षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 46, कुल 408 में से
संदर्भ में पढ़ें३२ श्रीयमुनाष्टकम् । इयं तव कथाऽधिका सकलगोपिकासङ्गम- स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥ हरेरनु पश्चाच्चर्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति । मोक्षप्राप्तिर्भवती- त्यर्थः । न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव- त्सहिततद्भजनेन न तु केवलायाः, केवलाया मोक्षविघातकत्वात् । अनुशब्दा- न्मुख्यतया भगवद्भजनम् । तदनुगुणत्वेन लक्ष्म्याः । कालिन्द्युत्कर्षमाहुरियं तव कथेति । इयमग्रत उच्यमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका । अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे— “अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत- श्रीहरिरायप्रणीतं टिप्पणम् । लक्ष्मीवत्पुरुषोत्तमनित्यसंयोगरूपसायुज्यम्, तस्य लक्ष्मीमात्रभोग्यत्वात् । न हि स्वभोग्यमन्येभ्यः कोऽपि दातुमीष्टे । अत एवोक्तं बालबोधे—“लोकेऽपि यत्प्रभु- भुंङ्क्ते तन्न यच्छति कर्हिचिदि”ति । न तु ततोऽपीति । सायुज्यादप्यधिकमित्यर्थः । हरेरि- त्यस्य पञ्चम्यन्तपदस्य सम्बन्धिवोधकस्य तात्पर्यमाहुस्तदपीति मोक्षसुखमपीत्यर्थः।केव- लाया मोक्षविघातकत्वादिति। केवला भगवतः पुरुषोत्तमाद्भेदेन स्थिता विभूतिरूपा भजनेन धनादिसम्पत्प्रदा तस्या विषयासक्तिहेतुत्वेन वैराग्यंविघातद्वारा मोक्षविघातक- त्वमित्यर्थः । कालिन्द्युत्कर्षमिति, भजनानन्दरूपफलसाधकत्वेन लक्ष्मीत उत्कर्ष- मित्यर्थः । सर्वमुक्त्यपेक्षयेति, लक्ष्मीतत्सेवकफलरूपसायुज्यसालोक्यादिमुक्त्यपे- क्षयेत्यर्थः । अत एवेति, यतो मुक्त्यपेक्षयैतत्कथाया आधिक्यमित्यर्थः । एत- त्कथारसिकानामिति । मोक्षे हि न भेदेन स्थितिरिति सर्वात्मभावलभ्यरसकथा- श्रीपुरुषोत्तमप्रणीता विवृत्तिः । अनुशब्दोक्तस्य पश्चात्त्वस्य सापेक्षत्वादवधिं बोधयितुं हरेर्यदन्वित्येवं प्रतीकं तद्व्या- ख्यानं चेति ज्ञेयम् । तेन न दोषः । शेषं स्फुटम् । एवं लक्ष्म्यपेक्षया गङ्गापेक्षया चा- ऽऽधिक्यं साधयित्वा तत्र हेतुमुत्तरार्द्धेन वदन्तीत्याशयेन तमवतारयन्ति व्याकुर्वन्ति च कालिन्द्यामित्यादि, इयमित्यादि च । सकलेत्यादि, इदमपि यमुनामाहात्म्ये “केलि- १ सर्वत्र मुक्त्यपेक्षयेति ख. २ वैराग्यविघ्नद्वारेति च.