षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 51, कुल 408 में से
संदर्भ में पढ़ेंश्रीकृष्णाय नमः । श्रीत्रिभङ्गीरायो जयति । श्रीगोपीजनवल्लभाय नमः । श्रीमद्भगवद्वदनावतारश्रीमद्वल्लभाचार्यचरणप्रणीतं श्रीयमुनाष्टकम् । श्रीमत्प्रभुचरणविनिर्मितया टीकया गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन च समलङ्कृतम् । मूलम्—नमामि यमुनामहं सकलसिद्धिहेतुं मुदा गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । नत्वा श्रीवल्लभाचार्यान्करुणारसपूरितान् । श्रीविठ्ठलेशांश्च विभून्निजेभ्यो बुद्धिदायकान् ॥ १ ॥ श्रीमदाचार्यचरणाः स्वीयानां भक्तिसिद्धये । अकार्षुः षोडशग्रन्थान्स्वसिद्धान्तार्थबोधकान् ॥ २ ॥ तद्व्याख्यानं कृतं पूर्वैः प्रभुभिश्च पृथक्कचित् । यमुनाष्टकमारभ्य सेवाफलमुदाहृताः ॥ ३ ॥ स्वगुरूनन्मथुरानाथान् गङ्गां च स्वीयमातरम् । हेतुः षोडशग्रन्थानां टीकानां च मयोच्यते ॥ ४ ॥ तत्र गोस्वामिप्रभूणां कृतीनां गणना— यमुनाष्टकसिद्धान्तमुक्तावल्योस्तथा पुनः । नवरत्ने प्रकाशश्च त्रयं स्वैः प्रभुभिः कृतम् ॥ १ ॥ तट्टिप्पणं तु बहुभिर्वंशीयैर्बालकैः कृतम् । तत्कृपाबलमाश्रित्य तद्ग्रन्थान्विवृणोम्यहम् ॥ २ ॥ ५॥