भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४१ तटस्थनवकाननप्रकटमोदपुष्पाम्बुना सुरासुरसुपूजितस्मरपितुः श्रियं बिभ्रतीम् ॥ १ ॥ नायाष्टभिः श्लोकैः स्तुवन्ति । साक्षाद्भगवत्सेवोपयोगिदेहासितल्लीला- वलोकनतद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं मुदेति । जलदोषात्मकसुरस्याऽरेः पदपङ्कजयोः स्फुरन्तः सेवोपयोगि- देहादिसम्पादनोन्मुखा ये रेणवोऽमन्दा व्रजसुन्दरीवृन्दचरणरेणुसाहि- गो०श्रीद्वारिकेशचरणविरचितं टिप्पणम् । भवयोग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वम् ३, भगवत्समानधर्मवत्त्वेऽप्यना- यासेन तत्सम्बन्धसम्पादकत्वम् ४, भगवत्प्रियकलिनिवारकत्वम् ५, भगवदीयो- त्कर्षाधायकत्वम् ६, भगवत्प्रियत्वसम्पादकत्वम् ७, तनुनवत्वसम्पादकत्वम् ८, सकलः कलासहितः पुरुषोत्तमः तस्य सिद्धिः वश्यत्वेनावाप्तिः । इदं च लीला सृष्टि- स्थेष्वेव ज्ञेयमिति सकलेति । विवृण्वन्ति साक्षादिति । आवरणानवच्छिन्नावरोकम्, तद्रसानुभवसर्वात्मभावादयः सकलसिद्धयो ज्ञेयाः । अत एव नमनं, आवरणान- वच्छिन्नभगवत्सेवनयोग्यदेहप्राप्तिरूपा १, तादृशस्य लीलादर्शनरूपा २, तस्यैव रसस्य स्वेन्द्रियविषयीभूतकरणरूपा ३, सर्वत्र भगवद्भावरूपा ४, आदिपदेन भग- वदाविष्टदेहाप्तिः ५, परावृत्तचक्षुषान्तराविर्भूतलीलावलोकनसिद्धिः ६, भावात्मक- स्वरूपेण तदात्मकतद्रसानुभवः ७, विरहसामयिकसर्वात्मभावसिद्धिः ८, इति.श्रीहरि- रायाः । अत इति, यतोऽष्टविधैश्वर्यवत्सकलसिद्धिहेतुभूतश्रीयमुनायाः प्राकट्यमलभ्य- लाभः । अतो नमनं मुदा हर्षेण । सुरारिपदपङ्कजेति विवृण्वन्ति जलेति । जले दोषो मुर एव । मुरदैत्यसम्बन्धादेव षोडशसहस्रनायिकानां भगवत्प्राप्तौ प्रति- बन्धकम् । मुरनाशे तु भगवत्प्राप्तिरनायासेन । तत्सम्बन्धादेव जलं भगवत्प्राप्तौ प्रतिबन्धकं भवति । अत्र तु तन्नाशकस्य भगवतः पदपङ्कजसम्बन्धिनः सेवायोग्य- देहकरणतत्पराः श्रीरेणवोऽधिकाः सन्ति । तेन मूलेऽपि लीलोपयोगिनीत्वं सूचि- तम् । जलाधिक्ये तु क्रीडायां निमज्जनभयं मकरादिभयमपि भवेत् । अत एव दशमस्कन्धीयपञ्चदशाध्याये अगाधतोयह्रदिनीत्युक्तिः । तटस्थेति मूले तीरस्थानां नवानां वनानां प्रकटो यो मोदः गन्धः पुष्पाणि च तत्सहितेन जलेन । स्मारकत्वं जलस्य अमरगीते 'सरिच्छैलवनाद्देशो गावो वेणुरवा इमे । पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत' । मोदः सत्वरूपः, पुष्पाणि रजोरूपाणि, काननानि तमोरूपाणि ।

प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुका- नितम्बतटसुन्दरीं नमत कृष्णतुर्यप्रियाम् ॥ ३ ॥ अनन्तगुणभूषिते शिवविरञ्चिदेवस्तुते अनेकस्वनैरिति शुकादिविशेषणम् । एतेन विभावादिसामग्र्युक्ता । यत्र यथोचितं तत्र तथा कुर्वन्तीति प्रियापदम् । तीरस्य चाकचक्यवत्सिकता- कृतशोभां तत्स्वरूपमप्याहुस्तरङ्गेति । यदा तरङ्गास्तीरमागत्य प्रसृता भवन्ति तदा तीरसिकता मुक्तावद्भासन्ते । ता न सिकताः। लोकप्रतीतिः परं तथा । किन्तु तरङ्गा एव भुजास्तत्र यानि कङ्कणानि तत्र प्रकटा या मुक्तिका मुक्ताफलानि तान्येव वालुकावत्प्रतीयमानानि तद्युक्तो यो नितम्ब एवोच्चदेशात्मकनतटस्तेन तादृशीम् । भगवति स्नेहातिशयो विशेषणेनोक्तः॥३॥ भगवत्समानधर्मत्वं ज्ञापयितुं तथा विशेषणैराहुरनन्तेति । प्रभौ गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । रस्य दुरितक्षयपूर्वकं भगवद्भावदानेन पावनकर्त्रीत्वं स्नेहातिशय इति । (श्रीपुरुषो- त्तमास्तु पाविनीमिति पेठुः) । * अप्राकृताखिलभूषणभूषितकथनेनाप्राकृताखिलभूषण- भूषितेन भगवता स्नेहातिशयो युक्त एव । समानशीलव्यसनेषु सख्यमिति निय- मात् । भगवतोऽप्राकृतभूषणभूषितत्वम् । 'उदामकाञ्ची'त्यत्र स्फुटतरमस्ति । मूले कृष्णतुर्य्यप्रियामिति । व्रजे भगवद्भोग्याश्चतस्रः स्वामिन्यो मुख्याः। श्रीराधिकायूथ- स्थास्तामस्यः । श्रीचन्द्रावलीयूथस्था राजस्यः । कुमारिकायूथस्थाः सात्त्विक्याः । श्रीयमुनायूथस्था गुणातीताः तुर्याः । तासु इयं तुर्य्यात्तस्तथाकथनमिति । “कालि- न्दीतिसमाख्याता वसामि यमुनाजले” इति वाक्येनास्याः कालिन्दीभिन्नत्वेपि प्रियात्वमुपपन्नम् । शुको वाचिकीसेवा करोति । मयूरः कायिकीं, हंसो मानसीं, आदिपदेन पारावतकोकिलसारसचक्रवाकेदात्यूहादयो गृहीताः । अन्वयस्तु, भुवन- पाविनीं, ध्रुवमधिगतां, प्रियाभिरिव स्थितैः अनेकस्वनैः शुकमयूरहंसादिभिः सेवितां, तरङ्गभुजकङ्कणप्रकटमुक्तिकावालुकानितम्बतटसुन्दरीम्, कृष्णतुर्यप्रियाम्, यूयं नमत, इति दैवीजीवान्प्रति विधिः । अत्र भगवत्सम्बन्धप्रतिबन्धकनिराकरणेन तदनुभव- योग्यताहेतुशुद्धिसम्पादकरूपं भुवनपावनीत्वं तृतीयमैश्वर्यं दर्शितम् ॥ ३ ॥ अग्रिममवतारयन्ति भगवत्समानधर्मत्वमिति । यथा भगवानेश्वर्यादिभिः

