षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 39, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। २५ यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ श्रीहरिरायप्रणीतं टिप्पणम् । याऽद्भुतकर्मण" इत्याचार्यैर्निरूपितत्वात् । तच्च "असाधनं साधनं करोति" इत्यादि- रूपम् । यथाऽसाधनं कामादि प्रमेयबलप्राकट्येन साधनं भगवद्भावनाहेतुत्वेन । तत्र विषयत्वेन स्वप्रवेशात् । अत एव 'गोप्यः कामादि'त्यादिवाक्यानि । उक्तं चाऽऽचार्यवर्यैः 'कामान्ता च कृतिः स्फुटा । कामोद्भूते तथा प्रीतिरि'ति । एवं सति भगवानसाधन- मपि स्वरूपबलेन साधनं करोति । तथाविधस्वरूपप्रदर्शनेन तादृग्भावजननात् । अत्र तु भावनाभावेऽपि असाधनं पयःपानं पिपासाहेतुकं तथा फलसाधकं साधनीकरणा- भावेऽपीत्यत्यद्भुतत्वमेतच्चरित्रस्येति भावः । न हि पिपासया पानीयपाने काऽपि तद्भावना सम्भवति । अतस्तदसाधनमेव । ननु यमयातनाभावस्तु भगवन्नाम्नाऽपि भवतीति को विशेष एतच्चरित्र इति चेत्तत्राऽऽहुर्जातु इति मूले । कदाचिन्नामाप- राधेपु सत्सु गुरुवैमुख्यदुःसङ्गवर्जनरूपाङ्गद्वयाभावे न फलत्यपि नाम, न तथा प्रकृते । न हि पिपासया पाने नामग्रहण इव किञ्चिदङ्गमपेक्ष्यम् । अतो महानेव विशेष इति भावः । नन्वत्र कोपपत्तिः पयःपानेन यमयातनाभावे । लौकिकेन तेनाऽदृष्टाजननात् । नाऽपि दृष्टद्वारा, असम्भवात् । न हि पिपासाहेतुकपयःपानस्य श्रीपुरुषोत्तमप्रणीता विवृतिः । युष्मदनुरोधेन यातनाभावेऽपि स्वस्याऽधिकृतत्वादल्पदण्डं तु दास्यत्येवेत्यत आहुर्यमोऽपीत्यादि । उस्तर्के । इदमपि तत्रैव, "यमुने कृपया पापानवशं तार- यिष्यसि । मयि त्वया दया कार्या निर्दये निगृहीतरी'ति यमेनोक्तम् । "एवमस्तु मदम्भोभिः स्नात्वा त्वामादरान्नराः । दशभिश्च चतुर्भिश्च तर्पयिष्यन्ति नामाभिः । तेन हिंसापरोऽपि त्वं धृतकल्पो भविष्यसि । निरातङ्का भविष्यन्ति भवतो येऽपि पापिन" इति यमुनावाक्यैरेव सिद्धम् । उपपत्तिमात्रं परं तर्क्यत इत्यर्थः । यथा गोपिका इति । १ तच्चरित्रिति च. २ दर्शनेनेति क-ख-ग-घ. प्रदर्शने इति च. ३ पयःपानेन यमयातनाभावहेतुत्वं क्विदपि लोके सिद्धमित्याशङ्कयाऽऽहुः - यमोऽपीति ख. पयःपानेन यमयातनाभावः । लौकिके पयःपाने कृते अदृष्टे अलौकिको यमयातनाभावः । तस्याऽनुत्पत्तिः । नापि दृष्टद्वारा । असम्भवादित्यादिः च. ४