षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)
Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य द्वारा
पृष्ठ 70, कुल 408 में से
संदर्भ में पढ़ें५८ श्रीयमुनाष्टकम् । तवाऽष्टकमिदं मुदा पठति सूरसूते सदा- समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । एवं कालिन्दीं स्तुत्वैतत्स्तोत्रपाठफलमाहस्तवाऽष्टकमिति । यद्य- प्यन्यकृतान्यपि स्तोत्राणि सन्ति तथापि वक्ष्यमाणं फलमेतत्स्तोत्रपाठेनैव भवति, नाऽन्यथेति ज्ञापनायेदमित्युक्तम् । अन्यकृतस्तोत्रेष्वेवंविधस्वरूप निरूपणाभावात् । इदं तवाष्टकं यः पठति तस्य पूर्वं समस्तदुरितक्षयो भवति । तदनन्तरं मोक्षदातार्यपि स्नेहो भवति । अत अवोक्तं, “नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायत” इति । मुकुन्दपदाद्यद्यपि मोक्षमेव साधारण्येन सर्वेभ्यो ददाति तथापि त्वत्स्तुतिपाठात्प्रसन्नो भक्तिमेव ददाति न तु मोक्षमपीति भगवत्स्वभावपरावर्त्तकत्वमुक्तम्। ततः किमिति तत्राऽऽहुः अतः परं श्रीगोकुलनाथचरणानां विवृतिः । एवमष्टविधैश्वर्यप्रतिपादकान्श्लोकानुत्कर्षवर्णनतद्वश्यवर्णनद्वारा व्याख्याय स्तोत्रस्यासाधारणफलवोधकमग्रिमभवतारयन्ति एवमिति । उक्तप्रकारेण कलिदोष दात्रीं अलौकिकप्रकारेण संस्तूय अष्टविधैश्वर्यप्रतिपादकस्तोत्रस्य व्यक्ततयोदितस्य श्रीमत्प्रभुतुष्टिरूपं फलं प्रतिजानन्त आहुः यद्यपीति । अन्यैतिशङ्कराचार्यप्रभृतिभि- र्निर्मितानि । वक्ष्यमाणमिति अस्मिन्नेव पद्येऽनुपदं कथ्यमानम् । फलमिति स्तोत्रपाठमात्रेणैव भृशं सकलदुरितनिवृत्तिपूर्वकमुकुन्दरतिनिष्पत्तिः एतत्पाठेनैव तत्र हेतुमाहुः अन्यकृतेति । एवं विधेति स्तुतिं तवेतिश्लोकोक्तस्वरूपनिरूपणस्य तथात्वात् । फले क्रमं वदन्तो मूलान्वयमाहुः इदमिति । अत्र प्रमाणमाहुः अत एवोक्तमिति । एतेन दुरितनाशस्य भक्तिप्रजनने हेतुत्वमुक्तं भवति । मूलस्थस्य मुकुन्दपदस्याशयमाहुः मुकुन्दपदादिति । तथा चोक्तं पञ्चमस्कन्धे, 'राजन्पतिर्गुरुर- लम्भवतां यदूनां दैवं प्रियः कुलपतिः क्व च किंकरी वः । अस्त्वेवमङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित्स्म न भक्तियोगमिति ५-६-१८। भक्तिमेवेति। मूलस्थस्य निश्चयवाचकवैपदस्य तात्पर्यं बोध्यम् । तेन यद्यपि स मोक्षदस्तथापि त्वत्स्तुतेः प्रीतो भक्तिं ददातीति सुष्ठूक्तं भगवत्स्वभावपरावर्त्तकत्वमिति । उत्तरार्द्धमव- तारयन्ति तत इति, दुरितक्षयानन्तरं भगवद्रतेः किमग्रे फलं तदाहुः तथेति शेषपदा-