षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 55, कुल 408 में से
संदर्भ में पढ़ेंगो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४१ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहासितल्लीला- वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं मुदेति । जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- गो०श्रीद्वारिकेशचरणविरचितं टिप्पणम् । भवयोग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वम् ३, भगवत्समानधर्मवत्त्वेऽप्यना- यासेन तत्सम्बन्धसम्पादकत्वम् ४, भगवत्प्रियकलिनिवारकत्वम् ५, भगवदीयो- त्कर्षाधायकत्वम् ६, भगवत्प्रियत्वसम्पादकत्वम् ७, तनुनवत्वसम्पादकत्वम् ८, सकलः कलासहितः पुरुषोत्तमः तस्य सिद्धिः वश्यत्वेनावाप्तिः । इदं च लीला सृष्टि- स्थेष्वेव ज्ञेयमिति सकलेति । विवृण्वन्ति साक्षादिति । आवरणानवच्छिन्नावरोकम्, तद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं, आवरणान- वच्छिन्नभगवत्सेवनयोग्यदेहप्राप्तिरूपा १, तादृशस्य लीलादर्शनरूपा २, तस्यैव रसस्य स्वेन्द्रियविषयीभूतकरणरूपा ३, सर्वत्र भगवद्भावरूपा ४, आदिपदेन भग- वदाविष्टदेहाप्तिः ५, परावृत्तचक्षुषान्तराविर्भूतलीलावलोकनसिद्धिः ६, भावात्मक- स्वरूपेण तदात्मकतद्रसानुभवः ७, विरहसामयिकसर्वात्मभावसिद्धिः ८, इति.श्रीहरि- रायाः । अत इति, यतोऽष्टविधैश्वर्यवत्सकलसिद्धिहेतुभूतश्रीयमुनायाः प्राकट्यमलभ्य- लाभः । अतो नमनं मुदा हर्षेण । सुरारिपदपङ्कजेति विवृण्वन्ति जलेति । जले दोषो मुर एव । मुरदैत्यसम्बन्धादेव षोडशसहस्रनायिकानां भगवत्प्राप्तौ प्रति- बन्धकम् । मुरनाशे तु भगवत्प्राप्तिरनायासेन । तत्सम्बन्धादेव जलं भगवत्प्राप्तौ प्रतिबन्धकं भवति । अत्र तु तन्नाशकस्य भगवतः पदपङ्कजसम्बन्धिनः सेवायोग्य- देहकरणतत्पराः श्रीरेणवोऽधिकाः सन्ति । तेन मूलेऽपि लीलोपयोगिनीत्वं सूचि- तम् । जलाधिक्ये तु क्रीडायां निमज्जनभयं मकरादिभयमपि भवेत् । अत एव दशमस्कन्धीयपञ्चदशाध्याये अगाधतोयह्रदिनीत्युक्तिः । तटस्थेति मूले तीरस्थानां नवानां वनानां प्रकटो यो मोदः गन्धः पुष्पाणि च तत्सहितेन जलेन । स्मारकत्वं जलस्य अमरगीते 'सरिच्छैलवनाद्देशो गावो वेणुरवा इमे । पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत' । मोदः सत्वरूपः, पुष्पाणि रजोरूपाणि, काननानि तमोरूपाणि ।