षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 47, कुल 408 में से
संदर्भ में पढ़ेंश्रीहरिरायश्रीपुरुषोत्तमचरणानां टिप्पणविवृतिभ्यां संवलितम्। ३३ सुखलेशाभासाः परमभागवता एकान्तिन" इति। सा केत्याकाङ्क्षायामाहुः सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एते जलाणवो न श्रम- स्वेदरूपाः किन्तु विविधसङ्गरसस्य सर्वावयवपूर्णस्याऽन्युच्छलनेन बहि- रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै- रिति। एभिर्विशेषणैः परमकाष्ठापन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस- पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपातित्वादिकं सूचितम् । स्वस्यै- तद्रसपूर्णत्वेन केवलैतद्भजनकर्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल- क्षण्यम् ॥८॥
श्रीहरिरायप्रणीतं टिप्पणम्। रसिकानां तत्र तदभावान्न तदिच्छागन्धोऽपीत्यर्थः । "अथ ह वावे"त्यादिना प्रमाणोपन्यासः । सा केति । कथेत्यर्थः । यस्या इति पञ्चमी षष्ठी च व्याख्येया । पञ्चमीपक्षे—यस्याः सकाशादन्येषामेतत्सम्बन्धिनामपि तत्सङ्गमः । षष्ठीपक्षे— श्रीयमुनायास्तत्सङ्गमः। तदाऽपि कृपया तद्रसदातृत्वमित्यर्थः । एभिर्विशेषणै- रिति । एतत्कथायां सकलगोपिकास्तत्सङ्गमः, सोऽपि रसावेशजनितो येन श्रमः तेनोद्गतं स्वेदजलं तदीया अणवोऽतिसूक्ष्मबिन्दवस्तैः सङ्गमः, एतावन्ति कथा- विशेषणानि तैरित्यर्थः । एतादृशी एतत्कथेत्यस्यामपि परमकाष्ठेत्याद्युक्तसकलधर्म- वत्त्वं सूचितमित्यभिहितमिति भावः । केवलैतद्भजनकर्तुरपीति । अनन्यभजन- कर्तुरित्यर्थः ॥ ८ ॥
श्रीपुरुषोत्तमप्रणीता विवृतिः । सलिले"ति नाम्नि प्रसिद्धम् । केलिः सलिले यस्या इति तदर्थात् । किञ्च । "ब्रह्म- विद्यासुधावहा" इति नाम्न्यपि भगवतस्तरणलीलायां प्रवाहे गण्डूषपाताद्ब्रह्मविद्यारूप- भगवन्मुखसुधां वहतीत्यपि स्फुटति । यद्यपि श्रमजलगण्डूषजलसम्बन्धो लीलासमय एव, तथापि श्रीयमुनायाः सप्तसागरान् भित्त्वा सूर्यमण्डलाद् रङ्गवत्पुनःपुनरत्रागम- नेन इदानीमपि सोऽस्तीति न किञ्चिदनुपपन्नम् । अत्रापि लीलाससायिकप्रभुश्रम- जलकणसम्बन्धसम्पादकत्वरूपमष्टममैश्वर्यं स्पष्टमेव ॥ ८ ॥
१ पराकाष्ठापनेति क-ख. ५