षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 385, कुल 408 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमकृतविवरणसमेतम् । ४५ न मतम् । सुखदुःखान्यतरसाक्षात्कारो हि भोगः, तद्विषयं भुक्तम् । तथा च यत उद्धृत्य ग्रहणाद्यनन्तरं शिष्टे भुक्तशेषत्वव्यवहारः, तत्सामिभुक्तम् । वस्तुनः सदसत्त्वादिप- रीक्षार्थं तत उद्धृत्य मुखादौ क्षेपे आघ्राणे हस्तलापने वा शिष्टस्य न सामिभुक्तत्वम् । तच्छिष्टे भुक्तशेषव्यवहाराभावात् । तत्रापि बीजं स्वस्य तद्दर्शनाद्युत्तरं तद्बुभुक्षाभावो बुभु- क्षोत्तरं तदुपादानाद्यन्ताभावो वा । यदि पुनः कस्यचिद्बुभुक्षोत्पत्तिः, तदा तस्य चेतनस्यै- वापराधित्वम् । मानसिकव्यभिचारादिव । नत्वचेतनस्य वस्तुनः सामिभुक्तत्वम् । यदा तु बुभुक्षोत्तरमिन्द्रियव्यापारः, तदा तु वस्तुन्यपि दोष इति तादृशस्य समर्पणं क्रियादूष- कत्वात् न संमतमित्यर्थः । एवञ्च यच्छ्रीगोकुलनाथार्थंभगवदर्थं सम्पादितेषु पदार्थेषु कदा- चित्केनचित्तन्मध्यात्किञ्चित्स्वार्थमन्यार्थं वा गृहीत्वा विनियुक्तं चेत्, तदा तस्य पदार्थस्य यत्सामिभुक्तत्वमुक्तम्, तदत्र कैमुतिकादेव सिद्धं ज्ञेयम् । यत्पुनस्त एव स्वोपभोगार्थ- मानीतं वस्त्रादिकं किञ्चित्स्वोपयुक्तमात्रं भगवते समर्प्य तस्योपयोगं कृत्वा तदवशिष्टं चेत्स- मपर्यितुमिच्छति, तदपि सामिभुक्तं जातमिति न समर्पणीयमित्याहुः । तत्र स्वोपभोगार्थ- त्वाभिसंधानमेव दूषकताबीजम् । तादृशस्य समर्पितस्य ग्रहणे भगवद्दत्तप्रसादत्वबुद्धेः कर्तु- मशक्यत्वात् गौणत्वाच्चेति मम प्रतिभाति । तथा भगवद्वस्तुबुभुक्षापराधे तु, ममायमप- राधो निवर्तताम्, पुनश्च माभूदिति दीनभावनपूर्वकं भगवान्नेव प्रार्थनीयो, वज्रचिह्नयुक्ततच्च- रणारविन्दध्यानं च कार्यम्, दैन्यस्य भगवत्तोषणहेतुत्वात् । 'यच्छौचनिःसृतसरित्प्रवरोद- केन तीर्थेन मूर्ध्वधिकृतेन शिवः शिवोभूत् । ध्यातुर्मनःशमलशैलनिसृष्टवज्रं ध्यायेच्चिरं भगवतश्चरणारविन्द'मिति तृतीयस्कन्धे श्रीकपिलवाक्याच्च । भक्तेः पापनाशकत्वस्य पूर्वं साधितत्वेन तद्ध्यानात्मकस्मरणेपि तथात्वसौचित्याच्च । किञ्च । भगवच्चरणचिह्नभूताङ्कुश- ध्यानमपि कार्यम् । 'अङ्कुशो नागशिक्षायै यावद्भवति पुत्रक । तादृशं तद्भवेच्चिह्न'मिति पाद्मे चरणचिह्नाध्याये तादृगाकारस्य शिक्षार्थत्वाभिधानात् । पञ्चाध्यायां 'लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभि'रित्यत्र सुबोधिन्यां मनोनिग्रहार्थमङ्कुशस्थापनमिति तत्तात्पर्य- कथनाच्चेति मम प्रतिभातं प्रसङ्गादुक्तम् । एवं दूषितसंसर्गनिषेधमुक्त्वा समर्पणादूषणप्रकारमाहुः तस्मादित्यादि । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । यस्मादसमर्पितसंसर्गः सामिभुक्तसमर्पणं चायुक्तम्, तस्मात्सर्वस्मिन्वौदिके स्मार्ते लौकिके च कार्ये आदौ ततः प्रागेव सर्वेषां तत्रतत्रापेक्षितानां वस्तूनां समर्पणं मतं संमत- मित्यर्थः । तत्प्रकारस्त्वेवं प्रतिभाति । गारुडे । 'जगद्धातुर्महेशस्य दिव्याज्ञाचरणा वयम् । इह नित्यक्रियां कुर्मः स्निग्धास्ते वैष्णवाश्च ते' इति वैष्णवलक्षणवाक्यात्, एकादशस्कन्धे च 'सन्ध्योपास्यादिकर्माणि विधिना नोदितानि मे । पूजान्तैः कल्पयेत्सम्यक् संकल्पः कर्मपावन'