श्रीमद्भागवत महापुराण
Shrimad Bhagavata Mahapurana
महर्षि वेदव्यास द्वारा
पृष्ठ 888, कुल 1617 में से
संदर्भ में पढ़ेंअथ सप्तविंशोऽध्यायः
पुरंजनपुरीपर चण्डवेगकी चढ़ाई तथा कालकन्याका चरित्र
नारद उवाच
इत्थं पुरंजनं सम्यग्वशमानीय विभ्रमैः ।
पुरंजनी महाराज रेमे रमयती पतिम् ॥१
स राजा महिषीं राजन् सुस्नातां रुचिराननाम् ।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥२
तयोपगूढः परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतनः ।
न कालरंहो बुबुधे दुरत्ययं
दिवा निशेति प्रमदापरिग्रहः ॥३
शयान उन्नद्धमदो महामना
महार्हतल्पे महिषीभुजोपधिः ।
तामेव वीरो मनुते परं यत-
स्तमोऽभिभूतो न निजं परं च यत् ॥४
तयैवं रममाणस्य कामकश्मलचेतसः ।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥५
तस्यामजनयत्पुत्रान् पुरंजन्यां पुरंजनः ।
शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥६
दुहितॄद्दशोत्तरशतं पितृमातृयशस्करीः ।
शीलोदार्यगुणोपेताः पौरंजन्यः प्रजापते ॥७
स पंचालपतिः पुत्रान् पितृवंशविवर्धनान् ।
दारैः संयोजयामास दुहितॄः सदृशैर्वरैः ॥८
पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् ।
यैर्वै पौरंजनो वंशः पंचालेषु समेधितः ॥९
तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।
निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥१०
श्रीनारदजी कहते हैं—महाराज! इस प्रकार वह सुन्दरी अनेकों नखरोंसे पुरंजनको पूरी