षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 387, कुल 408 में से
संदर्भ में पढ़ेंनिवेदिनाम्। मयि संजायते भक्तिः कोऽन्योऽर्थोस्यावशिष्यत' इति पञ्चमे पूर्वोक्तभक्तिप्राप्त्या पुरुषार्थसमाप्तिमुक्त्वा, समाप्यते। अतोधिकारभेदात्साधनभेदात्फलभेदाच्च भक्तिमार्गयोर्भेदे सिद्धे दत्तापहारबोधकं वाक्यं यत्रोक्तम्, तत्तज्जातीयपरमेव, नैतन्मार्गपरम्, अतो नात्र समर्पितस्य पुनः समर्प्यग्रहणे आज्ञाभङ्गदोषो वाक्यविरोधो वेति बोध्यम्। ननु भवत्वेवं वाक्यविरोधपरिहारादिकम्, तथापि सर्वकार्यादौ सर्ववस्तुसमर्पण- मसमर्पितवस्तूनां वर्जनाचरणं च यदुक्तम्, तदशक्योपदेशरूपम्। न हि सर्वाणि कार्याणि पूर्वं ज्ञातुं शक्यन्ते। ज्वरादिपथ्यत्वेन वैद्यैस्तदानीं देयत्वेनोक्तस्य पूर्वं ज्ञातुमशक्यत्वात्। तथा केनचिद्दासेन सम्बन्धिना वा शिष्येण वा इष्येन वा सविनयं बलादिना वा स्वगृहे भोजने वस्त्रालङ्कारादेर्वा दाने तत्र तत्कर्तुमशक्यत्वेन असमर्पितवर्जनस्य कर्तुमशक्यत्वात्। तथा सति कथं तत्र स्वधर्मनिर्वाह इत्यत आहुः सेवकानामित्यादि। सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥७॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः। सेवन्ते ये ते सेवकाः सेवाकर्तार इति यावत्। यथा लोके तेषां व्यवहारः प्रसिद्धोस्ति, तथा समर्प्यैव कार्यम्। निष्कपटसेवकाः स्वगुरुं वा स्वप्रभुं वा कार्यात् पूर्वं पश्चाद्वा कचि- त्कालद्वयेपि वा विज्ञापयन्तीति तथा समर्प्य व्यवहरणीयम्। विज्ञापनेपि समर्पणपदप्रयोगस्य साधितत्वात्। किञ्च। गुणसन्निपातरूपो मनोमात्रेन्द्रियासुव्यापारो हि व्यवहारः। स यथा सेवकानां प्रसिध्यति संपद्यते, तथा समर्प्यैव कार्यम्। 'उद्यतस्य हि कामस्य प्रतिवादो न शक्यते। अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुन'रिति वाक्यात्कामः प्रतिवदितुमशक्यः। तथा च स्वस्य किञ्चिद्वस्तुबुभुक्षोत्पत्तौ प्रभवे विज्ञाप्य, तत्कृत्वा समर्प्य, पश्चाद्भोक्तव्यम्। 'यद्यदि- ष्टतमं लोके यच्चापि प्रियमात्मनः। तत्तन्निवेदयेन् मह्यं तदानन्त्याय कल्पत'इत्येकादशस्कन्धे सदादृतभक्तिकथने भगद्वाक्यात्। एवं स्वाशक्त्या सर्वपाककरणाशक्तौ स्वार्थं जातिकुल- मर्यादानिर्वाहाय तावन्मात्रपाकं कृत्वा समर्पणेपि न दोषः। लोकव्यवहारस्य तथैव सिद्धेः। एतावान्परं विशेषो यदूनविंशाध्याये भक्तिपरमकारणत्वेनात्मनिवेदिनां ये धर्मा उक्ताः 'श्रद्धामृतकथायां म'इत्यादिना सार्धैश्चतुर्भिः, तत्र सर्वकामविवर्जनस्य भगवदर्थे तद्विरोधि- नामर्थभोगसुखानां परित्यागस्य च कथनात्तद्विरुद्धमिदं मुख्यसाधनकक्षां नारोहति, तस्मादेवं कुर्वता 'जुषमाणश्च तान्कामा'निति न्यायेन ग्लानिः स्थाप्या, 'अशक्ये वा सुशक्ये वा सर्वथा शरणं हरि'रिति च भावनीयम्। अङ्कुशवज्रयुक्तं चरणं च ध्यातव्यम्। येनायं मनोदोषः सः शीघ्रं निवर्तेत इति प्रसङ्गादुक्तम्। न च समानकर्तृकयोः क्रिययोः पूर्वकाले क्त्वानुशासनादत्र समर्प्येति प्रयोगेण कार्यात्पूर्वकालिकत्वं समर्पणस्य लभ्यत इति कथं पश्चादित्युक्यत इति शङ्क्यम्। अत्र सेवकीयलोकव्यवहारवद्भगवत्सेवकव्यवहार- सिद्ध्यर्थं तथाकरणस्य विधेयत्वेन समर्प्येत्यस्य कार्यविशेषणतामात्रे तात्पर्यण अनूदित- तया कालबोधने तात्पर्याभावात्। अन्यथा सर्वादौ समर्पणवाक्येनैव सर्वकार्य-