भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 379, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 379

श्रीपुरुषोत्तमकृतविवरणसमेतम् । ३९ एकया स्तुवत प्रजा अधीयन्तेति तत्पाठात् । तथापि द्वितीयतृतीयादिषु बहुषु मन्त्रेषु सृजति धातुप्रयोगाङ्गमग्रूपं सादृश्यमस्तीति सृष्टिशब्दः । स सृष्टिसङ्गं बोधयतीति । ननु भवत्वेवम्, तथापि देहाद्यात्मान्तान् समर्पयामीत्यनुक्त्वा, यदत्रैवमुक्तम्, तत्र किं बीजमिति चेत् । उच्यते । विधेयांशनिष्कर्षणैवेष्यध्यासाभावाय तत्स्वरूपस्फुटीकरणं चेति जानीहि । अत्र ह्यात्मनिवेदने सर्वसाहित्यं विधेयमिति देहादीननूद्यात्मसाहित्यमवयुत्या निरूप्यते । देहादयोऽहमित्यध्यासविषयास्तद्धर्मा अहं ममेत्युभयाध्यासविषया दारादयः केवलममता- विषया इति । आत्मना सहेति सहपदप्रयोगस्तु पितरि निमन्त्रिते पुत्रः पित्रा सहागत इत्यत्रेव प्राधान्यं न विहन्ति । तस्माद्वये बोध्यमानं समर्पणमूनविंशोक्ताधिकारस्वरूपस्यैव बोधकम्, नतु कस्याप्यनुवादः, वाक्यार्थस्यापूर्वत्वादिति । प्रकृतमनुसरामः ॥ १ ॥ एवं प्रतिज्ञाय वाक्यान्याहुर्ब्रह्मसम्बन्धेत्यादि । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः स्मृताः ॥ २ ॥ ब्रह्मसम्बन्धो नाम सर्वस्मिन् भगवत्स्वामिकत्वरूपः सम्बन्धः, तस्य करणं नाम भगवता आचार्यान् प्रति गद्येनोक्तो य आत्मसमर्पणप्रकारः, तद्रीत्या भगवति स्वात्मसहितस्वीयसर्वपदार्थानां भगवति तथात्वविज्ञापनम् । ‘स वै नैव रेम’ इति श्रुतेः, ‘क्रीडार्थमात्मन इदं त्रिजगत्कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्यु’रित्या- दिवाक्याच्च, वस्तुतः सर्वस्य भगवदीयत्वेऽपि ‘स वै नैवे’त्यादिश्रुत्या रमणार्थं द्वितीय- निर्माणादिश्रावणेनापादिता या तत्तत्पदार्थे जीवस्य स्वत्वस्वीयत्वाभिमतिः तत्परि- त्यागेन तेषु भगवदीयत्वस्य विज्ञापनमिति यावत् । तस्मात्सर्वेषां समर्पितात्मनां देहजीवयोः स्थूललिङ्गशरीरयोः । सर्वदोषनिवृत्तिः । हि निश्चयेन । (यतो भगवतैव गीतायां ‘यत् करोषि यदश्नासी’त्यादिना सर्वकर्मार्पणं कर्तव्यत्वेनोपदिश्य, ‘शुभाशुभ- फलैरेवं मोक्ष्यसे कर्मबन्धनै’रिति तत्फलमुक्तम् । एकादशे च ‘यानास्थाय नरो राज’न्नित्यनेन प्रमादाद्यभावरूपं भगवद्धर्मास्थितिफलमुक्तम् । ) युक्तं चैतत् । वस्तुतः सर्वस्य ब्रह्मरूपत्वात्तत्र भगवदीयत्वेऽनुसंहिते तदुपदेहभूतप्राकृतगुणजन्यदोषस्य निवृत्तिर्भवतीति । तथा च जीवादिदोषवशात्कृतसेवाङ्गीकारविषयिणी चिन्ता न कार्येत्यर्थः । अत्र सर्वेषामित्यनेन ‘देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वय’मिति सप्तमस्कन्धीयप्रह्लादवाक्योक्ताः सर्वेऽपि भजना- धिकारिणः सङ्गृहीताः । जीवपदेन च शरीरविशिष्टश्चेतनः, नतु केवलः, तस्मिन् स्वतो दोषाभावस्यासङ्गश्रुत्या शारीरब्राह्मणे सिद्धत्वात् । देहपदस्य पृथगुक्तिस्तु स्थूलशरीरदोषाणा- मभीक्ष्णमनुभूयमानतया दोषाकरत्वबोधनार्था । यद्वा । जीवपदेनाविद्यासम्बन्धवांश्चेतनः । देहपदेन देहद्वयमिति बोध्यम् । ननु ब्रह्मसम्बन्धकरणमात्राच्चेत्सर्वेषां देहजीवगतसर्वदोष- १. ( ) इदमपि श्रीपुरुषोत्तमानां पाठान्तरम् ।