षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 66, कुल 408 में से
संदर्भ में पढ़ें५४ ॰श्रीयमुनाष्टकम्। हरेर्यदनुसेवया भवति सौख्यमामोक्षतः। दृश्यते। तर्हि तत्साम्यं चेत्कथं स्तुतिरशक्येत्याहुः प्रिये इति। साम्यमात्रे कर्तुं शक्यत एव, अत्र तु ततोऽप्यधिकं प्रियत्वमस्तीति स्तुतिकरणमशक्यम्। गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम्। विप्रयोगानुभव एव। लक्ष्मीस्तु व्रजरत्नानां क्रीडावकाशे सुखानुभवं करोति। तदुक्तं श्रीमदाचार्यवर्यैः सुबोधिन्याम्, 'तासामाविरभूदि'त्यस्य व्याख्यावसरे। तथा हि, 'अथवा, व्यापिवैकुण्ठरूपेण एतावत्कालं लक्ष्म्या सह रमणं कृत्वा तेनैव रूपेण प्रादु- र्भूतः। स्रग्वी वनमालायुक्तश्च, मध्ये ब्रह्मादिपूजां च गृहीतवान्, लक्ष्म्या वा, अतो विलम्ब' इत्यपि सूचितम्। अत एव प्रथमश्लोके पूर्वाध्याये 'श्रयत इन्दिरे'त्युक्तमिति 'जयति तेधिकमि'त्यस्य व्याख्यायां च 'कदा ममावसरो भविष्यतीति निरन्तरं सेवते' इति। प्रकृतमनुसरामः। श्रीयमुना तु व्रजे तुर्यप्रियारूपेण रमते। द्वारिकायां च तथारूपेण। तत्रास्यास्तथात्वे गमकं कुरुक्षेत्रोपाख्याने द्रौपद्या पृष्टाभिर्वैदर्भीप्रभृ- तिभिर्यथाक्रमेणोत्तरं दत्तम्, तदेव। तथा हि, 'रुक्मिणी' सत्यभामा च जाम्बुव- त्पुत्रिकाँ शुभा। कालिन्दीँ मित्रविन्दाँ च सत्याँ भद्राँ च लक्ष्मणाँ। महिष्यश्च समाचख्युः स्वां स्वां वैवाहिकीं कथाम्'। अस्मास्तत्रापि ताभ्य आधिक्यं स्कान्दे श्रीभागवतमाहात्म्ये स्फुटतरमिति ततोवगन्तव्यम्। एवं श्रीयमुनेतरस्वामिनीनामे- कैकस्मिन्नवसरे रमणम्। श्रीयमुनायास्तु स्वामिनीत्वेपि लक्ष्मीसमानसौभाग्यवती- त्वमित्यपि शब्दार्थः। ननु लक्ष्मीवत्तथात्वे एतस्या अपि स्तुतिस्तद्वच्छक्या भवि- ष्यतीति पाक्षिकं दोषं परिहरन्क्षिपन्ति नन्विति। लोके दृश्यते शास्त्रादिद्वारा तत्साम्यं लक्ष्मीतुल्यत्वम्। तस्मिन्सति तद्वत्स्तुतिः शक्या भविष्यतीत्याशङ्क्य सम्बोध्यपदस्य तात्पर्यमाहुः प्रिय इतीति। व्याकुर्वन्ति साम्येति। साम्यमेव साम्यमात्रं तस्मिन्नेव सति स्तोतुं शक्येतैव। अत्रेति श्रीयमुनायाम्। ततो लक्ष्म्याः अधिकम् अवतारानवतारदशासु अनवरतलीला- सम्बन्धिरूपं प्रियत्वं विद्यते। तथा हि, लक्ष्मीर्हि सर्वपत्नीभ्यो मुख्यात एव वक्षो- निवासकृतः। अन्यासां तदंशत्वेन तदधीनता, श्रीयमुनायास्तु तद्वत्सौभाग्यवत्त्वेन न तदंशत्वम्, प्रत्युत तत्सपत्नीत्वेन तद्विरुद्धस्वभावत्वमपीत्येतत्सर्वं प्रियत्वं विना न निर्वहतीति प्रियत्वमनुमीयते प्रमीयते च, प्रियत्वे सति लक्ष्मीत आधिक्यम्।