भारतकोश
श्रीमद्वाल्मीकीय रामायण

श्रीमद्वाल्मीकीय रामायण

Shrimad Valmiki Ramayana

महर्षि वाल्मीकि द्वारा

DevanagariHindipublished2,621 पृष्ठ

पृष्ठ 74, कुल 2621 में से

संदर्भ में पढ़ें
पृष्ठ 74

४. ‘बृहद्धर्मपुराणके अनुसार रामायणके पारायणके पहले रामायणकवचका भी पाठ कर लेना चाहिये। वह मङ्गलाचरणके पहले होना चाहिये। कम-से-कम प्रथम दिन इसका पाठ तो कर ही लेना चाहिये। कवच इस प्रकार है—

ॐ नमोऽष्टादशतत्त्वरूपाय रामायणाय महामन्त्रस्वरूपाय। मा निषादेति मूलं शिरोऽवतु। अनुक्रमणिकाबीजं मुखमवतु। ऋष्यशृङ्गोपाख्यानमृषिर्जिह्वामवतु। जानकीलाभोऽनुष्टुप्च्छन्दोऽवतु गलम्। केक्य्यज्ञा देवता हृदयमवतु। सीतालक्ष्मणानुगमनश्रीरामहर्षाः प्रमाणं जठरमवतु। भगवद्भक्तिः शक्तिरवतु मे मध्यम्। शक्तिमान् धर्मो मुनीनां पालनं ममोरू रक्षतु। मारीचवचनं प्रतिपालनमवतु पादौ। सुग्रीवमैत्रमर्थोऽवतु स्तनौ। निर्णयो हनुमच्चेष्टावतु बाहू। कर्ता सम्पातिपक्षोद्गमोऽवतु स्कन्धौ। प्रयोजनं विभीषणराज्यं ग्रीवां ममावतु। रावणवधः स्वरूपमवतु कर्णौ। सीतोद्धारो लक्षणमवतु नासिके। अमोघस्तव संस्त्वोऽवतु जीवात्मानम्। नयः काललक्ष्मणसंवादोऽवतु नाभिम्। आचरणीयं श्रीरामादिधर्मं सर्वाङ्गं ममावतु। इति रामायणकवचम्। (बृहद्धर्मपुराणम्, पूर्वखण्डम् २५ वाँ अध्याय)

५. प्रथमे तु अयोध्यायाः षट्सर्गान्ते शुभा स्थितिः। तस्यैवाशीतिसर्गान्ते द्वितीये दिवसे स्थितिः॥

तथा विंशतिसर्गान्ते चारण्यस्य तृतीयके। दिने चतुर्थे षट्चत्वारिंशत्सर्गे कथास्थितिः॥
किष्किन्धाख्यस्य काण्डस्य पाठविद्भिरुदाहृता। सुसप्तचत्वारिंशत्के सर्गान्ते सुन्दरेस्थितिम्॥
पञ्चमे दिवसे कुर्यादथ षष्ठे तथोच्यते। युद्धकाण्डस्य पञ्चाशत्सर्गान्ते विमला स्थितिः॥
एकोनशतसंख्याके सर्गान्ते सप्तमे दिने। युद्धस्यैव तु काण्डस्य विश्रामः सम्प्रकीर्तितः॥
तथा चोत्तरकाण्डस्य षट्त्रिंशत्सर्गपूरणे। अष्टमे दिवसे कृत्वा स्थितिं च नवमे दिने॥
शेषं समाप्य युद्धस्य चान्त्यं सर्गं पुनः पठेत्। रामराज्यकथा यस्मिन् सर्ववाञ्छितदायिनी॥
एवं पाठक्रमः पूर्वैराचार्यैश्च विनिर्मितः।

(अनुष्ठानप्रकाश)

६. बृहद्धर्मपुराणमें अलग-अलग काण्डोंके पाठके प्रयोजन इस प्रकार बतलाये गये हैं—

अनावृष्टिर्महापीडाग्रहपीडाप्रपीडिताः। आदिकाण्डं पठेयुर्ये ते मुच्यन्ते ततो भयात्॥
पुत्रजन्मविवाहादौ गुरुदर्शन एव च। पठेच्च शृणुयाच्चैव द्वितीयं काण्डमुत्तमम्॥
वने राजकुले वह्निजलप्लवायुतो नरः। पठेदारण्यकं काण्डं शृणुयाद् वा स मङ्गली॥
मित्रलाभे तथा नष्टद्रव्यस्य च गवेषणे। श्रुत्वा पठित्वा कैष्किन्ध्यं काण्डं तत्तत् फलं लभेत्॥
श्राद्धेषु देवकार्येषु पठेत् सुन्दरकाण्डकम्। शत्रोजये समुत्साहे जनवादे विगर्हिते॥
लङ्काकाण्डं पठेत् किं वा शृणुयात् स सुखी भवेत्।
यः पठेच्छृणुयाद् वापि काण्डमभ्युदयोत्तरम्। आनन्दकार्ये यात्रायां स जयी परतोऽत्र च॥
मोक्षार्थी लभते मोक्षं भक्तार्थी भक्तिमेव च। ज्ञानार्थी लभते ज्ञानं ब्रह्मतत्त्वोपलम्भकम्॥

(बृहद्धर्मपुराण, पूर्वखण्ड, अध्याय २६। ९—१५)

* रामभद्र महेष्वास रघुवीर नृपोत्तम। भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते॥

इस मन्त्रके सम्पुटसे सुन्दरकाण्डका पाठ भी किया जा सकता है।