भारतकोश
षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

पृष्ठ 71, कुल 408 में से

संदर्भ में पढ़ें
पृष्ठ 71

गो० श्रीद्वारिकेशचरणविरचितटिप्पणेन समलङ्कृतम् । ५९ तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति तया सकलसिद्धयः पूर्वोक्ताः सर्वात्मभावादयो भवन्तीति शेषः । ननु प्रति- बन्धके विद्यमाने सति कथमेतत्स्तोत्रमात्रादेतावद्भवतीति चेत्तत्राऽऽहुर्मुररि- पुश्च सन्तुष्यतीति । यथा दोषरूपं तन्निरुद्धकन्यासुखप्राप्तिप्रतिबन्धकं निरा- कृत्य ता अङ्गीकृतवानेवमेतत्पाठेनाऽपि प्रतिबन्धं निवार्य तमप्यङ्गीकरोती- त्यपि ज्ञापनाय मुररिपुपदम् । फलान्तरमाहुः स्वभावविजयो भवेदिति । स्वभावस्य विजयः परावृत्तिर्भवति । सवासनेति व्युपसर्गार्थः । दुष्टस्वभा- गो० श्रीद्वारिकेशचरणविरचितं टिप्पणम् । न्तम् । यद्वा, तया मुकुन्दरत्या सकलसिद्धयो गोप्यो मुररिपुश्च सन्तुष्यति । सक- लस्य पुरुषोत्तमस्य रमणस्य सिद्धिर्याभ्यः । भगवत्कृतप्रतिबन्धस्यानिवार्यत्वेन तद्गतो भक्तद्रोग्धारो यदेदं स्तोत्रं पठिष्यन्ति तत्र का व्यवस्थेति मनसिकृत्य क्षिपन्तो मूल- स्थस्य सुररिपुपदस्य सद्दष्टान्तमाशयमाहुः नन्वित्यारभ्य पदमित्यन्तम् । मूले च सन्तुष्यतीति । तथा च, लोके स्वोत्कर्षवर्णनात्स्वप्रियोत्कर्ष कथनस्यात्यन्तं स्वतो- षबीजत्वेन श्रीयमुनायाश्चात्यन्तं स्वहार्दवित्त्वेनैतत्स्तोत्रानुजल्पनेन प्रतिबन्धनिवारकः प्रभुः सम्यक् तुष्यति । यथा व्रजवरकुमारिकास्वेत्तत्तटे तुष्टो रासादिसुखं दत्तवाँस्त- थैतज्जल्पितारमप्यनुगृह्णातीतिभावः । किञ्च, श्रीयमुनाष्टकपाठात्स्वामिनि तुष्टेऽनावर- णानाच्छन्नप्रथुलीलामध्यपातिनि जीवे स्वामिन्योऽपि तुष्यन्ति, न तु भगवत्प्रिय- त्वरूपस्वभोग्यफलभोक्तरि जीवे ईर्ष्यन्ति, मुरलिकावत् । भगवत्प्रियकलिवारक- श्रीयमुनातोषस्य सर्वभक्ततोषहेतुत्वादिति चकारार्थः। टीकायां फलान्तरमिति सकल- दुरिताऽभावपूर्वकभगवद्रतिनिष्पत्तिरूपमेकं फलं पूर्वं निरूपितम्, तेन भगवत्स्वभा- वपरावर्त्तकत्वमेतस्योक्तम्, अतः परं जीवस्वभावपरावर्त्तकत्वमुच्यते स्वभावस्येति । स्वभावश्च जीवात्मनो भावः, प्रकृतिजन्यबोधे प्रकारः । जीवस्य जीवत्वमिति यावत् । तथा चोक्तं, विद्वन्मण्डने, 'आनंदांशस्तु पूर्वमेव तिरोहितो, येन जीवभाव' इति । तथा च, जीवस्याविद्यासम्बन्धेन भगवद्बहिर्मुख्यत्वस्यैतत्पाठितुः कृपया हृदि प्रभावाविर्भू- तेऽन्तरसानुभवत्वे सम्पन्ने बाह्यतश्च परावृत्तिर्भवति । यद्वा, स्वभावशब्देन मन उच्यते । तस्य विजयः स्वातन्त्र्येण प्रवर्त्तनं भवति । यद्वा, स्वस्य जीवस्य भावः । श्रीगोकुलप्राणप्रियसेवनरूपसहजधर्मस्तस्य विविध उत्कर्षः । परा अत्यन्तं आवृत्ति- रसकृत्सेवनम्, सम्पूर्णसेवाधिकारसिद्धिर्भवति । सेवाफलग्रन्थे वक्ष्यमाणस्य आद्य- स्यालौकिकसामर्थ्यरूपफलस्य प्राप्तिरिति यावत् । स वासनेतीति अनेकमनोरथानां