  • तरङ्गादीनां भुजादित्वं हरिवंशे सूपपादितम् ।

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४५ घनाघननिभे सदा ध्रुवपराशराभीष्टदे । सप्तम्यन्तानि विशेषणानि । तत्प्रियायां सम्बुद्धिरूपाणि । घनाघनशब्दो निपातरूपो घनसमुदायं वदति । श्यामे । तादृशीति वा । ध्रुवादेस्तत्तीर गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । षड्भिर्गुणैः सहितः स्वयं धर्मी, तथेयमपीति सप्तभिर्विशेषणैः स्तुवन्ति । मूले अनन्तेति । अत्र पक्षद्वयमाहुः प्रभौ सप्तम्यन्तानि विशेषणानि श्रीयमुनायां सम्बुद्ध्यन्तानि । सम्बुद्धिरूपाणीति । आद्ये पक्षे अनन्ता अपारा येऽलौकिका गुणास्तैर्भूषितेऽलङ्कृते । द्वितीये अनन्तस्य भगवतो भक्तमनोरथपूरकादयो गुणास्तैर्भूषिते । एतेन विशेषणेन 'गुणाः सर्वत्र पूज्यन्ते' इति वाक्याद्गुणानां पूज्यत्वात्, 'ईश्वरः पूज्यते लोकैर्मूढैरपि यदा कदा । निरुपाधिकमैश्वर्यं वर्णयन्ति मनीषिण' इति वाक्योक्तमैश्वर्यं निरूपितम् । शिवविरञ्चिदेवस्तुते इतिविशेषणेन 'वीर्यं देवेषु तत्रापि स्त्रीषु तत्रापि कामतः।सान्निध्ये पुरुषाणां च मूर्छा तेन ततो महत्' इत्यत्रोक्तं वीर्यमुभयत्र निरूपितम् । घनाघनेति विशेषणेन उभयत्रापि स्वरूपसौन्दर्यं सर्वाविसारकं विश्वजीवनत्वादिकं च निरूपि- तम् । तेन 'यशो यदि विमूढानां प्रत्यक्षासक्तिवारणात् । स्वधर्मं योजयेत्तेषु तदा भवति नान्यथा' इत्यत्रोक्तं यशो निरूपितम् । ध्रुवपराशराभीष्टदे अनेन स्वसेवकानासभी- ष्टदानेन 'श्रीयो हि परमाकाष्ठासेवकास्तादृशा यदी'तिपद्योक्ता श्रीर्निरूपितोभयत्र । विशुद्धा मथुरेति मथुराया विशुद्धत्वं तु 'मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः' इति भगवत्सान्निध्यात् । तत्रापि श्रीयमुनातटसत्त्वेन लीलास्थानत्वम् । तेन 'ज्ञानोत्कर्षस्तदैव स्यात्स्वभावविजयो यदी'त्यत्रोक्तं ज्ञानं निरूपितम् । सकलेतीतिविशेषणेन गोपाश्च गोप्यश्च सततं गृहादिकं त्यक्त्वा एतत्तट एव तिष्ठन्ति, पूर्वं तत्रैवानन्दस्यानुभूतत्वात् । यद्वा, सकलगोपगोपीभिरन्त- स्थैर्वृता—आवृता । यद्वा, सकलगोपगोपीभिर्वृता भगवतो याचिता सम्भक्ता वा । सा च भक्तानां सर्वात्मभावदानेन मानादिदोषनिवारकत्वेन च प्रभोः प्रीति- वर्द्धिनी, तेन 'हरेश्चरणयोः प्रीतिः स्वसर्वस्वनिवेदनात्' । 'उत्कर्षश्चापि वैराग्ये हरे- रपि हरैर्यदि' इत्यत्रोक्तं वैराग्यं निरूपितम् । एवं षड्भिर्विशेषणैर्धर्मान्निरूप्य धर्मि- स्वरूपं निरूपयन्ति कृपाजलधिसंश्रितेति । यद्यपि भगवतः सर्वे धर्मा नित्याः, तथापि कार्ये प्रकटा भवन्ति । करुणा तु नित्यमेव प्रकटा । तेन तज्जलधिरूपो भग- वान् । अस्मिन् सम्यङ्मुख्यस्वामिनीवत् श्रिता मिलिता तेन, षड्गुणैश्वर्ययुक्तभगवति ६

४६ श्रीयमुनाष्टकम् । विशुद्धमथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनस्सुखं भावय ॥ ४ ॥ यया चरणपद्मजा मुररिपोः प्रियम्भावुका एव प्रभुप्राकट्यात्तथा । विशुद्धा मधुरा तटे यस्याः । सा निकटे वा यस्य । निरवधिकृपायुक्तो हरिस्तस्मिन् । अन्या नदी लौकिकं जलधिं सङ्गता भवति । इयं तु तादृशं श्रीव्रजेशं संश्रिता । एतेन त्वत्सङ्गतो भगवत्सङ्गतो भवतीतिभावः सूचितः ॥ ४ ॥ अथ भगवदीयानामप्युत्कर्षाधायिका या तदुत्कर्षं को वक्तुं शक्त इति भावेनाऽऽहुर्ययेति । चरणपद्मजा गङ्गा । तेन भक्तिमार्गीया । गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। मिलिता यास्ते सर्वेपि गुणा द्योतिताः। एतेन धर्मिरूपत्वमस्या निरूपितम् । प्रभुपक्षे चत्वारि तु स्फुटानि एव। विशुद्धा मथुरा तटे निकटे यस्य, तत्र निरन्तरं सान्निध्यात् । सकलेति स्फुटम् । कृपेति कृपा एव जलधिः, तेन संश्रितो मिलितः, अपारकृपा- युक्त इति भावः । यथा समुद्रगामिन्यां नद्यां पतितं तृणादिकं स्वत एव समुद्रे प्रप- तति, तथा अपारकरुणायुते कृष्णे मिलितायां यमुनायामाश्रिता अपि एतद्वेगेनैव तत्र गमिष्यन्तीति भावः । ममेति । प्रभुपक्षे सम्बोधनान्तं श्रीयमुने इत्यध्याहृत्य योज- नीयम् । एतादृग्धर्मवति हरौ मम मनः सुखं यथा स्यात्तथोपायं कुरु। श्रीयमुनापक्षे भो एतादृग्धर्मवति ! मम मनसि यत्सुखं तत्त्वं भावय स्वमनस्यानय । त्वया मन- स्यानीते मम सुखानुभवो भविष्यति नत्वन्यथा । भगवताष्टविधैश्वर्यस्य त्वयि स्थापितत्वात् । अस्मिन् पद्ये भगवत्समानधर्मवत्वेपि अनायासेन भगवत्सम्बन्धस- म्पादकत्वं चतुर्थमैश्वर्यं प्रदर्शितम् । अन्वयस्तु पक्षद्वयेप्युक्त एव ॥ ४ ॥ अथेत्यर्थान्तरारम्भे । चतुर्भिः पदैरुत्कर्षवर्णनद्वारा संस्तुत्य चतुर्भिरुत्कर्षवर्ण- नस्याशक्यत्वं निरूपयन्तः संस्तुवन्ति यथेति । भगवदीयानामिति बहुवचनेन लक्ष्मीगङ्गासरस्वतीतुलस्यो ज्ञेयाः । तत्र लक्ष्मीः पद्मजा, गङ्गाचरणपद्मजा, तथा तुलस्यपि, सरस्वती मुखपद्मजा । भगवदीयाः सर्वत उत्कृष्टाः, महाराजसेवकवत्, तेष्वप्युत्कर्ष एतयाऽऽधीयते, 'स्वलक्षणा प्रादुरभूत्कि- लाक्षतः इति वाक्यतः सर्वांसामुत्कर्षः श्रीयमुनाकृतः। अत एतदुत्कर्षवर्णनस्याशक्यत्वं

गो० श्रीद्वारकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ४७ समागमनतोऽभवत्सकलसिद्धिदा सेवताम् । तया सदृशतामियात्कमलजा सपत्नीव य- निर्दोषपूर्णगुणाऽपि यया त्वया सह समागमनतो मिलनतो हरेस्तथाऽभवत् । सेवतां च तथा । पूर्वं गङ्गाया अन्यसङ्गतिजनितमुत्कर्षमुक्त्वा भगव- त्सङ्गतिजनित उत्कर्षः पठितः । “सा राजन् दर्शनादेव ब्रह्महत्यापहा- रिणी”त्यादिरूपः । एतादृश्या त्वया सह सदृशतां किं काऽपीयादिति गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। युक्तमेव । तेनेति चरणपद्मजात्वेन, 'कारणगुणाः कार्यगुणानां समारम्भका' इति न्यायाद्भगवच्चरणतुल्यगुणवत्यपि । तथाभवदिति, प्रियत्वं भावयन्त्यभवत् । सेव- तामिति त्वया मिलितायाः सेवनं कुर्वताम् । तथेति । पूर्वोक्तसकलसिद्धिदा अभ- वत् । सह कलाभिर्वर्तते सकलः पुरुषोत्तमस्तस्य सिद्धिः प्राप्तिस्तस्या दात्री । मूले सेवेतामित्यत्र चक्षिङोङित्करणादनुदात्तत्वप्रयुक्तस्यात्मनेपदस्यानित्यत्वाच्छतृ- प्रत्ययो बोध्यः । पूर्वमिति पुराणेषु । अन्येति सरस्वतीसमागमनज उत्कर्षः । अत्र केचित्कमलजासपत्नीव यदिति प्रिये इति वा पठन्ति, तत्र मूलं मृग्यम्, एतादृश्येति । स्वसम्बन्धेन स्वसमानगुणसम्पादनकर्त्या । तत्रापीति पत्नीत्वेपि । त्वं तु प्रिया इति तथा सम्बोधनम् । इव यदिति पाठे, लक्ष्मीर्भवत्याः सपत्नी इव । त्वद्वत्पुष्टि- मार्गीयालीलास्थभक्तानुगुणत्वसम्पादिकात्वाभावात । त्वं तु सर्वदुःखहर्तृर्भगवतः प्रियाणां कलेः खण्डनकर्त्रीति महद्वैलक्षण्यम् । तेन न कापि त्वत्सदृशीति भावः सूचितः । यतस्त्वं भक्तानुगुणा अतः प्रार्थ्यते । मम मनसि सदा स्थितिं कुरु, मनसि म इति मूले । मनसि त्वयि स्थितौ मनसः शुद्धत्वं सेत्स्यति । तस्मिन्सति सकलेन्द्रियाणां निर्दुष्टत्वमेव । अतश्चैकादशे भिक्षुगीतायां 'मनः परं कारणमामन- न्ती'ति । 'मनोवशेन्ये ह्यभवं स्म देवा मनश्च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान्युञ्ज्याद्वशे तं स हि देवदेवः' । श्रुतिरपि तृतीयाष्टकब्राह्मणेऽन्तिमे प्रश्ने नवमानुवाके 'मनसो वशे सर्वमिदं बभूव । नान्यस्य मनो वशमन्वियाय, भीष्मो हि देवः सहसः सहीयान् स नो जुषाण उपयज्ञमागात् ' आकृतीनामोधेपर्ति चेतसां च सङ्कल्पजूतिं देवं, विपश्चितम्, मनो राजानमिह वर्द्धयन्तः । उपहवेस्य सुमतौ स्याम । स्मृतिश्च, 'मन एव मनुष्यस्य पूर्वरूपाणि शंसति' 'असंशयं महाबाहो मनो दुर्निग्रहं चलमि'ति एतादृशि मनसि निर्दोषपूर्ण- १ भवतीत्सङ्गति० पाठः ।

