भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 378, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 378

शङ्क्यम् । अम्बरीषमभिप्रेत्य 'ये दारागारपुत्राप्तान् प्राणान् वित्तमिमं परम्, हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे' इति नवमस्कन्धे दुर्वाससं प्रति भगवद्वाक्ये तेषामपि बोधनात् । न चास्मिन् वाक्ये हित्वेति पदाद्गारादित्याग एव बोध्यते, नतु समर्पणमिति तदंशे कथमस्य प्रामाण्यमिति शङ्क्यम् । अम्बरीषस्य तदानीं राज्यदशासद्भावेन परमहंस- वद्बहिस्त्यागस्याभावादान्तर एव स वाच्यः । राजा च 'करौ हरेर्मन्दिरमार्जनादिष्वि'त्यादि- वाक्यान्महाराजोपचारेण स्वयं सेवां करोतीति भगवद्धर्मं जानन् रक्षकत्वेन भगवन्तमनु- सन्दधानस्तानि कथं न समर्पयेदित्यर्थत एव प्राप्तत्वात् । वस्तुतस्तु राजा मर्यादापुष्टावङ्गी- कृतो, न केवलपुष्टौ, न वा पुष्टिमर्यादायाम्, अतस्तस्य महद्विसृग्यभक्त्यर्थित्वाभावात्तत्र तदकथनेप्यदोषः । तस्य तदर्थित्वाभावे च 'केवलेन हि भावेने'ति सन्दर्भे तदनुल्लेख एव गमकः । श्रीकृष्णावतारात् प्राक् तस्य मार्गस्याप्राकट्यादिति । तेन यदस्मिन् गद्ये उच्यते, तन्न कस्याप्यनुवादः, किन्तु कर्मणः कल्पसूत्रवदिदमात्मनिवेदनप्रकारनिश्चायकम्, अतो नात्रानुवादशङ्कालेश इति दिक् । न च भवत्वेवम्, तथाप्यत्र पूर्वोक्तवाक्यार्थ- सङ्ग्राहकत्वं तु स्फुटम् । तथा सति तत्र पुरुषाणां जिज्ञासूनामेवाधिकारदर्शनादत्र पुमांस एवाधिकुर्युः, नतु स्त्रियोपीति शङ्क्यम् । 'को नु राजन्निन्द्रियवान् मुकुन्दचरणाम्बुजम् । न भजे- त्सर्वतो मृत्युरुपास्यममरोत्तमैः । सर्वेधिकारिणो ह्यत्र विष्णुभक्तौ यथा नृप । देवोसुरो मनुष्यो वे'त्यादिवाक्यैरिन्द्रियवत्त्वेनैव सर्वेषां नवविधायामपि भक्तौ सामान्येनाधिकारसिद्धौ भक्ति- विशेषभूत आत्मनिवेदने स्त्रीणां नाधिकार इति वक्तुमशक्यत्वात्, निषेधाभावात्, प्रत्युत सप्त- मस्कन्धे 'तत्तु कालस्य दीर्घत्वात्स्त्रीत्वान्मातुस्तिरोधधे' इति दैत्यवालकान् प्रति प्रह्लादवाक्ये कयाधुमुद्दिश्य नारदेन नवविधभक्त्युपदेशस्य बोधनेन तस्यां तस्यापि प्रक्तेश्च । भगवताष्येका- दशे सम्वादं समापयता 'साधवे शुचये ब्रूयाद् भक्तिः स्याच्छूद्रयोषिता'मिति शूद्रयोषिद्भ्यो भक्तिसद्भावे पूर्वोक्तसर्वकथनस्याङ्गतत्वात् । कथनस्य च यथाधिकारं करणैकप्रयोजनत्वात् । 'विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियोन्त्यजाः । रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगेऽनघ । बहवो मत्पदं प्राप्ता' इति तासामपि सत्सङ्गफलस्यापि बोधनाच्च । न च भवतु स्त्रीणामप्यात्म- निवेदनेधिकारः, तथापि स्त्रीव्यक्तिकवीतरागबालानां निवेदने कार्यमाणे तेषां दाराद्यभावात्तत्र तत्पदाकथनं पत्यायूहश्च प्राप्नोति, अन्यथा तेषामसमर्पितत्वे तत्सङ्गादोषः स्यात्, अतः स तत्र कुतो न क्रियत इति शङ्क्यम् । सृष्टिन्यायाद्धर्मनिबन्धनाया गौण्या दारपदात्पत्युः सुतपदात् पित्रोश्चोपलक्षणे तेषां समर्पितत्वसिद्धेः पूर्वोक्तदोषासंसर्गे तत्रप्रयोजनाभावात् । सृष्टिन्यायस्तु पूर्वतन्त्रे प्रथमाध्यायस्योपान्त्ये । तत्र हि 'सृष्टिरूपं दधाती'तिवाक्यं सृष्टिस्सञ्ज्ञकानामिष्टकाना- मुपधानं विधत्ते । तत्र काः सृष्टय इत्याकाङ्क्षायाम् 'तद्वानासामुपधानो मन्त्र' इति पाणिनि- सूत्राद्यदुपधाने सृष्टिवान् मन्त्रस्ताः सृष्टय इति सिध्यति । मन्त्रास्तु 'ब्रह्मासृज्यत, भूतान्य- सृज्यन्त' इत्यादयः पश्चात्पठ्यन्ते । प्रथममन्त्रे सृजतिर्न प्रयुक्तः, किन्तु दधाति प्रयुक्तः, १. निश्चायकमिति बोध्यमिति पाठः । २ ४-४-१२५ सूत्रपाठे ।

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 378, कुल 408 में से · BharatKosha