भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 386, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 386

४६ सिद्धान्तरहस्यम् । इति वाक्याच्च स्वस्य भगवदाज्ञाकारित्वं श्रौतस्मार्तकर्मणां भगवदाज्ञाप्राप्तत्वं चानुसन्धाय, विष्णुधर्मोत्तरे शंकरगीतासु 'अपृष्ट्वा यस्तु यां काञ्चित्क्रियां नारभते हरिम् । असंभिन्ना- र्थ मर्यादस्तस्य तुष्यति केशव' इति वाक्यात्स्वधर्मत्वाच्च तत्करणार्थं भगवद्विज्ञप्तिं कृत्वा तत्संभारान् संभृत्य कर्मकरणार्थं पुनराज्ञां प्रार्थ्य महापाकादेः समर्पयितुमशक्यत्वान्मनसा वाचा च समर्पणं कुर्यात् । श्राद्धार्थे स्वल्पे पाके तु प्रत्यक्षवस्तूनां सिद्धानामेव समर्पणं कुर्यात् । एवं लौकिकेपि पूर्वं कृत्वा पश्चात्तत्तत्कार्यं कुर्यादिति । न च विज्ञापने समर्पणव्यव- हाराभावान्नैवमिति शङ्क्यम् । विज्ञापनं विशेषेण ज्ञापनमर्थस्य सम्यग्बोधनमिति यावत् । तत्र तु प्रयोगो दृश्यते । समर्पकमिदं वाक्यम्, असमर्पकोयं शब्द इति विदुषां व्यवहारात् । एतस्य च सम्यग्बोधन एव पर्यवसानात् । एवं निवेदनपदेपि बोध्यम् । 'निवेदितोज्झिरसे'त्यादौ तथा दर्शनादिति । ननु भवत्वेवमुक्तरीत्या सर्वसमर्पणे दोषाभावः, तथापि 'भक्तिस्त्वय्युपयुज्येत कीदृशी सद्भििरादृते'त्युद्धवप्रश्ने, भगवता यदा 'मल्लिङ्गमद्भक्तजनदर्शनस्पर्शनार्चन'मित्या- दिना भक्तिमार्ग उपदिष्टः, तत्र 'अपि दीपावलोकं मे नोपयुञ्ज्यान्निवेदित'मित्याज्ञप्तम्, तदकरणादाज्ञाभङ्गदोषः कथं निरसनीय इत्यतस्तदनूद्य तद्विषयव्यवस्थामाहुः दत्तापहारे- त्यादि । दत्तस्य भगवते समर्पितस्य अपहारः, पुनर्जीवोपयोगाय ग्रहणमुच्यते, निषिद्धतया कथ्यते यस्मिन्, तद्दत्तापहारवचनम्, 'अपि दीपावलोकम्' इत्यादिजातीयकं वाक्यं भक्ति- मार्गोपदेशे वर्तत इति शेषः । तथा च हरेः सम्बन्धिसकलं सर्वं समर्प्यापि न ग्राह्यमि- त्येवमर्थकं भिन्नमार्गपरं विवक्षितभक्तिमार्गादन्यमार्गविषयं मतं विचारितम् । अयमर्थः । इदं हि वाक्यमेकादशाध्याये भगवति निश्चलमनोधारणाशक्तौ 'यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चल'मित्यादिना तदनुकल्पकथने या भक्तिरुपासनशेषत्वेनोक्ता, तत्प्रकार उद्धवेन पृष्टे, 'मल्लिङ्गमद्भक्तजने'त्याद्यष्टभिस्तन्मार्ग उपदिष्टस्तेषु वर्तते । तत्र च यथा स्वलिङ्गदर्शनादयो धर्माः पृथगुक्ताः, तथा वैदिकी तान्त्रिकी दीक्षापि पृथगुक्ता, सा नास्मिन्मार्गे, भक्तिमार्गीयोपदेशस्यात्र विवक्षितत्वात् । तथा दास्येनात्मनिवेदनमपि तथोक्तम्, तदपि नात्र पृथग्धर्मत्वेन । अधिकाररूपतया तस्यात्र पूर्वं विवक्षितत्वात् । तथाग्रे 'सूर्योऽग्निर्ब्राह्मणा गाव'इत्यादिना पूजास्थानान्येकादश निर्दिष्टानि । समाप्तौ च 'इष्टापूर्तेन मामेवं यो यजेत समाहितः । लभते मयि सद्भक्तिं मत्स्मृतिः साधुसेवये'ति तथा कृतौ भक्तिलाभः, तया स्वस्मृतिः फलत्वेनोक्ता । विवक्षितो मार्गस्तु 'अथैतत्परमं गुह्यं शृण्वतो यदुनन्दन । सुगोप्यमपि वक्ष्यामि त्वं मे भृत्यः सुहृत्सखे'ति सुगोप्यकथनं प्रतिज्ञाय, ततो द्वादशाध्याये तां भक्तिमुक्त्वा, ततोग्रे षडध्याय्या अन्यदपि तत्प्रश्नानुसारेणोक्त्वा, पश्चादूनविंशे 'आख्याहि विश्वेश्वर विश्वमूर्ते', 'त्वद्भक्तियोगं च महद्विमृग्य'मिति महदभिलषितभक्तिप्रश्ने पुनस्तेन कृते, भगवता 'भक्तियोगः पुरैवोक्तः प्रीयमाणाय तेऽनघ । पुनश्च कथयिष्यामि मद्भक्तेः कारणं पर'मिति द्वादशाध्यायोक्तां भक्तिं परामृश्य, तत्परमकारणत्वेन कथितार्थपुनरावृत्तिं प्रतिज्ञाय, 'श्रद्धामृतकथायां मे' इत्यादिभिश्चतुर्भिरुक्त्वा, 'एवं धर्मैर्मनुष्याणामुद्धवात्म-

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 386, कुल 408 में से · BharatKosha