षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 64, कुल 408 में से
संदर्भ में पढ़ें५२ श्रीयमुनाष्टकम् । तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥ ७ ॥ साऽपि त्वत्कृपयैव नान्यथेति प्रार्थ्यतेऽस्त्विति। गङ्गाया अपि फलसाधकत्वं त्वत्सम्बन्धादेवेत्यत आहुः, सुरधुनी तव सङ्गमात् परं अत्यर्थं भुवि की- र्तिता स्तुतेत्यर्थः, न तु कदापि त्वद्रहिताऽपीत्यर्थः । ननु क्वचित्पुराणादौ केवलाया अपि स्तुतिर्दृश्यत इति स्तुतौ विशेषमाहुः पुष्टिस्थितेरिति । मर्या- दामार्गीयैः केवलाऽपि स्तूयते त्वत्स्वरूपाज्ञानात् । पुष्टिमार्गीयास्तु त्वत्स्व- रूपं जानन्तीति त्वत्सम्बन्धादेव स्तुवन्तीत्याहुः पुष्टिस्थितैरिति ॥ ७ ॥ गो० श्रीद्वारकेशचरणविरचितं टिप्पणम् । गुणगणकथनं सा स्तुतिरूपा भवतु । अस्तुपदस्य तात्पर्यमाहुः सापीति । लाल- नापि भगवत्कृतप्रतिबन्धेपि रक्षिकायास्तव कृपया सामर्थ्याभावेनैव सम्पत्स्यते, नान्यथा । इतरथा 'तदान्यसेवेति व्यर्थे'तिसेवाफलविवृतौ वक्ष्यमाणमनुपपन्नं स्यात् । एतत्सेवा तु भक्तसेवैवेति स्फुटमुक्तम्, तव सर्वभक्तमूलत्वात् । ननु गङ्गाया यद्यपि 'सन्निवेश्य मनो यस्मिन्च्छुद्धं यामुनयोमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो याता- स्तदात्मतामि'त्यादिरूपं यस्यां स्नानार्थं पानार्थं वा गच्छतः पुंसः पदे पदेऽश्वमेध- राजसूयादीनां फलं न दुर्लभमि'त्यादिरूपं च फलदात्रीत्वं श्रूयते, तथापि, यथा- धिकारमलौकिकसामर्थ्यादिफलसाधकत्वं सरश्रमजलजायास्तव संमिलनादेवेत्यत आहुः गङ्गाया इति । सुरधुनीति । धुञ्कम्पने । धुनोति तीरस्थवीरुधो द्रुमानिति धुनी । किस्मेति क्विप् । पृषोदरादित्वात्नुकू । नान्तत्वान्डीप् । सुराणां धुनी, देव- लोकनदीति, कौ तु त्वत्सङ्गमादेव स्तुता । लोके कथादिषु माहात्म्येषु च 'गङ्गा- द्वारे प्रयागे च गङ्गासागरसङ्गमे, सर्वत्र दुर्लभा गङ्गे'त्यादिवचनेषु श्रीमद्यमुनासम्मिल- नात्पूर्वमपि श्रीहरिद्वारकलखलक्षेत्रादिषु च मुक्तिदात्रीत्वं श्रूयते, तदाक्षिपन्नाहुः नन्विति । विशेषमिति, अधिकारिभेदेन किञ्चित्प्रकारे नानात्वम् पुष्टीति व्याकु- र्वन्ति । मर्यादेति । वेदोपनिषत्पुराणादिश्रवणेन यथार्थभगवन्माहात्म्यज्ञानम्, तस्मि- न्सति तत्रोक्तसाधनानुष्ठानं तेन च स्वरूपज्ञानम्, तस्मिन्सति मुक्तिरिति मर्यादा- मार्गः । निजजनानुदिधीर्षुर्भगवान्दयया निस्साधनान् अनुगृह्य लीलासुष्टौ प्रवेशयतीति पुष्टिमार्गः । एवं च मर्यादामार्गीयाणां शास्त्रश्रवणैकहेतुकज्ञानवत्त्वम् । तत्र च सृष्टि- स्थित्यर्थं तदिच्छयैव तत्स्वरूपं गूढरीत्योक्तम् । तथा च श्रुतिः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह, आनन्द ब्रह्मणो विद्वान्न बिभेति कुतश्चने'ति । अत्र वाग्गोचरस्तुतिकस्य मनोध्यानाविषयस्य ब्रह्मण आनन्दविदुषोऽकुतोभयवत्त्वमुच्यते,