४८ श्रीयमुनाष्टकम् । हरिप्रेयकलिन्दया मनसि मे सदा स्थीयताम् ॥ ५ ॥ नमोऽस्तु यमुने सदा तव चरित्रमत्यद्भुतं न जातु यमयातना भवति ते पयःपानतः । काकूक्तिः । यदीयात् कमलजेयात् । तत्र हेतुमाहुर्यद्यस्मात्सा भगवत्पत्नी- त्वात्सपत्नी भवति । तत्रापि भवती प्रियेति—इवेति । भक्तानुगुणत्वमाहु- र्हरिप्रियाणां कलिं (दोषं) द्यति खण्डयति ॥ ५ ॥ एतादृश्यां त्वयि नमनातिरिक्तं न वक्तुं शक्यमित्याशयेनाऽऽहुर्न- गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । गुणवत्यास्तवानवरतस्थितौ मनसो भावाधिष्ठानत्वाद्भावस्यापि तथात्वं भविष्यति । तस्मिंस्तथा सति चैकादशस्कन्धीयद्वादशाध्यायोक्तरीत्या गोपिकावल्लीलाप्रवेशः सुकरः । मूलान्वयस्तु, हे प्रिये ! यथा समागमनतश्चरणपद्मजा मुररिपोः प्रियं भावुका अभवत्, सेवतां सकलसिद्धिदा च अभवत्, तया सदृशतामियात् कमलजा यत्सपत्नी, अस्तीति शेषः । एतादृश्या हरिप्रेयकलिन्दया मे मनसि सदा स्थीय- ताम् । अस्मिन्पद्ये भगवत्प्रियकलिनिवारकत्वं पञ्चमं ऐश्वर्यमुक्तम् ॥ ५ ॥ एवमुत्कर्षवर्णनस्य सर्वेश्वरप्रियाज्ञाननिरूपणद्वारा अशक्यत्वं निरूप्य भगवदी- योत्कर्षसम्पादनकर्य्याः स्तुतेरशक्यत्वं निरूपयन्तोऽग्रिममवतारयंति एतादृश्यामिति। भगवत्प्रियकलिनिवारणकर्त्या नमनातिरिक्तं सेवनादिकं कर्तुं सुतराम- शक्यम् । परं नमनमपि दुर्लभमतः प्रार्थनमित्यत आहुः त्वयीति। मूले अत्यद्भुत- मिति । अत्रैवं ज्ञेयम्, भगवांस्त्वद्भुतकर्मा, प्रमेयबलेन असाधनं यत्कामादिकं तत्सा- धनमिव कृत्वा स्वीयानुद्धरति । तदुक्तं सप्तमस्कन्धे, 'गोप्यः कामादि'त्यादिना । त्वं तु अत्यद्भुतचरित्रवती। अद्भुतत्वमेवाग्रे उपपादितम्। यत्सर्वान्जीवान् भावरहितान् साधनैः कामादिरहितान् जिह्वोपस्थपरायणान् अनंतिमजन्मसंभूतान् त्वद्रूपज्ञानेन सुतरां शून्या- नपि पिपासाहेतुकपयःपानेनैव भगवत्प्रियान्करोषि । न भावमप्यपेक्षसे । एतदेवाहुः न जात्विति । जातु कदाचिदपि यमयातना न भवति । यद्यपि भगवन्नामतो यमया- तनाऽभावो भवति, तथापि गुरुषु मन्तुषु सत्सु भवत्यपि । प्रकृते तु मन्तुषु सत्स्वपि नेति महद्वैलक्षण्यम् । अत्र लौकिकीमुपपत्तिमाहुः यमोऽपीति । अत्रैवं ज्ञेयम्, यम- १ तन्नापि प्रियेति वेतीति पाठः ।

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ४९ यमोऽपि भगिनीसुतान्कथमु हन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥ ६ ॥ ममाऽस्तु तव सन्निधौ तनुनवत्वमेतावता मोऽस्त्विति । त्वयि नमनमपि दुर्लभमतः प्रार्थ्यते अस्त्विति । अद्भुतत्व- मेवाऽग्रे उपपादितम् ॥ ६ ॥ अतः परं श्रीगोकुलनाथचरणानां विवृतिः । आवश्यकदैहिकधर्मेऽपि त्वत्सम्बन्धे मुक्त्यधिकभक्तिप्राप्तिर्यत्र, तत्र गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । क्रौर्यभिया जनानवता दिवाकरेण तत्तापनाशनायेयं प्रकटीकृताऽतस्तथा । जीवाश्च ये तत्पयःपानं कुर्वन्ति, तेषामेतत्सुतत्वं भवति । तथा च, यमोपि स्वानुजाया मानिनी- यायाः सुतान्कथं हन्ति ? तद्धिंसां तर्कितुमपि नेष्टेऽत उक्तम् उ इति । यद्यपि ते दुष्टास्तथापि स तु स्नेहवशात् स्वस्यापवादभयादतिशुद्धत्वाच्च तेषां नैवापकारं करोति। प्रत्युतोपकारमेव करोतीति भावः । एवं चरित्रस्य केवलपिपासाहेतुकपयःपानेन यमयातनाऽभावसम्पादनद्वाराऽत्यद्भुतत्वमुक्त्वाऽत्युत्कृष्टफलस्य श्रीगोपीजनवल्लभप्रि- यत्वस्य प्रापकत्वेन तस्य तथात्वमाहुः प्रिय इति मूले । श्रीकृष्णहार्दविदस्तव सेव- नाच्चेतसस्त्वयि प्रवणात्तत्स्मर्त्तॄणां सकलदुःखहर्तुः प्रीतिविषयो भवति । एतदेव दृष्टान्तेन विशदयन्ति यथेति । फलप्रकरणीयद्वितीयाध्याये 'यथान्तर्हिते प्रभौ सर्व- लीलाऽनुकरणं कृतवन्त्यो व्रजवरवध्वोप्येतत्पुलिनमागत्य भगवद्भावनया गानं कुर्वन्त्यः श्रुतय इव मनोरथान्तं लेभिरे' यथा च, व्रतचर्यायामेतत्सेवनं कुर्वन्त्यो 'मयेमा रंस्य- थे'त्यादिरूपं फलं प्रापुस्तथाऽयमपि भवति । चतुर्विधा अपि गोप्यो यथा प्रीतिसुख- भाजो जातास्तथाऽयमपीति ज्ञापनाय बहुवचनम् । दृश्यते हि लोकेपि देहिनां ज्ञान- कर्मभक्तिभ्यो भगवति प्रीतिः,त्वत्सेवनात्तु निर्दोषपूर्णगुणविग्रहस्य सचिदानन्दस्य सदोषेषु जीवेषु प्रीतिरतस्तव चरित्रस्यात्यद्भुतत्वे किमु वाच्यम् । एवं चास्मिन्पद्ये भगवदीयोत्कर्षाधायकत्वं षष्ठमैश्वर्यं निरूपितम् । पदयोजना तु हे यमुने ! तुभ्यं नमोस्तु, यत्तव चरित्रमत्यद्भुतम्, किं तव, ते पयःपानतो जातु यमयातना न भवति, यमोपि दुष्टानपि भगिनीसुतान्कथमु हन्ति ! तव सेवनाद्गोपिका यथा तथा हरेः प्रियो भवति ॥ ६ ॥ एवं भगवदीयानां सेवतां गोपिकावद् भगवत्प्रियत्वरूपस्योत्कर्षस्य सम्पा-

