श्रीमद्वाल्मीकीय रामायण
Shrimad Valmiki Ramayana
महर्षि वाल्मीकि द्वारा
पृष्ठ 71, कुल 2621 में से
संदर्भ में पढ़ेंशचीपतिं सर्वसुरेशवन्द्यं सर्वार्तिहर्तारमचिन्त्यशक्तिम्। श्रीरामसेवानिरतं महान्तं वन्दे महेन्द्रं धृतवज्रमीड्यम्॥
फिर—
सहस्रनयनं देवं सर्वदेवनमस्कृतम्। दिव्यवज्रधरं वन्दे महेन्द्रं च शचीपतिम्॥
इस मन्त्रसे इन्द्रकी पूजा करे और नष्ट द्रव्य-प्राप्ति आदिकी कामनासे इसीसे सम्पुटित कर पाठ करे।
किष्किन्धाकाण्डका ऋष्यादिन्यास
ॐ अस्य श्रीकिष्किन्धाकाण्डमहामन्त्रस्य भगवान् ऋषिः। अनुष्टुप् छन्दः। सुग्रीवो देवता। सुं बीजम्। नमः शक्तिः। सुग्रीवेति कीलकम्। मम सुग्रीवप्रसादसिद्धार्थे किष्किन्धाकाण्डपारायणे विनियोगः। ॐ भगवदृषये नमः शिरसि। ॐ अनुष्टुप्छन्दसे नमः मुखे। ॐ सुग्रीवदेवतायै नमः हृदये। ॐ सुं बीजाय नमः गुह्ये। ॐ नमः शक्तये नमः पादयोः। ॐ सुग्रीवाय कीलकाय नमः सर्वाङ्गे।
करन्यास
ॐ सुग्रीवाय अङ्गुष्ठाभ्यां नमः। ॐ सूर्यतनयाय तर्जनीभ्यां नमः। ॐ सर्ववानरपुङ्गवाय मध्यमाभ्यां नमः। ॐ बलवते अनामिकाभ्यां नमः। ॐ राघवसखाय कनिष्ठिकाभ्यां नमः। ॐ वशी राज्यं प्रयच्छतु इति करतलकरपृष्ठाभ्यां नमः।
इन्हीं मन्त्रोंसे हृदयादिन्यास करके इस प्रकार ध्यान करे—
सुग्रीवमर्कतनयं कपिवर्यवन्द्य- मारोपिताच्युतपदाम्बुजमादरेण। पाणिप्रहारकुशलं बलपौरुषाढ्य- माशास्यदास्यनिपुणं हृदि भावयामि॥
फिर ‘सुं सुग्रीवाय नमः’ तथा—
सुग्रीवः सूर्यतनयः सर्ववानरपुङ्गवः। बलवान् राघवसखा वशी राज्यं प्रयच्छतु॥