षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 38, कुल 408 में से
संदर्भ में पढ़ें२४ श्रीयमुनाष्टकम् । नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहु- र्नमोऽस्त्विति । त्वयि नमनमपि दुर्लभमतः प्रार्थ्यते अस्त्विति । अद्भुत- त्वमेवाऽग्रे उपपादितम् ॥ ६ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । एतादृश्यामिति । भक्तोत्कर्षाधायिकायां भक्तानुगुणायां चेत्यर्थः । एते- नैतादृगुपकर्त्र्या प्रत्युपकृत्यसम्भवेन यथाकथञ्चिन्नमनमेव माहात्म्यज्ञानात्सम्भवति नाऽन्यदित्युक्तं भवति । नमनमपीति । भगवति नमनं सम्भवत्यपि । भगवन्माहा- त्म्यस्य शास्त्रसिद्धत्वात् । भवत्यां तु लीलासृष्टिप्रवेशे तादृग्भावसम्पत्तौ तत एव तथा- विधभावावगतौ तद्भवतीति दुर्लभमेवेत्यर्थः । अद्भुतत्वमेवेति । मूले अति- १शब्दादद्भुतत्वमपि तथाविधं वाच्यम् । तत्राऽयं भावः । भगवानद्भुतकर्मा, “कृष्णा- श्रीपुरुषोत्तमप्रणीता विवृतिः । एवं निरस्तसाम्यत्वबोधनेनाऽधिकवर्णनाशक्तिं समर्थयित्वा ‘नमामी’त्यादौ नमनस्याऽग्रे ‘नमते’त्युपदेशे कैमुतिकेन हेतुतोक्त्याऽपि चारितार्थाद्यन्न पूर्वोक्त आचार्या- शय इति शङ्कां वारयितुं भगवत्कृपाङ्कुरं विना श्रीयमुनानमनमपि कोऽपि कर्तुं न शक्तः कुतस्तरां नमनातिरिक्तमित्याशयमग्रेिमे स्वयमेव प्रकाशयन्तीति नाऽस्मदुक्तं विरुद्धमित्याशयेनाऽग्रिममवतारयन्त्येतादृश्यामित्यादि । एतादृश्यामिति वैषयिका- धिकरणसप्तमी । दुर्लभमिति । भगवत्कृपाङ्कुरं विना तत्र तादृक्श्रद्धाया एवाऽनुदयात्त- थेत्यर्थः । ननु प्रार्थनाव्यतिरिक्ताथ्र्थान्तरेऽपि तथा प्रयोगान्नेदं गमकमित्यत आहुरद्भुतत्वमेवेत्यादि । अन्यथा चरित्रस्याऽद्भुतत्वं नोपपादयेयुः । इदमपि तत्रैवोक्तम् । “गण्डूषमात्रमप्यम्बु पीत्वा भवति सोमपाः । सप्तकृत्वश्च सप्तैव सोमसंस्थाः समाप्नुयादि”ति । “विनिग्राहास्त्वया आतर्ये नराः पापकारिणः । तानहं तारयिष्यामि प्राप्स्यामि च सुरालयमि”ति । तथा च यस्या ईदृशं चरित्रं तस्या उत्कर्षज्ञानं न भगवत्कृपाङ्कुरं विना, तदभावे तदभावान्न नमनमपी- त्यतिदुर्लभत्वात्तदर्थमपि कृपाऽपेक्षेतेति प्रार्थनैऽवार्थ इति भावः । मूले पयःपाने १ अत्युपसर्गादिति ख-ग-घ. २ अद्भुततमपीति क-ग-घ.