५० श्रीयमुनाष्टकम् । न दुर्लभतमा रतिर्मुररिपौ मुकुन्दप्रिये । का शङ्का यमयातनाभाव इत्याहुर्ममाऽस्त्विति । तव सन्निधौ तनोर्नवत्वं लीलोपयोगिनूतनदेहसम्पत्तिरस्तु । एतेन पूर्वदेहनिवृत्तिः सूचिता । इद- मपि त्वत्कृतमेव भवति न त्वन्यथेति ज्ञापनार्थं प्रार्थनमस्त्विति । एतावता गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । दनकर्त्र्याः स्तुतेरप्यत्यद्भुततमत्वेनाशक्यत्वं निरूप्याऽऽवरणानाच्छन्नभगवत्सेवोपयो- गिदेहसम्पादनकर्त्र्याः स्तुतेरशक्यत्व निरूपयन्तोऽग्रिममवतारयन्ति आवश्यक इति । अतःपरं प्रभुचरणाज्ञाज्ञानां श्रीगोकुलनाथानां लेखः । अवश्यं भव आवश्यकः, स चासौ देहे भवश्च, स चासौ धर्मश्च तथा 'देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुरि'तिदशमस्कन्धीयप्रथमाध्यायोक्तरीतिकस्तस्मिन्नपि सुरतश्रमजलजया त्वया सम्बन्धे सति 'मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमि'त्युक्तरीतिकभक्तिलाभो यत्र, तत्रत्यानां तथाभवने कः सन्देह इति कैमुतिकन्यायेन तया यथा कथञ्चिद्देशी- केपि सम्बन्धेपि श्रीकृष्णे रतिः सुलभेति सूचितम् । अत एव नित्यलीलास्थाना- वृतवस्तुदर्शनाद्यर्थं प्रार्थ्यते तवेति । पूर्वोक्तधर्मवत्यास्तव सन्निधौ सेवासमये पश्यन्ति, 'ते मे रुचिरावतंसप्रसन्नवक्त्रारुणलोचनानि रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहणीयां वदन्ती'तितृतीयस्कन्धोक्तप्रकारकनित्यलीलास्थानां समीपे योगः संयोगसम्बन्धो विद्यते यस्य यस्मिन्नैतादृशो नूतनतनोर्लाभोऽस्तु । ननु तनोर्नवत्वे प्रार्थिते एतद्देहावसाने यथाऽन्यसेवया फलं भवति तथैवात्रेति श्रीयमु- नायाः सेवायां को वा विशेष इत्याशङ्क्य प्रकारभेदं वक्तुं तत्समाधानमाहुः एते- नेति । तनोर्नवत्वप्रार्थनेन पूर्वशरीरस्य लीलानुपयोगिदेहस्य निवृत्तिर्नितरां वर्त्तनम् । सत्ता सूचिता न तु नाशः । अन्यथा नवतनुवत्त्वं प्रार्थितं स्यात् । वक्ष्यमाणं एता- वता शरीरपरिवर्तनमात्रेणे'ति व्याख्यानं चानुपपन्नं स्यात् । तेन यथा घट- स्यामदशायां जलादिधारणसामर्थ्यं न । पुनः पाकद्शायां सर्वधारणसामर्थ्यं मृत्त्व- निवृत्तिश्च । तथैवात्र लीलास्थजीवानां पुष्टिमार्गे स्थितानां श्रीयमुनासम्बन्धादर्वाक् आमघटवद्भगवल्लीलादर्शनादि सामर्थ्यं नास्ति । श्रीयमुनासम्बन्धे तु कृपया तनु- नवत्वे जाते पक्वघटवल्लीलादर्शनानुभवादिविषयकं सामर्थ्यमुत्पद्यते । शरीरे लौकि- कत्वनिवृत्तिश्चेति दिक् । मूलस्थास्यास्त्विति पदस्य तात्पर्यमाहुरिदमिति । हीन- मध्यमानामपि उत्तमाधिकार्युपयुक्तालौकिकसामर्थ्यरूपफलसम्पादनकर्त्र्यास्तव कृपैव दुर्लभा, तस्यां तु सत्यां न किमपि दुर्लभतममिति वदन्नाहुरेतावतेति । ननु कदा- चित्प्रारब्धदोषवशाद्भगवदीयानामपराधे जाते तज्जनिते भगवत्कृते प्रतिबन्धे चोद्भूते

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम्। ५१ अतोऽस्तु तव लालना सुरधुनी परं सङ्गमात् शरीरपरिवर्त्तनमात्रेणैव मुररिपौ रतिर्दुर्लभतमा न भवतीत्यर्थः। किन्तु तनु- नवत्वेन सुलभवै। कदाचित्प्रतिबन्धके विद्यमानेऽपि यथा जलदोषरूपमुरस्य निवारकस्तथा त्वत्सम्बन्धात्सर्वदोषनिवारकत्वं मुररिपुपदेनोक्तम्। अतः कारणाद्यावदाधुनिकशरीरनिवृत्तिस्तावत्तव लालना स्तुतिरूपा अस्तु। गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। तस्याप्रतीकार्यत्वात्कथं रतिर्दुर्लभतमा नेत्याशङ्क्य मुररिपुपदस्याशयं ब्रुवन्तस्तत्स- माधानमाहुः कदाचिदिति। कस्मिन्नपि काले भगवदीयानामपराधे जाते तेन च भक्त्युत्पत्तिविषयके भगवत्कृते प्रतिबन्धे जातेऽपि राजकन्यावत् सर्वदोषान्कांयवाङ्क- नोजांनाधिदैविकादीन्कालजन्यदेहावस्थान्तरकृतान्भूतभविष्यद्वर्त्तमानान्निवार्य्य स्व- कीयान्करिष्यतीति त्वत्कृपायां सत्यां न किमपि दुर्लभमिति सुष्टूदितम्। ननु श्रीयमुनाकृपथा भगवत्कृतप्रतिबन्धापगमे किं गमकमित्याशङ्क्य मुकुन्दप्रिय इति सम्बोधनेन मूले मुररिपाविति समादधते। मुकुन्दप्रिय इति मुकुं मोक्षं ददातीति तथा। तत्प्रियात्वेन तत्समानशीलव्यसनवतीियमिति मोक्षदाने समर्था, अत एतत्कृपथा तदपगमने किञ्चित्रम्। अन्यथा मुकुन्दप्रियात्वं गच्छेत्। मोक्षस्वरूपं तु, पद्मपुराणे, 'विष्णोरनुचरत्वं हि मोक्षमाहुर्मनीषिण' इति। श्रीभाग- वतेपि, 'भगवदीयत्वेनैव परिसमाप्तसर्वार्थाः'। यद्वा, 'यतोपराधस्तत एव मुक्तिरि'ति नियमाद्भक्तद्रोहे जाते तत्सेवनादेव तन्निवृत्तिः। अन्यथाम्बरीषोपाख्याने 'क्षमापय महाभाग ततः शांतिर्भविष्यती'त्युक्तमनुपन्नं स्यात्। तथा च, सर्वभक्तशिरोमणेः श्रीयमुनायाः सेवनादेतत्प्रसन्नतया 'यथा तरोर्मूलनिषेचनेने'तिवत्सर्वभक्तप्रसन्नतायां भगवत्कृतप्रतिबन्धापगम इति नानुपत्तिः काचित्। एवं च विवेकधैर्याश्रयसेवाफल- ग्रन्थयोर्वक्ष्यमाणो 'भक्तद्रोहे भक्त्यभावे भक्तैश्चातिक्रमे कृते। अशक्ये वा सुशक्ये वा सर्वथा शरणं हरिरि'ति, 'पुष्टौ नैव विलम्बयेदि'ति च भगवत्कृतप्रतिबन्धापग- मने यः प्रकारः स एवात्र मुकुन्दप्रियापदेन सूचित इति दिग्। उत्तरार्द्धमवतार- यन्ति अत इति। यतः शरीरनिवृत्तिकृन्मुकुन्दप्रियत्वसम्पादनकृच्छ्रीयमुनाकृपथा सर्वसौलभ्यमतो हेतोर्यावता कालेन इदानीं स्थितस्य अलौकिकसामर्थ्यशून्यस्य देहस्य निवृत्तिः परिवर्त्तनं तावत्कालं तव पूर्वोक्तधर्मवत्या लालना प्रेमविवशतया

