श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 1425, कुल 1617 में से
संदर्भ में पढ़ें।। ॐ नमो भगवते वासुदेवाय ।।
श्रीमद्भागवतमहापुराणम्
अष्टमः स्कन्धः
अथ प्रथमोऽध्यायः
मन्वन्तरोंका वर्णन
राजोवाच
स्वायम्भुवस्येह^१ गुरो वंशोऽयं विस्तराच्छ्रुतः ।
यत्र^२ विश्वसृजां सर्गो मनूनन्यान्वदस्व नः ।।१
यत्र^३ यत्र हरेर्जन्म कर्माणि च महीयसः ।
गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ।।२
यद्यस्मिन्नन्तरे^४ ब्रह्मन्भगवान्विश्वभावनः ।
कृतवान्कुरुते कर्ता^५ ह्यतीतेऽनागतेऽद्य वा ।।३
ऋषिरुवाच
मनवोऽस्मिन्व्यतीताः षट्^६ कल्पे स्वायम्भुवादयः ।
आद्यस्ते^७ कथितो यत्र देवादीनां च सम्भवः ।।४
आकृत्यां देवहूत्यां त^८ दुहित्रोस्तस्य वै मनोः ।
धर्मज्ञानोपदेशार्थं^९ भगवान्पुत्रतां गतः ।।५
राजा परीक्षित्ने पूछा—गुरुदेव! स्वायम्भुव मनुका वंश-विस्तार मैंने सुन लिया। इसी वंशमें उनकी कन्याओंके द्वारा मरीचि आदि प्रजापतियोंने अपनी वंशपरम्परा चलायी थी। अब आप हमसे दूसरे मनुओंका वर्णन कीजिये ।।१।।
ebook converter DEMO Watermarks*