षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 386, कुल 408 में से
संदर्भ में पढ़ें४६ सिद्धान्तरहस्यम् । इति वाक्याच्च स्वस्य भगवदाज्ञाकारित्वं श्रौतस्मार्तकर्मणां भगवदाज्ञाप्राप्तत्वं चानुसन्धाय, विष्णुधर्मोत्तरे शंकरगीतासु 'अपृष्ट्वा यस्तु यां काञ्चित्क्रियां नारभते हरिम् । असंभिन्ना- र्थ मर्यादस्तस्य तुष्यति केशव' इति वाक्यात्स्वधर्मत्वाच्च तत्करणार्थं भगवद्विज्ञप्तिं कृत्वा तत्संभारान् संभृत्य कर्मकरणार्थं पुनराज्ञां प्रार्थ्य महापाकादेः समर्पयितुमशक्यत्वान्मनसा वाचा च समर्पणं कुर्यात् । श्राद्धार्थे स्वल्पे पाके तु प्रत्यक्षवस्तूनां सिद्धानामेव समर्पणं कुर्यात् । एवं लौकिकेपि पूर्वं कृत्वा पश्चात्तत्तत्कार्यं कुर्यादिति । न च विज्ञापने समर्पणव्यव- हाराभावान्नैवमिति शङ्क्यम् । विज्ञापनं विशेषेण ज्ञापनमर्थस्य सम्यग्बोधनमिति यावत् । तत्र तु प्रयोगो दृश्यते । समर्पकमिदं वाक्यम्, असमर्पकोयं शब्द इति विदुषां व्यवहारात् । एतस्य च सम्यग्बोधन एव पर्यवसानात् । एवं निवेदनपदेपि बोध्यम् । 'निवेदितोज्झिरसे'त्यादौ तथा दर्शनादिति । ननु भवत्वेवमुक्तरीत्या सर्वसमर्पणे दोषाभावः, तथापि 'भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भििरादृते'त्युद्धवप्रश्ने, भगवता यदा 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्या- दिना भक्तिमार्ग उपदिष्टः, तत्र 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मित्याज्ञप्तम्, तदकरणादाज्ञाभङ्गदोषः कथं निरसनीय इत्यतस्तदनूद्य तद्विषयव्यवस्थामाहुः दत्तापहारे- त्यादि । दत्तस्य भगवते समर्पितस्य अपहारः, पुनर्जीवोपयोगाय ग्रहणमुच्यते, निषिद्धतया कथ्यते यस्मिन्, तद्दत्तापहारवचनम्, 'अपि दीपावलोकम्' इत्यादिजातीयकं वाक्यं भक्ति- मार्गोपदेशे वर्तत इति शेषः । तथा च हरेः सम्बन्धिसकलं सर्वं समर्प्यापि न ग्राह्यमि- त्येवमर्थकं भिन्नमार्गपरं विवक्षितभक्तिमार्गादन्यमार्गविषयं मतं विचारितम् । अयमर्थः । इदं हि वाक्यमेकादशाध्याये भगवति निश्चलमनोधारणाशक्तौ 'यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चल'मित्यादिना तदनुकल्पकथने या भक्तिरुपासनशेषत्वेनोक्ता, तत्प्रकार उद्धवेन पृष्टे, 'मल्लिङ्गमद्भक्तजने'त्याद्यष्टभिस्तन्मार्ग उपदिष्टस्तेषु वर्तते । तत्र च यथा स्वलिङ्गदर्शनादयो धर्माः पृथगुक्ताः, तथा वैदिकी तान्त्रिकी दीक्षापि पृथगुक्ता, सा नास्मिन्मार्गे, भक्तिमार्गीयोपदेशस्यात्र विवक्षितत्वात् । तथा दास्येनात्मनिवेदनमपि तथोक्तम्, तदपि नात्र पृथग्धर्मत्वेन । अधिकाररूपतया तस्यात्र पूर्वं विवक्षितत्वात् । तथाग्रे 'सूर्योऽग्निर्ब्राह्मणा गाव'इत्यादिना पूजास्थानान्येकादश निर्दिष्टानि । समाप्तौ च 'इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवये'ति तथा कृतौ भक्तिलाभः, तया स्वस्मृतिः फलत्वेनोक्ता । विवक्षितो मार्गस्तु 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखे'ति सुगोप्यकथनं प्रतिज्ञाय, ततो द्वादशाध्याये तां भक्तिमुक्त्वा, ततोग्रे षडध्याय्या अन्यदपि तत्प्रश्नानुसारेणोक्त्वा, पश्चादूनविंशे 'आख्याहि विश्वेश्वर विश्वमूर्ते', 'त्वद्भक्तियोगं च महद्विमृग्य'मिति महदभिलषितभक्तिप्रश्ने पुनस्तेन कृते, भगवता 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मिति द्वादशाध्यायोक्तां भक्तिं परामृश्य, तत्परमकारणत्वेन कथितार्थपुनरावृत्तिं प्रतिज्ञाय, 'श्रद्धामृतकथायां मे' इत्यादिभिश्चतुर्भिरुक्त्वा, 'एवं धर्मैर्मनुष्याणामुद्धवात्म-