षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 65, कुल 408 में से
संदर्भ में पढ़ेंगो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम्। ५३ स्तुतिं तव करोति कः कमलजासपत्निप्रिये यत्र त्वत्सम्बन्धात्सर्ववन्द्यगङ्गास्तुतिस्तत्र त्वत्स्तुतौ को वा समर्थ इत्याहुः स्तुतिं तवेति । अशक्यस्तुतित्वे हेतुमाहुः कमलजासपत्नीति । सर्वत्र स्तुत्यत्वं भगवत्सम्बन्धात् । स सर्वत्र लक्ष्म्यपेक्षया न्यून एव । त्वं तु तस्या अपि सपत्नी तत्समानसौभाग्यवती । ननु लक्ष्मीस्तुतिस्तु लोके गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। तेन तदानन्दविद्वत्त्वं तदिच्छयैवेति भासतेऽन्यथा वाङ्मनोऽगोचरत्वमनुपपन्नं स्यात् । एवं च पुष्टिस्थानां त्विच्छयैव सर्वलीलाविशिष्टस्वरूपज्ञानं भगवान्हृदि निधत्त इति ते श्रीयमुनायाः सर्वाङ्गीणश्रमकमलजायाः स्वरूपं जानन्ति । इतरेषां तु 'द्वापरादौ युगे भूत्वा कलया मानुषादिष्वि'त्यादिप्रमुदत्ताज्ञाकरुद्रादिकलाभिर्ब्रह्मणादिभिर्भ्रा- न्तत्वान्न तेषां भगवत्स्वरूपज्ञानम्, कुतः श्रीयमुनापर्यन्तमिति ते स्तुतिं केवलगङ्गाया इति मन्यन्तेऽदीर्घदृष्टत्वात् । पुष्टिस्थास्तु पुराणादौ या स्तुतिः केवला या दृश्यते सापि त्वत्सम्बन्धादेवेति यथार्थं त्वत्स्वरूपज्ञानात् स्तुवन्ति । एतेषामेतन्मा- हात्म्यावगतेरित्येतदभिप्रेत्य मर्यादादित्यारभ्य पुष्टिस्थितैरित्यन्तमुक्तमिति । मूलान्व- यस्तु, भो मुकुन्दप्रिये ? तव सन्निधौ मम तनुभवत्वमस्तु, एतावता मुररिपौ रति- र्दुर्लभतमा नास्तीति शेषः, यत एवं, अतस्तव लालनाऽस्तु, सुरधुनी पुष्टिस्थितैः त्वत्सङ्गमात्रपरं कीर्तिता, न तु कदापि त्वद्रहितापीति शेषः । एवं चास्मिन्पद्ये भग- वति रतेर्दुर्लभत्वकथनेन भगवत्प्रियत्वसम्पादकत्वसप्तमैश्वर्यं प्रोदितम् ॥ ७॥ एवं भगवत्प्रियत्वसम्पादिकायाः स्तुतेरशक्यत्वं निरूप्य पूर्वश्लोके प्रार्थितस्य तनुभवत्वस्य प्रकारं तत्सम्पादिकात्वमशक्यस्तुतित्वे हेतुं च वदन्तः कैमुतिक- न्यायेनाऽग्रिमभवतारयन्ति यत्रेति । लीलाकृष्टौ सर्ववन्द्यात्रिविधजीवस्तुत्यगङ्गायाः स्तुतिः उत्कर्षवर्णनं त्वत्सम्बन्धा- त्तत्र त्वदुत्कर्षकथने को वा समर्थः ? हेतुं स्फुटयन्तोऽवतारयन्ति अशक्येति । सर्वत्रेति, लोके वेदे च स्तवनीयत्वं पुरुषोत्तमसंयोगादेव । 'तेजः श्रीः कीर्तिरैश्वर्यं ह्रीस्त्यागः सौभगं भगः, वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मेंऽशक इति, 'यद्यद्वि- भूतिमदि'तिवाक्येन च निश्चितम् । स पुरुषोत्तमसम्बन्धः सर्वत्र आब्रह्मस्थावरादिषु लक्ष्म्यपेक्षया अल्पः, तस्यास्तद्वक्षसि स्थितत्वात् । न हीतरस्तत्र क्षणमपि स्थाप्य- तेऽत एवं सर्वेषां लक्ष्मीतो न्यूनतां स्फुटीकृत्य श्रीयमुनायास्तत आधिक्यं स्फुट- यन्ति त्वन्त्विति । लक्ष्म्या एकपतिकेति तत्सदृक्सौभाग्ययुता । व्रजे चतस्रः स्वामिन्यस्ता व्रजलीलायामेव सर्वसुखानुभवं कुर्वन्ति । अन्यत्र लीलायां तु तासां ७