५२ श्रीयमुनाष्टकम् । तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ साऽपि त्वत्कृपयैव नान्यथेति प्रार्थ्यतेऽस्त्विति। गङ्गाया अपि फलसाधकत्वं त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की- र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितेरिति । मर्या- दामार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्व- रूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥ गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । गुणगणकथनं सा स्तुतिरूपा भवतु । अस्तुपदस्य तात्पर्यमाहुः सापीति । लाल- नापि भगवत्कृतप्रतिबन्धेपि रक्षिकायास्तव कृपया सामर्थ्याभावेनैव सम्पत्स्यते, नान्यथा । इतरथा 'तदान्यसेवेति व्यर्थे'तिसेवाफलविवृतौ वक्ष्यमाणमनुपपन्नं स्यात् । एतत्सेवा तु भक्तसेवैवेति स्फुटमुक्तम्, तव सर्वभक्तमूलत्वात् । ननु गङ्गाया यद्यपि 'सन्निवेश्य मनो यस्मिन्च्छुद्धं यामुनयोमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो याता- स्तदात्मतामि'त्यादिरूपं यस्यां स्नानार्थं पानार्थं वा गच्छतः पुंसः पदे पदेऽश्वमेध- राजसूयादीनां फलं न दुर्लभमि'त्यादिरूपं च फलदात्रीत्वं श्रूयते, तथापि, यथा- धिकारमलौकिकसामर्थ्यादिफलसाधकत्वं सरश्रमजलजायास्तव संमिलनादेवेत्यत आहुः गङ्गाया इति । सुरधुनीति । धुञ्कम्पने । धुनोति तीरस्थवीरुधो द्रुमानिति धुनी । किस्मेति क्विप् । पृषोदरादित्वात्नुकू । नान्तत्वान्डीप् । सुराणां धुनी, देव- लोकनदीति, कौ तु त्वत्सङ्गमादेव स्तुता । लोके कथादिषु माहात्म्येषु च 'गङ्गा- द्वारे प्रयागे च गङ्गासागरसङ्गमे, सर्वत्र दुर्लभा गङ्गे'त्यादिवचनेषु श्रीमद्यमुनासम्मिल- नात्पूर्वमपि श्रीहरिद्वारकलखलक्षेत्रादिषु च मुक्तिदात्रीत्वं श्रूयते, तदाक्षिपन्नाहुः नन्विति । विशेषमिति, अधिकारिभेदेन किञ्चित्प्रकारे नानात्वम् पुष्टीति व्याकु- र्वन्ति । मर्यादेति । वेदोपनिषत्पुराणादिश्रवणेन यथार्थभगवन्माहात्म्यज्ञानम्, तस्मि- न्सति तत्रोक्तसाधनानुष्ठानं तेन च स्वरूपज्ञानम्, तस्मिन्सति मुक्तिरिति मर्यादा- मार्गः । निजजनानुदिधीर्षुर्भगवान्दयया निस्साधनान् अनुगृह्य लीलासुष्टौ प्रवेशयतीति पुष्टिमार्गः । एवं च मर्यादामार्गीयाणां शास्त्रश्रवणैकहेतुकज्ञानवत्त्वम् । तत्र च सृष्टि- स्थित्यर्थं तदिच्छयैव तत्स्वरूपं गूढरीत्योक्तम् । तथा च श्रुतिः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । अत्र वाग्गोचरस्तुतिकस्य मनोध्यानाविषयस्य ब्रह्मण आनन्दविदुषोऽकुतोभयवत्त्वमुच्यते,

गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम्। ५३ स्तुतिं तव करोति कः कमलजासपत्निप्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। तेन तदानन्दविद्वत्त्वं तदिच्छयैवेति भासतेऽन्यथा वाङ्मनोऽगोचरत्वमनुपपन्नं स्यात् । एवं च पुष्टिस्थानां त्विच्छयैव सर्वलीलाविशिष्टस्वरूपज्ञानं भगवान्हृदि निधत्त इति ते श्रीयमुनायाः सर्वाङ्गीणश्रमकमलजायाः स्वरूपं जानन्ति । इतरेषां तु 'द्वापरादौ युगे भूत्वा कलया मानुषादिष्वि'त्यादिप्रमुदत्ताज्ञाकरुद्रादिकलाभिर्ब्रह्मणादिभिर्भ्रा- न्तत्वान्न तेषां भगवत्स्वरूपज्ञानम्, कुतः श्रीयमुनापर्यन्तमिति ते स्तुतिं केवलगङ्गाया इति मन्यन्तेऽदीर्घदृष्टत्वात् । पुष्टिस्थास्तु पुराणादौ या स्तुतिः केवला या दृश्यते सापि त्वत्सम्बन्धादेवेति यथार्थं त्वत्स्वरूपज्ञानात् स्तुवन्ति । एतेषामेतन्मा- हात्म्यावगतेरित्येतदभिप्रेत्य मर्यादादित्यारभ्य पुष्टिस्थितैरित्यन्तमुक्तमिति । मूलान्व- यस्तु, भो मुकुन्दप्रिये ? तव सन्निधौ मम तनुभवत्वमस्तु, एतावता मुररिपौ रति- र्दुर्लभतमा नास्तीति शेषः, यत एवं, अतस्तव लालनाऽस्तु, सुरधुनी पुष्टिस्थितैः त्वत्सङ्गमात्रपरं कीर्तिता, न तु कदापि त्वद्रहितापीति शेषः । एवं चास्मिन्पद्ये भग- वति रतेर्दुर्लभत्वकथनेन भगवत्प्रियत्वसम्पादकत्वसप्तमैश्वर्यं प्रोदितम् ॥ ७॥ एवं भगवत्प्रियत्वसम्पादिकायाः स्तुतेरशक्यत्वं निरूप्य पूर्वश्लोके प्रार्थितस्य तनुभवत्वस्य प्रकारं तत्सम्पादिकात्वमशक्यस्तुतित्वे हेतुं च वदन्तः कैमुतिक- न्यायेनाऽग्रिमभवतारयन्ति यत्रेति । लीलाकृष्टौ सर्ववन्द्यात्रिविधजीवस्तुत्यगङ्गायाः स्तुतिः उत्कर्षवर्णनं त्वत्सम्बन्धा- त्तत्र त्वदुत्कर्षकथने को वा समर्थः ? हेतुं स्फुटयन्तोऽवतारयन्ति अशक्येति । सर्वत्रेति, लोके वेदे च स्तवनीयत्वं पुरुषोत्तमसंयोगादेव । 'तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः, वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशक इति, 'यद्यद्वि- भूतिमदि'तिवाक्येन च निश्चितम् । स पुरुषोत्तमसम्बन्धः सर्वत्र आब्रह्मस्थावरादिषु लक्ष्म्यपेक्षया अल्पः, तस्यास्तद्वक्षसि स्थितत्वात् । न हीतरस्तत्र क्षणमपि स्थाप्य- तेऽत एवं सर्वेषां लक्ष्मीतो न्यूनतां स्फुटीकृत्य श्रीयमुनायास्तत आधिक्यं स्फुट- यन्ति त्वन्त्विति । लक्ष्म्या एकपतिकेति तत्सदृक्सौभाग्ययुता । व्रजे चतस्रः स्वामिन्यस्ता व्रजलीलायामेव सर्वसुखानुभवं कुर्वन्ति । अन्यत्र लीलायां तु तासां ७

