भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 55, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 55

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४१ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहासितल्लीला- वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं मुदेति । जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- गो०श्रीद्वारिकेशचरणविरचितं टिप्पणम् । भवयोग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वम् ३, भगवत्समानधर्मवत्त्वेऽप्यना- यासेन तत्सम्बन्धसम्पादकत्वम् ४, भगवत्प्रियकलिनिवारकत्वम् ५, भगवदीयो- त्कर्षाधायकत्वम् ६, भगवत्प्रियत्वसम्पादकत्वम् ७, तनुनवत्वसम्पादकत्वम् ८, सकलः कलासहितः पुरुषोत्तमः तस्य सिद्धिः वश्यत्वेनावाप्तिः । इदं च लीला सृष्टि- स्थेष्वेव ज्ञेयमिति सकलेति । विवृण्वन्ति साक्षादिति । आवरणानवच्छिन्नावरोकम्, तद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं, आवरणान- वच्छिन्नभगवत्सेवनयोग्यदेहप्राप्तिरूपा १, तादृशस्य लीलादर्शनरूपा २, तस्यैव रसस्य स्वेन्द्रियविषयीभूतकरणरूपा ३, सर्वत्र भगवद्भावरूपा ४, आदिपदेन भग- वदाविष्टदेहाप्तिः ५, परावृत्तचक्षुषान्तराविर्भूतलीलावलोकनसिद्धिः ६, भावात्मक- स्वरूपेण तदात्मकतद्रसानुभवः ७, विरहसामयिकसर्वात्मभावसिद्धिः ८, इति.श्रीहरि- रायाः । अत इति, यतोऽष्टविधैश्वर्यवत्सकलसिद्धिहेतुभूतश्रीयमुनायाः प्राकट्यमलभ्य- लाभः । अतो नमनं मुदा हर्षेण । सुरारिपदपङ्कजेति विवृण्वन्ति जलेति । जले दोषो मुर एव । मुरदैत्यसम्बन्धादेव षोडशसहस्रनायिकानां भगवत्प्राप्तौ प्रति- बन्धकम् । मुरनाशे तु भगवत्प्राप्तिरनायासेन । तत्सम्बन्धादेव जलं भगवत्प्राप्तौ प्रतिबन्धकं भवति । अत्र तु तन्नाशकस्य भगवतः पदपङ्कजसम्बन्धिनः सेवायोग्य- देहकरणतत्पराः श्रीरेणवोऽधिकाः सन्ति । तेन मूलेऽपि लीलोपयोगिनीत्वं सूचि- तम् । जलाधिक्ये तु क्रीडायां निमज्जनभयं मकरादिभयमपि भवेत् । अत एव दशमस्कन्धीयपञ्चदशाध्याये अगाधतोयह्रदिनीत्युक्तिः । तटस्थेति मूले तीरस्थानां नवानां वनानां प्रकटो यो मोदः गन्धः पुष्पाणि च तत्सहितेन जलेन । स्मारकत्वं जलस्य अमरगीते 'सरिच्छैलवनाद्देशो गावो वेणुरवा इमे । पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत' । मोदः सत्वरूपः, पुष्पाणि रजोरूपाणि, काननानि तमोरूपाणि ।