्तुसमर्पणं कार्यम् , अत्र बहूनि प्रमाणवचनानि दर्शितानि तैरेव । ननु तर्हि भगवते दत्तस्यापहरणे स्वोपभोगार्थं दोष एव, अनपहरणेऽनिर्वाह इत्युभयतःपाशा रज्जुरेवेत्याशङ्कायामाह, दत्तापहारवचनं, हरेस्तन्न ग्राह्यमिति वाक्यं च भिन्नमार्गपरं मतम् , दानधर्मपूजामार्गपरम् , न तु शुद्धभक्तिमार्ग- परम् । यत्स्वसत्ताकमेव हि दीयते, परसत्तामापाद्यते, तन्न ग्राह्यम् । तथा च सकलं नैवेद्यं तथावादिना न ग्राह्यमित्यापत्तौ सदाचारविरोधः । यद्वा । वस्तुतो हरेः सकलं सर्वमिति किमनेन दत्तम् , यदपहरणे दोषः । किञ्च, नेदमपहरणम् , किन्तु तत्प्रसाददत्त- वस्तुग्रहणं वस्तुतोपि तदीयस्यैव वस्तुनो नितरां वेदनं ज्ञापनं समर्पणं सेवकधर्मः ॥ ६ ॥ कथं तर्हि वर्तितव्यम् , तत्राह सेवकानां यथेति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । तदुच्छेषग्रहणेन वर्तितव्यम् । ततः समर्पणात् सर्वेषां ब्रह्मता निर्दोषतात्मकता ॥७॥ ननु कथं तथा प्रतीयेतेत्यत्राह दृष्टान्तेन गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वेन निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८१/२ ॥ इति श्रीवल्लभाचार्यविरचितं सिद्धान्तरहस्यं समाप्तम् । सर्वेषां दोषवतां जलानामिव गङ्गासम्बन्धे गङ्गात्वम् , गुणदोषादिवर्णना, जलानां गङ्गात्वेन यथा निरूप्या, तद्वदेवात्रापि निश्चेयम् ॥ ८ ॥ इति श्रीभगवत्सन्मुखश्रीवल्लभाचार्यकृतभक्तिसिद्धान्तरहस्यसंवादस्य विवृतिः श्रीशाचार्यवर्यमतानुवर्तिना कृता संपूर्णा ।