५४ ॰श्रीयमुनाष्टकम्। हरेर्यदनुसेवया भवति सौख्यमामोक्षतः। दृश्यते। तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति। साम्यमात्रे कर्तुं शक्यत एव, अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्। गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। विप्रयोगानुभव एव। लक्ष्मीस्तु व्रजरत्नानां क्रीडावकाशे सुखानुभवं करोति। तदुक्तं श्रीमदाचार्यवर्यैः सुबोधिन्याम्, 'तासामाविरभूदि'त्यस्य व्याख्यावसरे। तथा हि, 'अथवा, व्यापिवैकुण्ठरूपेण एतावत्कालं लक्ष्म्या सह रमणं कृत्वा तेनैव रूपेण प्रादु- र्भूतः। स्रग्वी वनमालायुक्तश्च, मध्ये ब्रह्मादिपूजां च गृहीतवान्, लक्ष्म्या वा, अतो विलम्ब' इत्यपि सूचितम्। अत एव प्रथमश्लोके पूर्वाध्याये 'श्रयत इन्दिरे'त्युक्तमिति 'जयति तेधिकमि'त्यस्य व्याख्यायां च 'कदा ममावसरो भविष्यतीति निरन्तरं सेवते' इति। प्रकृतमनुसरामः। श्रीयमुना तु व्रजे तुर्यप्रियारूपेण रमते। द्वारिकायां च तथारूपेण। तत्रास्यास्तथात्वे गमकं कुरुक्षेत्रोपाख्याने द्रौपद्या पृष्टाभिर्वैदर्भीप्रभृ- तिभिर्यथाक्रमेणोत्तरं दत्तम्, तदेव। तथा हि, 'रुक्मिणी' सत्यभामा च जाम्बुव- त्पुत्रिकाँ शुभा। कालिन्दीँ मित्रविन्दाँ च सत्याँ भद्राँ च लक्ष्मणाँ। महिष्यश्च समाचख्युः स्वां स्वां वैवाहिकीं कथाम्'। अस्मास्तत्रापि ताभ्य आधिक्यं स्कान्दे श्रीभागवतमाहात्म्ये स्फुटतरमिति ततोवगन्तव्यम्। एवं श्रीयमुनेतरस्वामिनीनामे- कैकस्मिन्नवसरे रमणम्। श्रीयमुनायास्तु स्वामिनीत्वेपि लक्ष्मीसमानसौभाग्यवती- त्वमित्यपि शब्दार्थः। ननु लक्ष्मीवत्तथात्वे एतस्या अपि स्तुतिस्तद्वच्छक्या भवि- ष्यतीति पाक्षिकं दोषं परिहरन्क्षिपन्ति नन्विति। लोके दृश्यते शास्त्रादिद्वारा तत्साम्यं लक्ष्मीतुल्यत्वम्। तस्मिन्सति तद्वत्स्तुतिः शक्या भविष्यतीत्याशङ्क्य सम्बोध्यपदस्य तात्पर्यमाहुः प्रिय इतीति। व्याकुर्वन्ति साम्येति। साम्यमेव साम्यमात्रं तस्मिन्नेव सति स्तोतुं शक्येतैव। अत्रेति श्रीयमुनायाम्। ततो लक्ष्म्याः अधिकम् अवतारानवतारदशासु अनवरतलीला- सम्बन्धिरूपं प्रियत्वं विद्यते। तथा हि, लक्ष्मीर्हि सर्वपत्नीभ्यो मुख्यात एव वक्षो- निवासकृतः। अन्यासां तदंशत्वेन तदधीनता, श्रीयमुनायास्तु तद्वत्सौभाग्यवत्त्वेन न तदंशत्वम्, प्रत्युत तत्सपत्नीत्वेन तद्विरुद्धस्वभावत्वमपीत्येतत्सर्वं प्रियत्वं विना न निर्वहतीति प्रियत्वमनुमीयते प्रमीयते च, प्रियत्वे सति लक्ष्मीत आधिक्यम्।

गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम्। ५५ ननु कथं ज्ञायते लक्ष्म्यपेक्षयाऽऽधिक्यमस्तीति, तत्र हेतुमाहुर्हरेर्यदनुसेवयेति। हरेरनु पश्चाद्यस्याः सेवया मोक्षं मर्यादीकृत्य सुखं भवति। मोक्षप्राप्तिर्भवती- त्यर्थः। न तु ततोऽप्यधिकं भजनानन्दाख्यं सुखं भवति । तदपि भगव- त्सहिततद्भजनेन न तु केवलयाः, केवलायां मोक्षविघातकत्वात् । अनुश- ब्दात् मुख्यतया भगवद्भजनम्। तदनुगुणत्वेन लक्ष्म्याः। कालिन्द्युत्कर्षमाहु- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। तथा हि, 'नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना, श्रियं चात्यन्तिकीं ब्रह्मण्येषां गतिरहंपरा',। यत्र मर्यादामागीयभक्तेष्वप्येतादृशी प्रतिज्ञा, तत्रानुग्रहमार्गे सकल- भक्तशिरोमणेः श्रीयमुनायाः प्रियत्वे किमुवाच्यमिति तत्करणमशक्यमित्युक्तम्। एवमनुमानप्रमाणाभ्यामाधिक्यं निश्चित्य प्रमेयसाधनफलैरप्याधिक्यं वक्तुं पुनरा- शङ्कते नन्विति । तत्र प्रमेयतः आधिक्ये 'प्रमेयं हरिरैकैव' इति निवन्धोक्तेः प्रमेयं भगवान्, साधनं च सेवा, 'तत्सिद्ध्यैतनुवित्तेजेति वक्ष्यमाणात्। एवं च प्रमेयस्य सेवानन्तरं लक्ष्म्याः सेवया साधनभूतया तत्तोषे मोक्षं पुरुषोत्तमादु- चरत्वम् । आमर्यादीकृत्य ततोऽर्वाक् 'सालोक्यसार्टिसामीप्यसारूप्यैकत्वमप्युत, दीयमानं न गृह्णन्ति विना मत्सेवनं जना' इत्यादिरूपम्, भगवदीयानामनिच्छा- विषयं सुखं यच्छति सा। मोक्षेति सगुणमोक्षलाभ इतिभावः। भजनानन्दस्या- 'द्विमूर्तिः कृष्ण एव सेव्यः सायुज्यकाम्यया' इति तत्त्वदीपे पुरुषोत्तमसेवैकलभ्यत्व- वदनादित्यत उक्तं न तु तत इति । हरेरित्यनेनान्यप्रमेयसापेक्षतया सेव्येत्यनेन साधनापेक्षया आमोक्षत इत्यनेन फलस्य तुच्छत्वेन ततः श्रीयमुनाया प्रमेयसाध- नफलैरुत्कर्षः सूच्यते । तत्सपत्नीत्वेन तद्विरुद्धस्वभाववतीतया । हरेरिति संयोग- सम्बन्धे षष्ठी, तत्तात्पर्यमाहुः तदपीति सगुणमोक्षमपि । तथा च, लक्ष्म्याः रूप- द्वयम् । एकं भगवता सह स्थितम्, सालोक्यादिप्रदम् । अपरं भेदेन स्थितं केवलं विभूतिरूपम् । भजनेन धनादिसम्पत्प्रदम् । तस्या 'अधनोयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् । इति कारुणिको नूनं धनं मे भूरिनाददात्' १०-८१-२० इत्यादिवाक्यैः भगवत्स्मरणविस्मारकत्वेनासुरावेशहेतुत्वात्संसारासक्तिसम्पादनद्वारा तथात्वम्, इति केवलं तद्भजनं निषेध्य तत्साकं तद्भजनमाहुरन्विति । एवं प्रमाणप्रमेयसाधनफल- स्वभावैर्लक्ष्म्याः श्रीयमुनातो न्यूनत्वमुक्त्वा श्रीयमुनायास्तनुभवत्वसम्पादने प्रकारं वदन्तःश्रीयमुनायाः प्रमाणादिभ्य उत्कर्षं कथयन्त उत्तरार्द्धमवतारयन्ति कालिन्द्यु-

५६ श्रीयमुनाष्टकम् । इयं तव कथाऽधिका सकलगोपिकासङ्गम- रिथे तव कथेति । इयमग्रत उच्चमाना तव कथाऽपि सर्वमुक्त्यपेक्षयाऽधिका । अत एवैतत्कथारसिकानां न मोक्षेच्छागन्धोऽपि । तदेवोक्तं पञ्चमस्कन्धे— “अथ ह वा व तव महिमामृतसमुद्रविप्रुषा सकृल्लीढया विस्मारितदृष्टश्रुत- सुखलेशाभासाः परमभागवता एकान्तिन” इति । सा केत्याकाङ्क्षायामाहुः सकलगोपिकेति । सकलगोपिकासङ्गमेन स्मरसम्बन्धी यः श्रमस्तेन जनिता ये स्वेदजलाणवः सकलगात्रजास्तैः सङ्गमो यस्याः । एतेन जलाणवो न श्रम- स्वेदरूपाः किन्तु विविधसङ्गमसस्य सर्वावयवपूर्णस्याऽत्युच्छलनेन बहि- त्कर्षमिति । कलिन्दस्येयं कालिन्दी, अस्या उदधिकं कर्षशं तनुभवत्वसम्पादनेन लीलासृष्टिप्रवेशनम् । कथामुखेनाहुः इयमग्रत इति । सर्वेति सालोक्यादितदपे- क्षया अधिका उत्कृष्टा । वैकुण्ठस्थितस्य भगवत एकस्मिन्वक्षःस्थलरूपगात्रस्थिता- यास्तस्याः कथायाः सकलाङ्गसम्बन्धिन्याः श्रीयमुनायाः कथा अधिका, अतस्तत एतत्कथारसनिमग्नानां न सालोक्यादिमुक्तीच्छालेशोपि । तदेवेति कथारसपूर्णा- नामन्यविस्मरणमेव । वृत्रपीडितदेवताभिर्नवमाध्याये षष्ठस्कन्धस्य कृष्णस्तुता- वुक्तम् । एवं रसिकानामितरविस्मृतिं प्रामाण्य श्रीयमुनायाः कथां विशदयितुमव- तारयन्ति सा केतीति । कलाभिः सहितः सकलः पुरुषोत्तमस्तस्य गोपिकाभिः सम्यग्गमनं, तदुक्तं ताभिर्युताः सकलाश्चतुर्विधा अपि गोपिका तासां यः सङ्गमः तद्धेतुको यः स्मरः कामः तज्जन्यो यः श्रमस्तेन करणभूतेन जनिता दृग्गोचरीकृता ये प्रस्वेदपयःकणाः, सकलतनूद्भवास्तैः सङ्गमो विविधभावभरेण, गमनं गमः । घञर्थे- कविधानमितिकः । सम्यक्प्राप्तिर्लीलासृष्टौ यस्याः श्रीयमुनायाः । यद्वा, यस्या इति पञ्चमी । यस्याः सकाशात्सङ्गमोऽन्येषामेतत्सम्बन्धिनां तनुभवत्वे सम्पने भवतीति श्रीयमुनाया आमघटस्य वह्निसङ्गमेन पक्वत्वमिव सकलगोपिकासङ्गमस्मरश्रमजलाणु- सङ्गमेनैव तनुभवत्वं सम्पाद्यावरणानाच्छन्नभगवल्लीलासृष्टौ निजानां तदनुभव- करणसामर्थ्यसम्पादनमिति महदाधिक्यम् । ननु बिन्दवश्चेत् सङ्गमजास्तर्हि तत्सङ्ग- मेन कथं तनुभवत्वं सेत्स्यतीत्याशङ्क्य बिन्दुस्वरूपं वर्णयन्ति एतेनेति, श्रीयमुना- १ सर्वत्र मुक्त्य० पाठः ।

