षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 380, कुल 408 में से
संदर्भ में पढ़ेंनिवृत्तिः, तदा निर्दुष्टत्वात् प्रतिबन्धकाभावेन तदानीमेव सेवया मुख्यफलप्राप्तिः, गद्ये तादर्थ्येनैव समर्पणस्योक्तत्वात्, तस्य दानहेतुकत्वाद्भगवदिच्छाधीनत्वात्, तदभावेपि सायुज्यप्राप्तिस्तु स्यादेव । तत्र प्रतिबन्धकस्याभावात् सेवायाश्च पूर्वं कृतत्वात्, प्रमाण- सिद्धायास्तस्या नैष्फल्यस्य वक्तुमशक्यत्वात् । तथा सति विवक्षितस्य पुष्टिमर्यादाभक्तिमार्ग- स्यैवोच्छेदः, उपदेशकस्याभावात् । किञ्च, उक्तरीत्या ब्रह्मसम्बन्धकरणोत्तरमपि दोषाणां प्रत्यक्षतोऽनुभूयमानत्वात्तद्विरोधोपीति कथं तन्निवृत्त्यवगतिरित्याकाङ्क्षायां दोषनिवृत्तिस्वरूपं वक्तुं पूर्वं दोषान् गणयंस्तन्निवृत्तिस्वरूपं सपादश्लोकेन भगवानाहेत्याहुर्दोषा इत्यादि । अत्र जीवस्य सहजा दोषा अविद्यासम्बन्धतत्कृताभिमानप्राणधारणप्रयत्नाः । लिङ्गदेहस्य सहजाः कामक्रोधादयः क्षुधादयश्च । स्थूलदेहस्य सहजास्तु मातापितृमलानुषङ्गात्मत्वं रोगादयश्च । देशकालोत्थादयस्तु देहयोरेव, न जीवस्य । ते तद्द्वारा जीव उपचर्यन्ते । तत्र देशोत्था मगधमरुसिन्धुप्रभृतिदेशेषूत्पत्त्या तत्र गमनादिना च जाताः । कालोत्थाः कलिप्रभवा दुर्मुहूर्तप्रभवा अवस्थादिकृताश्च । उत्थशब्दो द्वन्दान्ते श्रूयमाणः प्रत्येकमभि- सम्बध्यते । तेनात्र दोषद्वयम् । एतान् भक्तिमार्गीयेभ्यो दोषेभ्यो व्यावर्तयितुं विशिषन्ति लोकवेदनिरूपिता इति । इदं च विशेषणं देहलीदीपवत् पूर्वापरयोः सम्बध्यत इति पञ्चस्वपि तदन्वयः। उचितं चैतत् । ‘गुणदोषभिदा दृष्टिर्निगमात्ते न हि स्वत’ इत्येकादशस्क- न्ध उद्धववाक्ये गुणदोषयोः श्रुतिमूलकत्वस्य कथनात् लोकस्यापि दूरतस्तदुपजीवकत्वा- दिति । संयोगजाः । बुद्धिपूर्वकं कामेन च सम्यग्ज्ञानोयोगजन्याः । स्पर्शजा अबुद्धिपूर्वकम- कामतश्च जाताः । ते कथञ्चन केनापि श्रौतेन वा स्मार्तेन वा लौकिकेन वा प्रकारेण न मन्तव्याः सेवाप्रतिबन्धकतया न विचारणीयाः । ब्रह्मसम्बन्धकरणोत्तरं देहेन्द्रियप्राणा- न्तःकरणजीवेषु तद्धर्मेषु च भगवदीयत्वेऽनुसंहिते तत्स्वामित्वेन तत्प्रेरकत्वेन च भगवत एवानुसन्धानात्तेषां स्वसम्बन्धित्वनिवृत्तिरिति तेषां स्वरूपतः सत्त्वेपि पारक्यवत् तं प्रत्यकिञ्चि- त्करत्वात्तेषां सेवाप्रतिबन्धकत्वनिवृत्तिरेव निवृत्तित्वेनाभिप्रेता, नतु स्वरूपतो निवृत्तिरत्रा- भिप्रेता । तथा च स्वरूपतः सत्त्वान्न तदानीमेव सायुज्यादिप्राप्तिः, न वा प्रत्यक्षविरोधः । प्रतिबन्धसामर्थ्यस्य निवृत्तत्वाच्च सेवाङ्गीकार इति न काचिदनुपपत्तिरित्यर्थः । नन्वेवंविधाया दोषनिवृत्तेः प्रायश्चित्तादिनापि संभवाद्ब्रह्मसम्बन्धतः को विशेष इत्यत आहुरन्यथेत्यादि । अन्यथा एतदतिहाय सर्वदोषाणां निवृत्तिः कथञ्चन केनापि कर्मज्ञानभक्तिरूपेण साधनेन न, दोषहेतूनां कर्मदेशकालानां विद्यमानत्वात्तैः संयोगस्पर्शाभ्यां तदुत्पत्तिनैयत्यात् । कृते तु ब्रह्मसम्बन्धे दूष्येषु जीवदेहादिषु भगवदीयत्वानुसन्धानात्तेषु स्वसम्बन्धनिवृत्ते- र्दोषाणामकिञ्चित्करत्वमितीदमेव स्वतन्त्रं दोषनिवृत्तिसाधनम्, नान्यदित्यर्थः । अत्रेदं बोध्यम् । एकादशस्कन्धे ‘योगास्त्रयो मया प्रोक्ता नृणां श्रेयो विधित्सया । ज्ञानं कर्म च भक्तिश्चे’तिवाक्ये भगवता त्रीणि जीवानां श्रेयःसाधनान्युक्तानि । श्रेयश्च १. नैर्बल्यमिति पाठः ।