[शीर्षक] गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ५७

स्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमः ॥ ८ ॥

रागतस्यैव बिन्दवो न तु केवलजलमात्रस्य । अत एवोक्तं सकलगात्रजै- रिति। एभिर्विशेषणैः परमकांष्ठा¹पन्नपुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वं सर्वदैतद्रस- पूर्णत्वमन्तरङ्गभक्तानुगुणत्वमेतल्लीलामध्यपतित्वादिकं सूचितम् । स्वस्यै- तद्रसपूर्णत्वेन केवलैतद्भजनकत्र्तुरप्येतद्रसं ददातीति स्पष्टमेव वैल- क्षण्यम् ॥ ८ ॥

गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् ।

यास्तत्समकथनेन, तनुभवत्वसम्पादनमभिप्रेत्य कथनेन, च । अत एवेति । यदि श्रमस्वेदरूपाः स्युस्तर्हि सकलगात्रजा न भवेयुः । केशनखादिषु स्वेदस्यानुप- लब्धेः । तेन रसरूपा एवेतिभावः । एभिरिति, सकलगोपिकासङ्गम इत्यनेन पुष्टिपुष्टिमार्गान्तरङ्गभक्तत्वे, स्मरश्रमजलाणुभिरनेन सर्वदैतद्रसपूर्णत्वम्, सकलगा- त्रजैरनेन भक्तानुगुणत्वम्, सङ्गम इत्यनेन लीलामध्यपतित्वम्, चादिपदेन तत्समा- नसौभाग्यवतीत्वेन तद्विरुद्धस्वभावात् । यथा रजोगुणप्रधाना सा (लक्ष्मीः) जीवान्मदेन केवलभजनकर्तॄन् भगवद्विमुखान्कृत्वा स्वर्गादिलोभेन प्रवाहमार्गे निपातयति, न तथेयमिति तत्सपत्नीत्वात् । दृश्यते हि परस्परं विरुद्धस्वभावत्यः सपत्न्यो लोके । एतदेव विशदयन्त आहुः स्वस्यैतदिति, यद्यपि, ‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति भगवता प्रतिश्रुतम्, तथापि श्रीमद्यमुनायां रसविवशेन भगवता स्वस्याष्टविधैश्वर्यस्य स्थापितत्वाच्छ्रीयमुनाया अनन्य- भजनकर्त्तुस्तनुभवत्वं सम्पाद्य तद्रसदानमिति भावः । दृश्यते हि लोकेपि महा- राज्ञां पूर्णाधिकारिणां विनाज्ञां, लघुकार्यस्याप्यकरणम्, अपूर्णाधिकारिणामप्याज्ञातो महत्कार्यसम्पादनम्, किं तत्राखिललोकनियन्तुर्भगवतः प्राणादपि प्रियायाः श्रीमद्यमु- नायास्तथाकरणे चित्रमिति हृदयम् । अन्वयस्तु, हे प्रिये ! कमलजासपत्नि तव स्तुतिं कः करोति, तत्र हेतुः, यत् हरेरनुलक्ष्म्याः सेवया आमोक्षतः सुखं भवति, तव कथा इयं अधिका, यत्सकलगोपिकासङ्गमस्मरश्रमजलाणुभिः सकलगात्रजैः सङ्गमो भवति, लक्ष्म्याः यत् (न) भवतीत्येतेषामध्याहारः । एवं अस्मिन्पद्ये तनुभवत्वसम्पादक- त्वमष्टमैश्वर्यं दर्शितम् ॥ ८ ॥


१ पराकाष्ठा० पाठः ।

५८ श्रीयमुनाष्टकम् । तवाऽष्टकमिदं मुदा पठति सूरसूते सदा- समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहस्तवाऽष्टकमिति । यद्य- प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव भवति, नाऽन्यथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत अवोक्तं, “नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत” इति । मुकुन्दपदाद्यद्यपि मोक्षमेव साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम्। ततः किमिति तत्राऽऽहुः अतः परं श्रीगोकुलनाथचरणानां विवृतिः । एवमष्टविधैश्वर्यप्रतिपादकान्श्लोकानुत्कर्षवर्णनतद्वश्यवर्णनद्वारा व्याख्याय स्तोत्रस्यासाधारणफलवोधकमग्रिमभवतारयन्ति एवमिति । उक्तप्रकारेण कलिदोष दात्रीं अलौकिकप्रकारेण संस्तूय अष्टविधैश्वर्यप्रतिपादकस्तोत्रस्य व्यक्ततयोदितस्य श्रीमत्प्रभुतुष्टिरूपं फलं प्रतिजानन्त आहुः यद्यपीति । अन्यैतिशङ्कराचार्यप्रभृतिभि- र्निर्मितानि । वक्ष्यमाणमिति अस्मिन्नेव पद्येऽनुपदं कथ्यमानम् । फलमिति स्तोत्रपाठमात्रेणैव भृशं सकलदुरितनिवृत्तिपूर्वकमुकुन्दरतिनिष्पत्तिः एतत्पाठेनैव तत्र हेतुमाहुः अन्यकृतेति । एवं विधेति स्तुतिं तवेतिश्लोकोक्तस्वरूपनिरूपणस्य तथात्वात् । फले क्रमं वदन्तो मूलान्वयमाहुः इदमिति । अत्र प्रमाणमाहुः अत एवोक्तमिति । एतेन दुरितनाशस्य भक्तिप्रजनने हेतुत्वमुक्तं भवति । मूलस्थस्य मुकुन्दपदस्याशयमाहुः मुकुन्दपदादिति । तथा चोक्तं पञ्चमस्कन्धे, 'राजन्पतिर्गुरुर- लम्भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किंकरी वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमिति ५-६-१८। भक्तिमेवेति। मूलस्थस्य निश्चयवाचकवैपदस्य तात्पर्यं बोध्यम् । तेन यद्यपि स मोक्षदस्तथापि त्वत्स्तुतेः प्रीतो भक्तिं ददातीति सुष्ठूक्तं भगवत्स्वभावपरावर्त्तकत्वमिति । उत्तरार्द्धमव- तारयन्ति तत इति, दुरितक्षयानन्तरं भगवद्रतेः किमग्रे फलं तदाहुः तथेति शेषपदा-

गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम् । ५९ तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति- बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठेनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । न्तम् । यद्वा, तया मुकुन्दरत्या सकलसिद्धयो गोप्यो मुररिपुश्च सन्तुष्यति । सक- लस्य पुरुषोत्तमस्य रमणस्य सिद्धिर्याभ्यः । भगवत्कृतप्रतिबन्धस्यानिवार्यत्वेन तद्गतो भक्तद्रोग्धारो यदेदं स्तोत्रं पठिष्यन्ति तत्र का व्यवस्थेति मनसिकृत्य क्षिपन्तो मूल- स्थस्य सुररिपुपदस्य सद्दष्टान्तमाशयमाहुः नन्वित्यारभ्य पदमित्यन्तम् । मूले च सन्तुष्यतीति । तथा च, लोके स्वोत्कर्षवर्णनात्स्वप्रियोत्कर्ष कथनस्यात्यन्तं स्वतो- षबीजत्वेन श्रीयमुनायाश्चात्यन्तं स्वहार्दवित्त्वेनैतत्स्तोत्रानुजल्पनेन प्रतिबन्धनिवारकः प्रभुः सम्यक् तुष्यति । यथा व्रजवरकुमारिकास्वेत्तत्तटे तुष्टो रासादिसुखं दत्तवाँस्त- थैतज्जल्पितारमप्यनुगृह्णातीतिभावः । किञ्च, श्रीयमुनाष्टकपाठात्स्वामिनि तुष्टेऽनावर- णानाच्छन्नप्रथुलीलामध्यपातिनि जीवे स्वामिन्योऽपि तुष्यन्ति, न तु भगवत्प्रिय- त्वरूपस्वभोग्यफलभोक्तरि जीवे ईर्ष्यन्ति, मुरलिकावत् । भगवत्प्रियकलिवारक- श्रीयमुनातोषस्य सर्वभक्ततोषहेतुत्वादिति चकारार्थः। टीकायां फलान्तरमिति सकल- दुरिताऽभावपूर्वकभगवद्रतिनिष्पत्तिरूपमेकं फलं पूर्वं निरूपितम्, तेन भगवत्स्वभा- वपरावर्त्तकत्वमेतस्योक्तम्, अतः परं जीवस्वभावपरावर्त्तकत्वमुच्यते स्वभावस्येति । स्वभावश्च जीवात्मनो भावः, प्रकृतिजन्यबोधे प्रकारः । जीवस्य जीवत्वमिति यावत् । तथा चोक्तं, विद्वन्मण्डने, 'आनंदांशस्तु पूर्वमेव तिरोहितो, येन जीवभाव' इति । तथा च, जीवस्याविद्यासम्बन्धेन भगवद्बहिर्मुख्यत्वस्यैतत्पाठितुः कृपया हृदि प्रभावाविर्भू- तेऽन्तरसानुभवत्वे सम्पन्ने बाह्यतश्च परावृत्तिर्भवति । यद्वा, स्वभावशब्देन मन उच्यते । तस्य विजयः स्वातन्त्र्येण प्रवर्त्तनं भवति । यद्वा, स्वस्य जीवस्य भावः । श्रीगोकुलप्राणप्रियसेवनरूपसहजधर्मस्तस्य विविध उत्कर्षः । परा अत्यन्तं आवृत्ति- रसकृत्सेवनम्, सम्पूर्णसेवाधिकारसिद्धिर्भवति । सेवाफलग्रन्थे वक्ष्यमाणस्य आद्य- स्यालौकिकसामर्थ्यरूपफलस्य प्राप्तिरिति यावत् । स वासनेतीति अनेकमनोरथानां

६० श्रीयमुनाष्टकम्। स्वभावविजयो भवेद्वदति वल्लभः श्रीहरेः ॥ ९ ॥ श्रीमद्वैश्वानरावतार श्रीमद्वल्लभाचार्यचरणविरचितं श्रीयमुनाष्टकस्तोत्रं सम्पूर्णम् । वोऽप्युत्तमस्वभावो भवतीत्यर्थः । नन्विदमनेकतपः साध्यं कथमेतत्पाठमात्रा- दिति चेत्तत्राऽऽहुर्वदति वल्लभ इति । तेनाऽऽप्तवाक्यत्वेन प्रामाण्यमुक्तम् । नन्वितः पूर्वं केनाऽप्यनुक्तत्वाद्वक्तुक्तिमात्रेण कथं प्रामाण्यमिति चेत्तत्रा- ऽऽहुः श्रीहरेरिति । साक्षाच्छ्रीपुरुषोत्तमसम्बन्धी यतः, अहमतो वदामीत्यर्थः। अत्राऽयमाशयः । साक्षात्स्वरूपसम्बन्धिनां स्वरूपं साक्षात्तत्सम्बन्धिन एव जानन्ति न त्वन्ये । श्रीकालिन्द्याः साक्षात्तत्सम्बन्धित्वं पूर्वं प्रकटमेवोपपा- दितम् । स्वातिरिक्तानां साक्षाच्छ्रीगोकुलेशसम्बन्धाभावात्साक्षात्तत्सम्ब- न्धिन्याः स्वरूपाज्ञानात्तदकथनम् । स्वस्य तु साक्षात्तादृशत्वात्तत्स्वरूपज्ञाना- त्तत्कथनमिति नाऽनुपपत्तिः काचित् । इति श्रीविठ्ठलेश्वरविरचिता श्रीयमुनाष्टकविवृतिः सम्पूर्णा । गो० श्रीद्वारकेशचरणविरचितं टिप्पणम्। पूर्त्तिर्भवति । स्तोत्रपठितुः 'कृष्णोऽहं पश्यत गतिमिति' श्लोकोक्तो मोक्षः सम्पद्यते । बाहिर्मुख्यनिवृत्तिपक्षे कर्मवासनानामनुद्भवो भवति । दुष्टस्वभाव इति । बहिर्मु- ख्यादिदोषग्रस्तोपि दैन्यभावसिद्ध्या सन्मुखो भवति । एतद्विषये प्रामाण्यं वक्तुमा- शङ्कन्ते नन्विदमिति । समादधते वदति वल्लभ इति, प्रियाः प्रियाभिप्रायं विज्ञा- यैव वदन्तीति भावः । तेनाऽऽप्तत्वेनेति । आप्तश्च यथार्थवादी, तादृशास्त्वत्राचार्य- चरणा एव । अन्येषामेतज्ज्ञानं नेति वक्तुं क्षिपन्ति नन्वित इति । श्रीहरेरिति । श्रीभिः स्वामिनीभिर्युक्तस्य सर्वदुःखहर्तुः प्रियोहम् । यतो वदामि तेन तत्तथैव । अग्रे स्पष्टम् । तथा हि, साक्षादिति श्रीयमुनाप्रभृतीनां स्मरश्रमे इत्याद्युक्तं रूपम् । साक्षात्तदिति श्रीमदाचार्या एव जानन्ति । स्वातिरिक्तानामिति, श्रीमदाचार्य- पादाब्जामोदरहितानाम् । साक्षादित्यादि । (अभावादिति) । आवरणानाच्छन्नस्वा- मिनीसहितगोकुलपतेरसम्बन्धात् । साक्षादिति श्रीयमुनायाः, तदिति एतादृ- क्प्रकारस्याकथनम् । स्वस्येति श्रीमदाचार्यरूपेण स्थितस्य साक्षादिति प्रकटतया, तादृशत्वादिति वस्तुतः कृष्णरूपत्वात्, तदिति 'स्मरश्रमे'त्याद्युक्तस्वरूपस्य- वर्णनमिति, न शङ्कालेश इति दिक् । मूलान्वयस्तु, हे सूरसूते ! इदं तवाष्टकं यः सदा मुदा पठति, तस्य समस्तदुरितक्षयो भवति, वै मुकुन्दे रतिर्भवति, तया सकलसिद्धयो भवन्ति, मुररिपुश्च सन्तुष्यति, स्वभावविजयो भवेत्, श्रीहरेर्वल्लभो वदति ।

गो० श्रीद्वारिकेशचरणविरचिततट्टिप्पणेन समलङ्कृतम् । ६१ श्रीमदाचार्यकृपया भर्तुः श्रीगिरिधारिणः । श्रीमद्विठ्ठलनाथस्य कृतिर्हि विवृता मया ॥ १ ॥ अत्र किञ्चिदयुक्तं यन्मयोक्तं स्वल्पबुद्धिना । क्षम्यन्तु तन्निजाचार्याः किङ्करे निजवंशजे ॥ २ ॥ युग्मम् ॥ स्वान्तःकरणनिष्ठेन श्रीमदाचार्यरूपिणा । श्रीमद्विठ्ठलनाथेन श्रीगोवर्द्धनधारिणा ॥ ३ ॥ प्रेरितेन कृतेयं श्रीमथुरानाथसूनुना । प्रीत्यै भूयाद्भगवतोः कालिन्दीकृष्णदेवयोः ॥ ४ ॥ इति श्रीमद्गोपीजनसुखपतेः पादयुगले, मनो धृत्वा दीनं किसलयदलाभे विरचिता । सदा श्रीकृष्णस्यात्मजचरणदेशे प्रपतिता निजा भक्ता एनाममुदिनमुदारां विदधतु ॥ ५ ॥ कालिन्दीकृष्णयोः प्रीत्यै सुगमान्वयबोधिनी । कृता तेन प्रसीदन्तु श्रीमदाचार्यनन्दनाः ॥ ६ ॥ श्रीमद्गोवर्द्धनधरसेवायां प्रतिबन्धकाः । ये ते सर्वे प्रणश्यन्तु ममेति प्रार्थनं प्रभो ॥ ७ ॥ इति श्रीमथुरानाथात्मजश्रीद्वारकेशचरणविरचिता सुगमान्वयबोधिनी श्रीयमुनाष्टकविवृतिटीका सम्पूर्णा । श्रीविठ्ठलेश्वरप्रभुचरणविरचितायाः श्री य मु ना ष्ट क वि वृ तेः वि व र ण त्र यं समाप्तम् ।

इस पृष्ठ पर कोई पाठ (text) मुद्रित नहीं है; यह एक रिक्त (blank) पृष्ठ है।